| YouTube Channel

विष्णुगृहं (viSNugRhaM)

 
शब्दकल्पद्रुमः
Sanskrit
विष्णुगृहं,
क्ली,
(विष्णवे प्रतिष्ठितं गृहम् ।)विष्णुमन्दिरम् स्तम्बपुरम् इति हेमचन्द्रः
विष्णुगृहकरणफलं यथा, --“अष्टेष्टकासमायुक्तं यः कुर्य्याद्वैष्णवं गृहम् ।न तस्य फलसम्पत्तिर्वक्तुं शक्येत केनचित्
”इति हरिभक्तिविलासे २० १४
“यैस्तु देवालयं विष्णोः शुभं दारुमयं कृतम् ।कारयेन्मृण्मयं वापि शृणु तस्य फलं मुने
अहन्यहनि योगेन यजतो यन्महाफलम् ।प्राप्नोति तत् फलं विष्णोर्यः कारयति मन्दिरम्
कुलानां शतमागामि समतोतं तथा शतम् ।कारयेद्भगवद्धाम नयत्यच्युतलोकताम्
सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु ।विष्णोरालयविन्यासप्रारम्भादेव नश्यति
सप्तलोकमयो विष्णुर्यस्तस्य कुरुते गृहम् ।प्रतिष्ठां समवाप्नोति नरः साप्तलौकिकीम्
प्रशस्तदेशे भूभागे प्रशस्तं भवनं हरेः ।कारयत्यखिलान् लोकान् नरः प्रतिपद्यते
इष्टकानाञ्च विन्यासो यावद्वर्षाणि तिष्ठति ।तावद्वर्षसहस्राणि तत्कर्त्ता दिवि संस्थितः
चिकीर्षोरपि कृष्णस्य मन्दिरं पुण्यकारिणः ।नरस्य क्षयमायाति पापं जन्मशतोद्भवम्
ये ध्यायन्ति सदा वृत्त्या करिष्यामि हरेर्गृहम् ।तेषां विलीयते पापं पूर्व्वजन्मशतोद्भवम्
येऽनुमोदन्ति कृष्णस्य क्रियमाणं हरेर्गृहम् ।तेऽपि पापविनिर्म्मुक्ता वैष्णवं लोकमाप्नुयुः
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहम् ।स्वर्गञ्च वैष्णवं लोकं मोक्षञ्च लभते क्रमात्
समतीतं भविष्यञ्च कुलानामयुतं नरः ।विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहम्
दुष्प्राप्यं यत् फलं विप्रा वाजिमेधादिभिर्म्मखैः ।प्राप्यते तत् सुखेनैव निवेश्य भवनं हरेः
ये हताभिमुखाः शूरा गोविप्रार्थे रणाजिरे ।स तत्फलमवाप्नोति कारयित्वा हरेर्गृहम्
पक्वेष्टरचितं रम्यं पञ्चप्रासादसंयुतम् ।कारयित्वा हरेर्धाम धूतपापो व्रजेद्दिवम्
लक्षेणार्द्धसहस्रेण शतेनार्द्धेन वा हरेः ।तुल्यं फलं समाख्यातं तदीश्वरदरिद्रयोः
पतितं पतमानन्तु तथार्द्धपतितं तथा ।समुद्धृत्य हरेर्धाम द्विगुणं फलमाप्नुयात्
”इति वह्निपुराणे वैष्णवक्रियायोगे यमानुशासन-नामाध्यायः