विष्णुधर्म (viSNudharma)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English विष्णुधर्म viSNudharma kind of zrAddha
Aufrecht Catalogus Catalogorum
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
शब्दकल्पद्रुमः
Sanskritविष्णुधर्म्मः, (विष्णुप्रधानो धर्म्मोऽस्मिन् ।) शास्त्र-विशेषः । यथा । “ब्रह्मचारिकाण्डे भविष्य-पुराणम् ।‘अष्टादश पुराणानि रामस्य चरितं तथा ।विष्णुधर्म्मादिशास्त्राणि शिवधर्म्माश्च भारत ॥
कार्ष्ण्यञ्च पञ्चमो वेदो यन्महाभारतं स्मृतम् ।सौराश्च धर्म्मा राजेन्द्र मानवोक्ता महीपते ।जयेति नाम एतेषां प्रवदन्ति मनीषिणः ॥
’जयत्यनेन संसारमिति जयस्तत्तद्ग्रन्थः ॥
” इतितिथादितत्त्वम् ॥
* ॥
विद्याविशेषः । यथा, --“अवाप जप्त्वा चेन्द्रत्वं विष्णुधर्म्माख्यविद्यया ।सर्व्वान् शत्रून् विनिर्जित्य ताञ्च वक्ष्ये महेश्वर ॥
पादयोर्जानुनोरूर्व्वोरुदरे हृद्यथोरसि ।मुखे शिरस्यानुपूर्व्वादोङ्कारादिं विनिर्द्दिशेत् ॥
ओँ नमो नारायणायेति विपर्य्ययमथापि वा ।करन्यासं ततः कुर्य्यात् द्वादशाक्षरविद्यया ॥
प्रणवादियकारान्तमङ्गुल्यङ्गुष्ठपर्व्वसु ।न्यस्येत् हृदय ओँकारं नकारं मम मूर्द्धनि ॥
मोकारन्तु भ्रुवोर्म्मध्ये शिखानेत्रादिमूर्द्धतः ।ओँ विष्णवे नम इति इमं मन्त्रमुदाहरेत् ॥
आत्मानं परमं ध्यायेच्छेषषट्शक्तिभिर्युतम् ।मम रक्षां ततः कुर्य्यान्मत्स्यमूर्त्तिर्जलेऽवतु ॥
त्रिविक्रमस्तथाकाशे स्थले रक्षतु वामनः ।अटव्यां नरसिंहस्तु रामो रक्षतु पर्व्वते ॥
भूमौ रक्षतु वाराहो हंसो नारायणोऽवतु ।कर्म्मबन्धाच्च काम्पिल्यदत्तो योगात्तु रक्षतु ॥
हयग्रीवो देवतायाः कुमारो मकरध्वजात् ।नारदोऽन्यार्च्चनात् पायात् कूर्म्मो वै नैरृतेःसदा ॥
धन्वन्तरिरपथ्याच्च नागः क्रोधवशात् किल ।यज्ञलोकाद्वलः कालाद्व्यासो ज्ञानाच्च रक्षतु ॥
बुद्धः पाषण्डसंघातात् कल्किरव्यात् कलेः समम् ।पायान्मध्यं दिने विष्णुः प्रातर्नारायणोऽवतु ॥
मधुहा चापराह्णे च सायं रक्षतु माधवः ।हृषीकेशः प्रदोषेऽव्यात् प्रत्यूषेऽव्याज्जनार्द्दनः ॥
श्रीधरोऽव्यादर्द्धरात्रे पद्मनाभो निशान्तके ।चक्रकौमोदकीबाणाः घ्नन्तु शत्रूंश्च राक्षसान् ॥
शङ्खशब्दश्च शत्रुभ्यः शार्ङ्गो वै गरुडस्तथा ।बुद्धीन्द्रियमनःप्राणान् पान्तु पार्षदभूषणाः ॥
शेषैः सर्व्वैर्म्मुदापन्नः सदा सर्व्वत्र पान्तु माम् ।विदिक्षु दिक्षु च सदा नरसिंहश्च रक्षतु ॥
एतद्धारयमाणश्च यं यं पश्यति चक्षुषा ।स वशी स्याद्बिपाप्मा च रोगान्मुक्तो दिवंव्रजेत् ॥
”इति गारुडे २०१ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
