विष्णुतैलं (viSNutailaM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritविष्णुतैलं, (विष्णुनामकं तैलम् ।) अश्विनी-कुमारकृतपक्वतैलविशेषः । यथा, --“स्नानीयं विष्णुतैलञ्च स्वर्व्वैद्येन विनिर्म्मितम् ॥
”इति ब्रह्मवैवर्त्ते गणपतिखण्डे १३ अध्यायः ॥
* ॥
अथ स्वल्पविष्णुतैलम् ।“शालपर्णीपृश्निपर्णीवलागोरक्षतण्डुलाः ।एरण्डस्य च मूलानि बृहत्योः पूतिकस्य च ॥
शतावरी सहचरं पचेदेतैः पलोन्मितैः ।तैलप्रस्थं पयो दत्त्वा गव्यं वाजं चतुर्गुणम् ॥
अस्य तैलस्य पक्वस्य शृणु वीर्य्यमतः परम् ।वातार्त्ता नरनागाश्च पीत्वा दृढतनुत्वचः ॥
हृत्पार्श्वशूले वातासे गलगण्डेऽर्द्दिते क्षये ।शर्कराश्मरिपाण्डुत्वकामलार्द्धावभेदके ॥
क्षीणेन्द्रियेऽन्त्रवृद्धौ च जराजर्ज्जरिते हितम् ।स्त्रीणाम्श्वतरीणाञ्च गर्भस्थितिकरं परम् ॥
एतदङ्गवरं तैलं विष्णुना परिकीर्त्तितम् ॥
”तण्डुलः गोरक्षतण्डुलः । बृहत्योर्बृहतीकण्ट-कार्य्योः । पूतिको नाटाकरञ्जः । सहचरोझिण्टी । अत्र क्वाथान्तराभावात् क्षीरस्यचतुर्गुणं जलं कश्चिद्ददाति ।“स्वरसक्षीरमाङ्गल्यैः पाको यत्रेरितः क्वचित् ।जलं चतुर्गुणं तत्र वीर्य्याधानार्थमारपेत् ॥
”इति परिभाषाबलात् ॥
क्वचिदिति पाठात् क्वाथान्तररहिते केवल-क्षीरादिसहिततैलादिपाके ज्ञातव्यं न तु सर्व्वत्र ।“एलाचन्दनकुङ्कुमागुरुमुराकक्कोलमांसीशटी-श्रीवासश्छदग्रन्थिपर्णशशभृत्क्षौणीध्वजोशी-रकम् ।कस्तूरिनखपूतिशैलजलमुङ्मेथीलवङ्गादिकंगग्धद्रव्यमिदं प्रदेयमखिलं श्रीविष्णुतैलादिषु ॥
”अथ बृहद्विष्णुतैलम् ।“जलधरमश्वगन्धाजीवकर्षभकौ शटी ।काकोली क्षीरकालोली जीवन्ती मधुयष्टिका ॥
मधूरिका देवदारु पद्मकाष्ठञ्च सैन्धवम् ।मांसी चैला त्वचं कुष्ठं रक्तचन्दनशैलजम् ॥
मञ्जिष्ठा मृगनाभिश्च श्वेतचन्दनकुङ्कुमम् ।पर्णी कुन्दुरु खोटिश्च ग्रन्थिकञ्च नखी तथा ॥
एतेषां पलिकैर्भागैस्तैलस्यापि तथाढकम् ।शतावरीरससमं दुग्धञ्चापि समं भवेत् ॥
विष्णुतैलवरं श्रेष्ठं सर्व्ववातविकारनुत् ।ऊर्द्ध्ववाते ह्यधोवाते अङ्गविग्रह एव च ॥
शिरोमध्यगता ये च मन्या स्तम्भे गलग्रहे ।यस्य शुष्यति चैकाङ्गं गतिर्यस्य च विह्वला ॥
ये वातप्रभवा रोगा ये च पित्तसमुद्भवाः ।सर्व्वांस्तान्नाशयत्याशु सूर्य्यस्तम इवोदितः ॥
”इति भैषज्यरत्नावली ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
