विष्णुः (viSNuH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishविष्णुः [viṣṇuḥ], [विष् व्यापने नुक् 3.39]
The second deity of the sacred Triad, entrusted with the preservation of the world, which duty he is represented to have duly discharged by his various incarnations
(for their descriptions see the several avatāras s. v. and also under अवतार)
the word is thus popularly derived: यस्माद्विश्व- मिदं सर्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥.
of Agni
विष्णुर्नामेह यो$ग्निः * 3.221.12.
A pious man.
of a law-giver, author of a Smṛiti called विष्णुस्मृति.
of one of the Vasus.
The lunar mansion called Śravaṇa (presided over by Viṣṇu).
of the month चैत्र. -काञ्ची of a town. -क्रमः the step or stride of Viṣṇu. -क्रान्ता of various plants. -गुप्तः of Chāṇakya. -ग्रन्थिः a particular joint of the body. -जनः a devotee, saint
अध्यगान्मह- दाख्यानं नित्यं विष्णुजनप्रियः 1.7.11. -तिथिः of the 11th and 12th lunar days of each fortnight. -तैलम् a kind of medicinal oil. -दत्तः of परीक्षित. -दैवत्या of the eleventh and twelfth days of each fortnight (of a lunar month).
धर्मः Dharma enjoining the proper worship of Viṣṇu.
a kind of श्राद्ध. -धर्मोत्तरपुराणम् of an उपपुराण.
पदम् the sky, atmosphere.
the sea of milk.
the foot of Viṣṇu (worshipped at Gayā).
a lotus.
पदी an epithet of the Ganges
निर्गता विष्णुपादाब्जात् तेन विष्णुपदी स्मृता Brav.
1.19. 7.
the sun's passage (into the zodiacal signs वृषभ, सिंह, वृश्चिक and कुम्भ). -पुराणम् of one of the most celebrated of the eighteen Purāṇas.
प्रिया basil.
Lakṣmī. -प्रीतिः land granted rent-free to Brāhmaṇas to maintain Viṣṇu's worship. -माया of Durgā. -मित्रः a common name (like अमुक)
तस्मादपि विष्णुमित्र इत्यनवस्थितिः 5.14.24. -रथः an epithet of Garuḍa. -रातः of king Parīkṣita
स विष्णुरातो$तिथय आगताय तस्मै सपर्यां शिरसा जहार 1.19.29. -विङ्गी a quail. -लोकः Viṣṇu's world
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति Stotra.
वल्लभा an epithet of Lakṣmī.
the holy basil. -वाहनः, -वाह्यः epithets of Garuḍa. -शक्तिः Lakṣmī -हिता basil.
Apte 1890
Englishविष्णुः [विष् व्यापने नुक् Uṇ. 3. 39] 1 The second deity of the sacred Triad, entrusted with the preservation of the world, which duty he is represented to have duly discharged by his various incarnations
(for their descriptions see the several avatāras s. v. and also under अवतार)
the word is thus popularly derived:
यस्माद्विश्वमिदं सर्वं तस्य शक्त्या महात्मनः । तस्मादेवोच्यते विष्णुर्वीशधातोः प्रवेशनात् ॥.
2 N. of Agni.
3 A pious man.
4 N. of a law-giver, author of a Smṛti called विष्णुस्मृति.
5 N. of one of the Vasus.
6 The lunar mansion called Śravaṇa (presided over by Viṣṇu).
Comp.
कांची N. of a town.
क्रमः the step or stride of Viṣṇu.
गुप्तः N. of Cāṇakya.
तैलं a kind of medicinal oil.
दैवत्या N. of the eleventh and twelfth days of each fortnight (of a lunar month).
पदं {1} the sky, atmosphere. {2} the sea of milk. {3} the foot of Viṣṇu (worshipped at Gayā). {4} a lotus.
पदी an epithet of the Ganges.
पुराणं N. of one of the most celebrated of the eighteen Purāṇas.
प्रीतिः f. land granted rent-free to Brāhmaṇas to maintain Viṣṇu's worship.
माया N. of Durgā.
रथः an epithet of Garuḍa.
रातः N. of king Parīkshit.
लिंगी a quail.
लोकः Vishṇu's world.
वल्लभा {1} an epithet of Lakṣmī. {2} the holy basil.
वाहनः,
वाह्यः epithets of Garuḍa.
Hindi
Hindiभगवान MahaavishhNu
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiविष्णुः
- विष् + नुक्
"देवत्रयी में दूसरा, जिसको संसार का पालनपोषण सौंपा गया है"
विष्णुः
- -
अग्नि
विष्णुः
- -
पुण्यात्मा
विष्णुः
- -
विष्णुस्मृति के प्रणेता
विष्णुः
- विष्+नुक्
त्रिदेव में दूसरा
विष्णुः
- -
अग्नि
विष्णुः
- -
पावन पुरुष
विष्णुः
- -
स्मृतिकार
विष्णुः
- -
एक वसु
विष्णुः
- -
श्रवण नक्षत्रपुंज
विष्णुः
- -
चैत्र का महीना
Wordnet
Sanskrit विष्णुः
पौराणिकः ऋषिः।
"विष्णोः वर्णनं नैकेषु धर्मग्न्थेषु प्राप्यते।"
त्रयः, तिस्रः, त्रीणि, कालः, अग्निः, भुवनम्, गङ्गामार्गः, शिवचक्षुः, गुणः, ग्रीवारेखा, कालिदासकाव्यम्, वलिः, सन्ध्या, पुरम्, पुषकरम्, रामः, विष्णुः, ज्वरपादः
एकः अधिकः द्वौ इति कृत्वा प्राप्ता संख्या।
"पञ्च इति सङ्ख्यातः यदा द्वौ इति सङ्ख्या न्यूनीकृता तदा त्रयः इति संङ्ख्या प्राप्ता।"
विष्णुः, नारायणः, कृष्णः, वैकुण्ठः, विष्टरश्रवाः, दामोदरः, हृषीकेशः, केशवः, माधवः, स्वभूः, दैत्यारिः, पुण्डरीकाक्षः, गोविन्दः, गरुडध्वजः, पीताम्बरः, अच्युतः, शार्ङ्गी, विष्वक्सेनः, जनार्दनः, उपेन्द्रः, इन्द्रावरजः, चक्रपाणिः, चतुर्भुजः, पद्मनाभः, मधुरिपुः, वासुदेवः, त्रिविक्रमः, दैवकीनन्दनः, शौरिः, श्रीपतिः, पुरुषोत्तमः, वनमाली, बलिध्वंसी, कंसारातिः, अधोक्षजः, विश्वम्भरः, कैटभजित्, विधुः, श्रीवत्सलाञछनः, पुराणपुरुषः, वृष्णिः, शतधामा, गदाग्रजः, एकशृङ्गः, जगन्नाथः, विश्वरूपः, सनातनः, मुकुन्दः, राहुभेदी, वामनः, शिवकीर्तनः, श्रीनिवासः, अजः, वासुः, श्रीहरिः, कंसारिः, नृहरिः, विभुः, मधुजित्, मधुसूदनः, कान्तः, पुरुषः, श्रीगर्भः, श्रीकरः, श्रीमान्, श्रीधरः, श्रीनिकेतनः, श्रीकान्तः, श्रीशः, प्रभुः, जगदीशः, गदाधरः, अजितः, जितामित्रः, ऋतधामा, शशबिन्दुः, पुनर्वसुः, आदिदेवः, श्रीवराहः, सहस्रवदनः, त्रिपात्, ऊर्ध्वदेवः, गृध्नुः, हरिः, यादवः, चाणूरसूदनः, सदायोगी, ध्रुवः, हेमशङ्खः, शतावर्त्ती, कालनेमिरिपुः, सोमसिन्धुः, विरिञ्चिः, धरणीधरः, बहुमूर्द्धा, वर्धमानः, शतानन्दः, वृषान्तकः, रन्तिदेवः, वृषाकपिः, जिष्णुः, दाशार्हः, अब्धिशयनः, इन्द्रानुजः, जलशयः, यज्ञपुरुषः, तार्क्षध्वजः, षड्बिन्दुः, पद्मेशः, मार्जः, जिनः, कुमोदकः, जह्नुः, वसुः, शतावर्तः, मुञ्जकेशी, बभ्रुः, वेधाः, प्रस्निशृङ्गः, आत्मभूः, सुवर्णबिन्दुः, श्रीवत्सः, गदाभृत्, शार्ङ्गभृत्, चक्रभृत्, श्रीवत्सभृत्, शङ्खभृत्, जलशायी, मुरमर्दनः, लक्ष्मीपतिः, मुरारिः, अमृतः, अरिष्टनेमः, कपिः, केशः, जगदीशः, जनार्दनः, जिनः, जिष्णुः, विक्रमः, शर्वः
देवताविशेषः हिन्दुधर्मानुसारं जगतः पालनकर्ता।
"एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः।"
वैजयन्तीकोषः
SanskritWord: विष्णुः
Root: विष्णु
Gender: पुं
Number: all
अर्थः ⇒ आदिदेवेषु एकः - विष्णुः
Meaning(s):
⇒ Viṣṇu
One of the primeval triad
Shloka(s):
1|1|10|1 ► विष्णुर्नारायणो बभ्रुश्चक्रपाणिर्जनार्दनः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|10|2 ► तैत्यारिः पुण्डरीकाक्षस्त्रिककुद्विष्टरश्रवाः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|11|1 ► पीताम्बरो हृषीकेशो विष्वक्सेनश्चतुर्भुजः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|11|2 ► श्रीवत्सः श्रीपतिः शार्ङ्गी श्रीवत्साङ्कोऽच्युतो हुणः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|12|1 ► वासुदेवः स्वभूश्चक्री वैकुण्ठः पुरुषोत्तमः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|12|2 ► अरिष्टनेमिरजितः श्रीधरो यज्ञपूरुषः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|13|1 ► मुञ्जकेशी मुररिपुर्गदापाणिरधोऽक्षजः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|13|2 ► अनन्तशायी वृन्दाको मुकुन्दो धरणीधरः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|14|1 ► शतानन्दः शतावर्तो युगावर्तः सुरोत्तमः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|14|2 ► कालकुन्थो रन्तिदेवः केशवो गरुडध्वजः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|15|1 ► पद्मनाभो विश्वरूपः कृष्णो हरिरसंपुषः। (स्वर्गकाण्डः/आदिदेवाध्यायः)
1|1|15|2 ► कैटभारिर्ब्रह्मनाभो गोविन्दो मधुसूदनः॥ (स्वर्गकाण्डः/आदिदेवाध्यायः)
Synonym(s):
➠ 1|1|10|1 ⇢ विष्णुः (विष्णु) (पुं) ⇒ Viṣṇu
One of the primeval triad ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|1 ⇢ नारायणः (नारायण) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|1 ⇢ बभ्रुः (बभ्रु) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|1 ⇢ चक्रपाणिः (चक्रपाणि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|1 ⇢ जनार्दनः (जनार्दन) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|2 ⇢ दैत्यारिः (दैत्यारि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|2 ⇢ पुण्डरीकाक्षः (पुण्डरीकाक्ष) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|2 ⇢ त्रिककुद् (त्रिककुद्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|10|2 ⇢ विष्टरश्रवाः (विष्टरश्रवस्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|1 ⇢ पीताम्बरः (पीताम्बर) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|1 ⇢ हृषीकेशः (हृषीकेश) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|1 ⇢ विष्वक्सेनः (विष्वक्सेन) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|1 ⇢ चतुर्भुजः (चतुर्भुज) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ श्रीवत्सः (श्रीवत्स) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ श्रीपतिः (श्रीपति) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ शार्ङ्गी (शार्ङ्गिन्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ श्रीवत्साङ्कः (श्रीवत्साङ्क) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ अच्युतः (अच्युत) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|11|2 ⇢ हुणः (हुण) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|1 ⇢ वासुदेवः (वासुदेव) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|1 ⇢ स्वभूः (स्वभू) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|1 ⇢ चक्री (चक्रिन्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|1 ⇢ वैकुण्ठः (वैकुण्ठ) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|1 ⇢ पुरुषोत्तमः (पुरुषोत्तम) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|2 ⇢ अरिष्टनेमिः (अरिष्टनेमि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|2 ⇢ अजितः (अजित) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|2 ⇢ श्रीधरः (श्रीधर) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|12|2 ⇢ यज्ञपूरुषः (यज्ञपूरुष) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|1 ⇢ मुञ्जकेशी (मुञ्जकेशिन्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|1 ⇢ मुररिपुः (मुररिपु) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|1 ⇢ गदापाणिः (गदापाणि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|1 ⇢ अधोऽक्षजः (अधोऽक्षज) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|2 ⇢ अनन्तशायी (अनन्तशायिन्) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|2 ⇢ वृन्दाकः (वृन्दाक) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|2 ⇢ मुकुन्दः (मुकुन्द) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|13|2 ⇢ धरणिधरः (धरणीधर) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|1 ⇢ शतानन्दः (शतानन्द) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|1 ⇢ शतावर्तः (शतावर्त) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|1 ⇢ युगावर्तः (युगावर्त) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|1 ⇢ सुरोत्तमः (सुरोत्तम) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|2 ⇢ कालकुन्थः (कालकुन्थ) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|2 ⇢ रन्तिदेवः (रन्तिदेव) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|2 ⇢ केशवः (केशव) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|14|2 ⇢ गरुडध्वजः (गरुडध्वज) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|1 ⇢ पद्मनाभः (पद्मनाभ) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|1 ⇢ विश्वरूपः (विश्वरूप) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|1 ⇢ कृष्णः (कृष्ण) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|1 ⇢ हरिः (हरि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|1 ⇢ असम्पुषः (असम्पुष) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|2 ⇢ कैटभारिः (कैटभारि) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|2 ⇢ ब्रह्मनाभः (ब्रह्मनाभ) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|2 ⇢ गोविन्दः (गोविन्द) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
➠ 1|1|15|2 ⇢ मधुसूदनः (मधुसूदन) (पुं) ⇒ Epithet of Viṣṇu ⇒ आदिदेवेषु एकः - विष्णुः
Related word(s):
परा_अपरासंबन्धः ➡ देवः
जातिः ➡ ईश्वरः
धर्म-धर्मी-भावः ➡ सूक्ष्मा
अवतारः ➡ हयशिरः
स्व_स्वामीसंबन्धः ➡ सुदर्शनम्
जन्य_जनकसंबन्धः ➡ मन्मथः
पति_पत्नीसंबन्धः ➡ लक्ष्मीः
गुण-गुणी-भावः ➡ श्रीवत्सः
अमरकोशः
SanskritWord: विष्णुः
Root: विष्णु
Gender: पुं
Number: all
Meaning(s):
⇒ God Vishnu
Shloka(s):
1|1|18|1 ► विष्णुर्नारायणः कृष्णो वैकुण्ठो विष्टरश्रवाः। (स्वर्गवर्गः)
1|1|18|2 ► दामोदरो हृषीकेशः केशवो माधवः स्वभूः॥ (स्वर्गवर्गः)
1|1|19|1 ► दैत्यारिः पुण्डरीकाक्षो गोविन्दो गरुडध्वजः। (स्वर्गवर्गः)
1|1|19|2 ► पीताम्बरोऽच्युतः शार्ङ्गी विष्वक्सेनो जनार्दनः॥ (स्वर्गवर्गः)
1|1|20|1 ► उपेन्द्र इन्द्रावरजश्चक्रपाणिश्चतुर्भुजः। (स्वर्गवर्गः)
1|1|20|2 ► पद्मनाभो मधुरिपुर्वासुदेवस्त्रिविक्रमः॥ (स्वर्गवर्गः)
1|1|21|1 ► देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। (स्वर्गवर्गः)
1|1|21|2 ► वनमाली बलिध्वंसी कंसारातिरधोक्षजः॥ (स्वर्गवर्गः)
1|1|22|1 ► विश्वम्भरः कैटभजिद्विधुः श्रीवत्सलाञ्छनः। (स्वर्गवर्गः)
1|1|22|2 ► पुराणपुरुषो यज्ञपुरुषो नरकान्तकः। (स्वर्गवर्गः)
1|1|22|3 ► जलशायी विश्वरूपो मुकुन्दो मुरमर्दनः। (स्वर्गवर्गः)
1|1|28|1 ► शङ्खो लक्ष्मीपतेः पाञ्चजन्यश्चक्रं सुदर्शनम्। (स्वर्गवर्गः)
1|1|28|3 ► चापः शार्ङ्गंमुरारेस्तु श्रीवत्सो लाञ्छनं स्मृतम्। (स्वर्गवर्गः)
3|3|30|2 ► अजा विष्णुहरच्छागा गोष्ठाध्वनिवहा व्रजाः॥ (नानार्थवर्गः)
3|3|62|1 ► विष्णावप्यजिताव्यक्तौ सूतस्त्वष्टरि सारथौ। (नानार्थवर्गः)
3|3|130|1 ► गोधुग्गोष्ठपती गोपौ हरविष्णू वृषाकपी। (नानार्थवर्गः)
3|3|171|1 ► विपुले नकुले विष्णौ बभ्रुर्ना पिङ्गले त्रिषु। (नानार्थवर्गः)
3|3|175|2 ► शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥ (नानार्थवर्गः)
3|3|229|2 ► विष्णौ च वेधाः स्त्री त्वाशीर्हिताशंसाहिदंष्ट्रयोः॥ (नानार्थवर्गः)
Synonym(s):
➠ 1|1|18|1 ⇢ विष्णुः (विष्णु) (पुं)
➠ 1|1|18|1 ⇢ नारायणः (नारायण) (पुं) ⇒ puruSa-hymn, Narayan [Vishnu], son of the original Man, mystical name of the letter A, relating or belonging to nArAyaNa or kRSNa
➠ 1|1|18|1 ⇢ कृष्णः (कृष्ण) (पुं) ⇒ crow, evil, dark, lead, iron, black, wicked, antelope, antimony, dark-blue, blue vitriol, black pepper, black colour, black or dark-blue, fourth or kali-yuga, black part of the eye, Indian cuckoo or Kokila, black spots in the moon, incarnation of Lord Vishnu, to behave or act like kRSNa, kind of animal feeding on carrion, kind of demon or spirit of darkness, Bengal currant [Carissa carandas - Bot.], dark half of the lunar month from full to new moon, black Agallochum or agarwood [aromatic resin embedded wood]
➠ 1|1|18|1 ⇢ वैकुण्ठः (वैकुण्ठ) (पुं) ⇒ name of viSNu, Vishnu's heaven, kind of measure, statue of viSNu, 24th day in the month of brahmA, holy basil [Ocimum tenuiflorum - Bot.]
➠ 1|1|18|1 ⇢ विष्टरश्रवाः (विष्टरश्रवस्) (पुं)
➠ 1|1|18|2 ⇢ दामोदरः (दामोदर) (पुं) ⇒ name of 12th month, name of a sacred river, name of a lord Krishna, having a rope round waist, name of 2 kings of kazmIra, name of 9th arhat of past utsarpiNI
➠ 1|1|18|2 ⇢ हृषीकेशः (हृषीकेश) (पुं) ⇒ name of Krishna (hrishika, any organ of sense, hrishikesha means lord of the organs of sense, or the faculties)
➠ 1|1|18|2 ⇢ केशवः (केशव) (पुं) ⇒ name of Krishna, name of the month mArgazIrSa, having long or much or handsome hair, red kamlaa tree [Mallotus philippensis - Bot.]
➠ 1|1|18|2 ⇢ माधवः (माधव) (पुं) ⇒ vernal, Krishna, relating to spring, representing kRSNa, man of the race of yadu, son or descendant of madhu, black gram [Vigna mungo - Bot.], name of the second month of spring, honey tree [Madhuca longifolia -Bot.], belonging or peculiar to the descendants of madhu i.e. the yAdavas
➠ 1|1|18|2 ⇢ स्वभूः (स्वभू) (पुं)
➠ 1|1|19|1 ⇢ दैत्यारिः (दैत्यारि) (पुं)
➠ 1|1|19|1 ⇢ पुण्डरीकाक्षः (पुण्डरीकाक्ष) (पुं)
➠ 1|1|19|1 ⇢ गोविन्दः (गोविन्द) (पुं) ⇒ kRSNa, bRhaspati, chief herdsman, one who gives pleasure to the senses
➠ 1|1|19|1 ⇢ गरुडध्वजः (गरुडध्वज) (पुं)
➠ 1|1|19|2 ⇢ पीताम्बरः (पीताम्बर) (पुं) ⇒ dancer or actor, dressed in yellow clothes, religious mendicant wearing yellow garments
➠ 1|1|19|2 ⇢ अच्युतः (अच्युत) (पुं) ⇒ solid, permanent, steadfast, not fallen, not slipping, imperishable, not leaking or dripping, firm [fixed, permanent]
➠ 1|1|19|2 ⇢ शार्ङ्गी (शार्ङ्गिन्) (पुं)
➠ 1|1|19|2 ⇢ विष्वक्सेनः (विष्वक्सेन) (पुं) ⇒ of ziva, of a king, name of a RSi, name of a sAdhya, of a son of zambara, name of the 14th manu, name of a son of brahmadatta, name of an attendant of viSNu, whose hosts or powers go everywhere
➠ 1|1|19|2 ⇢ जनार्दनः (जनार्दन) (पुं)
➠ 1|1|20|1 ⇢ उपेन्द्रः (उपेन्द्र) (पुं)
➠ 1|1|20|1 ⇢ इन्द्रावरजः (इन्द्रावरज) (पुं)
➠ 1|1|20|1 ⇢ चक्रपाणिः (चक्रपाणि) (पुं)
➠ 1|1|20|1 ⇢ चतुर्भुजः (चतुर्भुज) (पुं) ⇒ four armed, four-armed, quadrangular, viSNu or kRSNa, quadrangular figure
➠ 1|1|20|2 ⇢ पद्मनाभः (पद्मनाभ) (पुं) ⇒ lotus-naveled, magical formula spoken over weapons
➠ 1|1|20|2 ⇢ मधुरिपुः (मधुरिपु) (पुं)
➠ 1|1|20|2 ⇢ वासुदेवः (वासुदेव) (पुं)
➠ 1|1|20|2 ⇢ त्रिविक्रमः (त्रिविक्रम) (पुं) ⇒ one who strided over the 3 worlds in 3 steps
➠ 1|1|21|1 ⇢ देवकीनन्दनः (देवकीनन्दन) (पुं)
➠ 1|1|21|1 ⇢ शौरिः (शौरि) (पुं) ⇒ planet Saturn, name of baladeva, name of viSNukRSNa, Indian-laurel [Terminalia Tomentosa - Bot.]
➠ 1|1|21|1 ⇢ श्रीपतिः (श्रीपति) (पुं) ⇒ king, prince, husband of zrI, lord of fortune
➠ 1|1|21|1 ⇢ पुरुषोत्तमः (पुरुषोत्तम) (पुं) ⇒ arhat, best of men, highest being, good attendant, Supreme Spirit, best of servants, excellent or superior man
➠ 1|1|21|2 ⇢ वनमाली (वनमालिन्) (पुं)
➠ 1|1|21|2 ⇢ बलिध्वंसी (बलिध्वंसिन्) (पुं)
➠ 1|1|21|2 ⇢ कंसारातिः (कंसाराति) (पुं)
➠ 1|1|21|2 ⇢ अधोक्षजः (अधोक्षज) (पुं)
➠ 1|1|22|1 ⇢ विश्वम्भरः (विश्वम्भर) (पुं) ⇒ fire, all-bearing, all-sustaining, kind of scorpion or similar animal
➠ 1|1|22|1 ⇢ कैटभजित् (कैटभजित्) (पुं)
➠ 1|1|22|1 ⇢ विधुः (विधु) (पुं) ⇒ moon, lonely, solitary, throbbing, palpitation
➠ 1|1|22|1 ⇢ श्रीवत्सलाञ्छनः (श्रीवत्सलाञ्छन) (पुं)
➠ 1|1|22|2 ⇢ पुराणपुरुषः (पुराणपुरुष) (पुं)
➠ 1|1|22|2 ⇢ यज्ञपुरुषः (यज्ञपुरुष) (पुं)
➠ 1|1|22|2 ⇢ नरकान्तकः (नरकान्तक) (पुं) ⇒ destroyer of the demon naraka name of kRSNa
➠ 1|1|22|3 ⇢ जलशायी (जलशायिन्) (पुं)
➠ 1|1|22|3 ⇢ विश्वरूपः (विश्वरूप) (पुं) ⇒ various, manifold, variegated, many-coloured, wearing all forms, yoked horses of bRhaspati
➠ 1|1|22|3 ⇢ मुकुन्दः (मुकुन्द) (पुं) ⇒ kind of grain, kind of measure, of a celebrated saint, kind of precious stone, of a particular treasure, kind of drum or kettle-drum, resin of sakai frankincense plant [Boswellia Serrata - Bot.]
➠ 1|1|22|3 ⇢ मुरमर्दनः (मुरमर्दन) (पुं)
➠ 1|1|28|1 ⇢ लक्ष्मीपतिः (लक्ष्मीपति) (पुं)
➠ 1|1|28|3 ⇢ मुरारिः (मुरारि) (पुं)
➠ 3|3|30|2 ⇢ अजः (अज) (पुं) ⇒ goat, troop, mover, unborn, driver, leader, not born, instigator, beam of the sun
➠ 3|3|62|1 ⇢ अजितः (अजित) (पुं) ⇒ ziva, unsubdued, unsurpassed, irresistible, not conquered, particular antidote, kind of venomous rat, attendant of suvidhi, descendant of ikSvAku, maitreya or a future buddha, class of deified beings in the first manvantara, one of the saptarSis of the fourteenth manvantara, second of the arhats or saints of the present avasarpiNI
➠ 3|3|62|1 ⇢ अव्यक्तः (अव्यक्त) (पुं) ⇒ fool, unclear, stealthy, invisible, not clear, unapparent, indistinct, unmanifest, undeveloped, undetermined, not manifest, imperceptible, universal Spirit, speaking indistinctly, unknown as quantity or number, young monk who has not finished his studies
➠ 3|3|130|1 ⇢ वृषाकपिः (वृषाकपि) (पुं)
➠ 3|3|171|1 ⇢ बभ्रुः (बभ्रु) (पुं) ⇒ king, tawny, prince, mongoose, deep-brown, bald-headed, any ichneumon, reddish-brown, species of vegetable, kind of large ichneumon, particular constellation, man with deep-brown hair, Jacobin Cuckoo [Cuculus Melanoleucus - Zoo.]
➠ 3|3|175|2 ⇢ हरिः (हरि) (पुं) ⇒ men, bay, sun, lion, horse, green, tawny, steed, brown, people, yellow, monkey, fallow, bearing, of yama, of ziva, greenish, carrying, of zukra, of a metre, of a demon, of a world, pale yellow, of a mountain, fawn-coloured, reddish brown, name of indra, name of brahmA, name of a dAnava, sign of the zodiac Leo, name of a son of garuDa, name of a son of parAvRt, name of a son of parAjit, name of a son of akampana, name of a son of tArakAkSa, wind or name of god of wind, of a particular high number, of various authors and scholars, yellow or reddish brown or green, name of a worshipper, name of viSNu, particular class of gods under manu tAmasa
➠ 3|3|229|2 ⇢ वेधाः (वेधस्) (पुं)
Related word(s):
परा_अपरासंबन्धः ➡ देवः
जन्य_जनकसंबन्धः ➡ कामदेवः
जातिः ➡ ईश्वरः
अन्यसंबन्धाः ➡ विष्णोः_सारथिः
स्व_स्वामीसंबन्धः ➡ विष्णोः_सारथिः
पति_पत्नीसंबन्धः ➡ लक्ष्मी
गुण-गुणी-भावः ➡ विष्णुलाञ्छनम्
शब्दकल्पद्रुमः
Sanskritविष्णुः, अग्निः । इति शब्दमाला ॥
शुद्धः ।वसुदेवता । इति धरणिः ॥
(द्वादशादित्या-नामन्यतमः । यथा, महाभारते । १ । ६५ । १६ ।“एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते ।जघन्यजस्तु सर्व्वेषामादित्यानां गुणाधिकः ॥
”)धर्म्मशास्त्रकर्त्तृमुनिविशेषः । यथा, --“मन्वत्रिविष्णुहारीतयाज्ञवल्क्योशनोऽङ्गिराः ।यमापस्तम्बसंवर्त्ताः कात्यायनबृहस्पती ॥
पराशरव्यासशङ्खलिखिता दक्षगोतमौ ।सातातपो वशिष्ठश्च धर्म्मशास्त्रप्रयोजकाः ॥
”इति याज्ञवल्क्यसंहिता ॥
ब्रह्मणो रूपविशेषः । तस्य व्युत्पत्तिर्यथा ।वेवेष्टि व्याप्नोति विश्वं यः । वेषति सिञ्चतिआप्यायते विश्वमिति वा । विष्णाति वियुनक्तिभक्तान् मायापसारणेन संसारादिति वा ।विशति सर्व्वभूतानि विशन्ति सर्व्वभूतानिअत्रेति वा ।“यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्या महात्मनः ।तस्मादेवोच्यते विष्णुर्विशधातोः प्रवेशनात् ॥
”इति विष्णुपुराणम् । इत्यमरटीकायां भरतः ॥
(“बृहत्वात् विष्णुरुच्यते ।” इति महाभारते ।५ । ७० । ३ ॥
) तत्पर्य्यायः । नारायणः २ कृष्णः ३वैकुण्ठः ४ विष्टरश्रवाः ५ दामोदरः ६ हृषीकेशः७ केशवः ८ माधवः ९ स्वभूः १० दैत्यारिः ११पुण्डरीकाक्षः १२ गोविन्दः १३ गरुडध्वजः १४पीताम्बरः १५ अच्युतः १६ शार्ङ्गी १७ विष्वक्-सेनः १८ जनार्द्दनः १९ उपेन्द्रः २० इन्द्रावरजः२१ चक्रपाणिः २२ चतुर्भुजः २३ पद्मनाभः ३४मधुरिपुः २५ वासुदेवः २६ त्रिविक्रमः २७दैवकीनन्दनः २८ शौरिः २९ श्रीपतिः ३०पुरुषोत्तमः ३१ वनमाली ३२ वलिध्वंसी ३३कंसारातिः ३४ अधोक्षजः ३५ विश्वम्भरः ३६कैटभजित् ३७ विधुः ३८ श्रीवत्सलाञ्छनः ३९ ।इत्यमरः ॥
पुराणपुरुषः ४० वृष्णिः ४१ शत-धामा ४२ गदाग्रजः ४३ एकशृङ्गः ४४ जग-न्नाथः ४५ विश्वरूपः ४६ सनातनः ४७ मुकुन्दः४८ राहुभेदी ४९ वामनः ५० शिवकीर्त्तनः ५१श्रीनिवासः ५२ अजः ५३ वासुः ५४ । इतिजटाधरः ॥
श्रीहरिः ५५ कंसारिः ५६ नृहरिः५७ विभुः ५८ मधुजित् ५९ मधुसूदनः ६०कान्तः ६१ पुरुषः ६२ श्रीगर्भः ६३ श्रीकरः ६४श्रीमान् ६५ श्रीधरः ६६ श्रीनिकेतनः ६७श्रीकान्तः ६८ श्रीशः ६९ प्रभुः ७० मुरलीधरः७१ जगदीशः ७२ गदाधरः ७३ नन्दात्मजः७४ नरसिंहः ७५ इरेशः ७६ गोपालः ७७नन्दनन्दनः ७८ नरकजित् ७९ सामगर्भः ८०अजितः ८१ जितामित्रः ८२ ऋतधामा ८३शशबिन्दुः ८४ पुनर्व्वसुः ८५ आदिदेवः ८६श्रीवराहः ८७ सहस्रवदनः ८८ त्रिपात् ८९ऊर्द्ध्वदेवः ९० हरिः ९१ गृध्नुः ९२ यादवः ९३अरिष्टसूदनः ९४ पूतनारिः ९५ सदायोगी ९६ध्रुवः ९७ चाणूरसूदनः ९८ हेमशङ्खः ९९ शता-वत्तीं १०० कालनेमिरिपुः १०१ धेनुकारिः १०२सोमसिन्धुः १०३ विरिञ्चिः १०४ धरणीधरः१०५ बहुमूर्द्धा १०६ वर्द्धमानः १०७ शतानन्दः१०८ वृषान्तकः १०९ मथुरेशः ११० द्वारकेशः१११ रन्तिदेवः ११२ वृषाकपिः ११३ । इतिशब्दरत्नावली ॥
जिष्णुः ११४ दाशार्हः ११५अब्धिशयनः ११६ इन्द्रानुजः ११७ नरायणः११८ जलशयः ११९ यज्ञपुरुषः १२० तार्क्ष-ध्वजः १२१ षड्बिन्दुः १२२ पद्मेशः १२३ मार्जः१२४ जिनः १२५ कुमोदकः १२६ जह्नुः १२७वसुः १२८ शतावर्त्तः १२९ मुञ्जकेशी १३०बभ्रुः १३१ वेधाः १३२ प्रस्निशृङ्गः १३३ आत्मभूः१३४ पाण्डवायनः १३५ सुवर्णबिन्दुः १३६श्रीवत्सः १३७ देवकीसूनुः १३८ गोपेन्द्रः १३९गोवर्द्धनधरः १४० यदुनाथः १४१ गदाभृत् १४२शार्ङ्गभृत् १४३ चक्रभृत् १४४ श्रीवत्सभृत् १४५शङ्खभृत् १४६ ॥
* ॥
अस्य वध्यादयो यथा, --“मधुधेनुकचाणूरपूतनायमलार्ज्जुनाः ।कालनेमिहयग्रीवशकटारिष्टकैटभाः ॥
कंसः केशिमुरौ साल्वमैन्दद्विविदराहवः ।हिरण्यकशिपुर्ब्बाणः कालीयो नरको बलिः ॥
शिशुपालश्चास्य वध्या वैनतेयश्च वाहनम् ।शङ्खोऽस्य पाञ्चजन्योऽङ्कः श्रीवत्सोऽसिस्तुनन्दकः ॥
गदा कौमोदकी चापं शार्ङ्गं चक्रं सुदर्शनम् ।मणिः स्यमन्तको हस्ते भुजमध्ये तु कौस्तुभः ॥
”इति हेमचन्द्रः ॥
* ॥
तस्य शतनामानि पाद्मोत्तरखण्डे १११ अध्यायेसहसरनामानि च महाभारतीयशान्तिपर्व्वणि१४९ अध्याये द्रष्टव्यानि ॥
* ॥
अस्य मन्त्रो वर्णश्चयथा, --“स्वरमाद्यं द्वितीयञ्च उपान्त्यं चान्त्यमेव च ।वासुदेवो बलः कामो ह्यनिरुद्धो यथाक्रमम् ॥
प्रणवस्तत् सदित्येतत् हुँ क्षौँ भूरतिमन्त्रकाः ।नारायणस्तथा ब्रह्मा विष्णुः सिंहो वराह-राट् ॥
सितारुणहरिद्राभा नीलश्यामललोहिताः ।मेघाग्निमधुपिङ्गाभा वर्णतो नव नायकाः ॥
” * ॥
अस्याङ्गानि तेषां मन्त्रवर्णाश्च यथा, --“कं टं घं शं गरुत्मानं स्याज्जं खं वं सुदर्शनम् ।खं चं कं घं गदादेवी ठं नं मं क्षञ्च शङ्खकम् ॥
घं टं भं हं भवेच्छ्रीश्च गं जं वं सञ्च पुष्टिकम् ।धं वं सं वनमाला स्याच्छ्रीवत्सं सं दं नं भवेत् ॥
छं तं पं कौस्तुभः प्रोक्तश्चानन्तो ह्यहमेव च ।इत्यङ्गानि यथायोगं देवदेवस्य वै दश ॥
* ॥
गरुडोऽम्बुजसङ्काशो गदा चैवासिताकृतिः ।पुष्टिः शिरीषपुष्पाभा लक्ष्मीः काञ्चनसन्निभा ॥
पूर्णचन्द्रनिभः शङ्खः कौस्तुभस्त्वरुणद्युतिः ।चक्रं सूर्य्यसहस्राभं श्रीवत्सः कुन्दसन्निभः ॥
पञ्चवर्णा मता माला ह्यनन्तो मेघसन्निभः ।विद्युद्रूपाणि चास्त्राणि यानि नोक्तानि वर्णतः ॥
इति गारुडे ११ अध्यायः ॥
* ॥
तस्य जगत्पालनादिर्यथा, --“रजोगुणमयं चान्यरूपं तस्यैव धीमतः ।चतुर्म्मुखः स भगवान् जगत्सृष्टौ प्रवर्त्तते ॥
सृष्टञ्च पाति सकलं विश्वात्मा विश्वतोमुखः ।सत्त्वं गुणमुपाश्रित्य विष्णुर्व्विश्वेश्वरः स्वयम् ॥
अन्तकाले स्वयं देवः सर्व्वात्मा परमेश्वरः ।तमोगुणं समाश्रित्य रुद्रः संहरते जगत् ॥
एकोऽपि सन्महादेवस्त्रिधासौ समवस्थितः ।सर्गरक्षालयगुणैर्निर्गुणोऽपि निरञ्जनः ॥
एकः सन् स द्विधा चैव त्रिधा च बहुधा पुनः ।त्रिधा विभज्य चात्मानं त्रैलोक्ये संप्रवर्त्तते ॥
सृजते वीक्षते चैव ग्रसते च विशेषतः ।यस्मात् सृष्ट्वानुगृह्णाति ग्रसते च पुनः प्रजाः ॥
गुणात्मकत्वात्त्रैलोक्ये तस्मादेकः स उच्यते ।अग्रे हिरण्यगर्भः स प्रादुर्भूतः सनातनः ॥
आदित्वादादिदेवोऽसावजातत्वादजः स्मृतः ।देवेषु च महादेवो महादेव इति स्मृतः ॥
पाति यस्मात् प्रजाः सर्व्वाः प्रजापतिरितिस्मृतः ।बृहत्त्वाञ्च स्मृतो ब्रह्मा परत्वात् परमेश्वरः ॥
वशित्वादप्यवश्यत्वादीश्वरः परिभाषितः ।ऋषिः सर्व्वत्रगत्वेन हरिः सर्व्वहरो यतः ॥
अनुत्पादात् चानुपूर्व्वात् स्वयम्भुरिति स स्मृतः ।नराणामयनं यस्मात् तस्मान्नारायणः स्मृतः ॥
हरः संसारहरणाद्विभुत्वाद्विष्णुरुच्यते ।भगवान् सर्व्वविज्ञानादवनादोमिति स्मृतः ॥
सर्व्वज्ञः सर्व्वविज्ञानाच्छन्दः सर्व्वमयो यतः ।शिवः स्यान्निर्म्मलो यस्माद्बिभुः सर्व्वगतोयतः ॥
तारणात् सर्व्वदुःखानां तारकः परिगीयते ।बहुनात्र किमुक्तेन सर्व्वं विष्णुमयं जगत् ॥
”इति कौर्म्मे ४ अध्यायः ॥
* ॥
अपि च ।मत्स्य उवाच ।“महाप्रलयकालात्तु एतदासोत्तमोमयम् ।प्रसुप्तमिव चातर्क्यमप्रज्ञातमलक्षणम् ॥
अविज्ञेयमविज्ञातं जगत् स्थास्नु चरिष्णु च ।ततः स्वयम्भुरव्यक्तः प्रभवः पुण्यकर्म्मणाम् ॥
व्यञ्जयन्नेतदखिलं प्रादुरासीत्तमोनुदः ।योऽतीन्द्रियः परो व्यक्तादर्थज्यायान् सनातनः ॥
नारायण इति ख्यातः स एव स्वयमुद्बभौ ।स्वशरीरादभिध्यायन् सिसृक्षुर्व्विविधं जगत् ॥
अप एव ससर्ज्जादौ तासु बीजमवासृजत् ।तदेवाण्डं समभवद्धेमरूप्यमयं महत् ॥
संवत्सरसहस्रेण सूर्य्यायुतसमप्रभम् ।प्रविश्यान्तर्म्महातेजाः स्वयमेवात्मसम्भवः ।प्रभावादपि तद्व्याप्त्या विष्णुत्वमगमत् पुनः ॥
”इति मात्स्ये २ अध्यायः ॥
* ॥
अस्य तिसो मूर्त्तयो यथा ।“सृष्टिस्थित्यन्तकरणात् ब्रह्मविष्णुशिवात्मिकाः ।स संज्ञां याति भगवान् एक एव जनार्द्दनः ॥
ब्रह्मत्वे सृजते चैव विष्णुत्वे पाति नित्यशः ।रुद्रत्वे चैव संहर्त्ता एको देवस्त्रिधा स्थितः ॥
स एव सृज्यः स च सर्गकर्त्तास एव पाता स च पाल्यते च ।ब्रह्माद्यवस्थाभिरशेषमूर्त्ति-र्व्विष्णुर्व्वरिष्ठो वरदो वरेण्यः ॥
”इति वह्निपुराणे सर्गानुशासननामाध्यायः ॥
* ॥
नारायणस्य मूर्त्तिविशेषो यथा ।“योऽसौ नारायणो देवः परात्परतरो नृप ।तस्य चिन्ता समुत्पन्ना सृष्टिं प्रति नरोत्तम ॥
सृष्ट्वा चेयं महासृष्टिः पालनीया मयैव ह ।कर्म्मकाण्डन्त्वमूर्त्तेन कर्त्तुं नैवेह शक्यते ॥
तस्मात् मूर्त्तिं सृजाम्येकां यया पाल्यमिदंजगत् ।एवं चिन्तयतस्तस्य सत्त्वाभिध्यायितो नृप ॥
प्राक्सृष्टिजातं राजन् वै मूर्त्तिमत्तत्पुरो बभौ ।पुरोभूते ततस्तस्मिन् देवो नारायणः स्वयम् ॥
प्रविशन्तं ददर्शाथ त्रैलोक्यं तस्य देहतः ।ततः सस्मार भगवान् वरदानं पुरातनम् ॥
वागादीनां ततस्तुष्टः प्रादात्तस्य पुनर्व्वरम् ।सर्व्वज्ञः सर्व्वकर्त्ता त्वं सर्व्वलोकनमस्कृतः ॥
त्रैलोक्यप्रतिपालाच्च भव विष्णुः सनातनः ।देवानां सर्व्वदा कार्य्यं कर्त्तव्यं ब्रह्मणस्तथा ॥
सर्व्वज्ञत्वञ्च भवतु तव देव न संशयः ।एवमुक्त्वा ततो देवः प्रकृतिस्थो बभूव ह ॥
विष्णुरप्यधुना पूर्व्वां बुद्धिं सस्मार स प्रभुः ।तदा संचिन्त्य भगवान् योगनिद्रां महातपाः ॥
तस्यां संस्थाप्य मगवान् इन्द्रियार्थोद्भवाःप्रजाः ।ध्यात्वा परेण रूपेण ततः सुष्वाप वै प्रभुः ॥
तस्य सुप्तस्य जठरान्महत् पद्मं विनिःसृतम् ।सप्तद्वीपवती पृथ्वी ससमुद्रा सकानना ॥
तस्य मूलस्य विस्तारं पातालतलसंस्थितम् ।कर्णिकायां तथा मेरुस्तन्मध्ये ब्रह्मणो भवः ॥
एवं दृष्ट्वा परं तस्य शरीरस्य तु सम्भवम् ।मुमुचे तच्छरीरस्थो वायुर्वायुसमं सृजत् ॥
अविद्यविजयञ्चेमं शङ्खरूपेण धारय ।अज्ञानच्छेदनार्थाय खड्गं तेऽस्तु तथा करे ॥
कालचक्रमयं घोरं चक्रं त्वं धारयाच्युत ।अधर्म्मराजघातार्थं गदां धारय केशव ॥
मालेयं भूतमाता ते कण्ठे तिष्ठतु सर्व्वदा ।श्रीवत्सकौस्तुभौ चेमौ चन्द्रादित्यच्छलेन ह ॥
मारुतस्ते गतिर्वीरः गरुत्मांस्तव कीर्त्तितः ।त्रैलोक्यगामिनी देवी लक्ष्मीस्तेऽस्तु सदा प्रिया ॥
द्वादशी च तिथिस्तेऽस्तु कामरूपी च जायते ।घृताशनो भवेद्यस्तु द्वादश्यां तत्परायणः ॥
स्वर्गवासी च भवतु पुमान् स्त्री वा विशेषतः ।एष विष्णुस्तवाख्यातो मूर्त्तयो देवदानवाः ॥
हन्ति पाति शरीराणि सृजन्त्यन्यानि चात्मनः ।युगे युगे सर्व्वगोऽयं वेदान्ते पुरुषो ह्ययम् ।न हीनबुद्ध्या वक्तव्यो मनुष्योऽयं कदाचन ॥
”इति वाराहे परापरनिर्णयनामाध्यायः ॥
* ॥
ब्रह्मविष्णुशिवानामेकत्वं यथा, --“ततो ब्रह्मा शरीरं तत् त्रिधा चक्रे महेश्वरः ।प्रधानेच्छाबलाच्छम्भोस्त्रिगुणं त्रिगुणीकृतम् ॥
तदूर्द्ध्वभागः संजातश्चतुर्वक्त्रश्चतुर्भुजः ।स्फटिकाभ्रसमः कायः शुक्लः स चन्द्रशेखरः ॥
ईशस्ततो ब्रह्मकाये सृष्टिशक्तिं न्ययोजयत् ।स्वयमेवाभवत् स्रष्टा ब्रह्मरूपेण लोकभृत् ॥
स्थितिशक्तिं निजां मायां प्रकृत्याख्यां न्ययो-जयत् ।महेशे वैष्णवे काये ज्ञानशक्तिं निजां तथा ॥
स्थितिकर्त्ताभवद्बिष्णुरहमेव महेश्वरः ।सर्व्वशक्तिनियोगेन सदा तद्रूपता मम ॥
अन्तशक्तिं तथा काये शम्भवे स न्ययोजयत् ।अन्तकर्त्ताभवच्छम्भुः स एव परमेश्वरः ॥
अतस्त्रिषु शरीरेषु स्वयमेव प्रकाशते ।ज्ञानरूपं परं ज्योतिरनादिर्भगवान् प्रभुः ॥
सृष्टिस्थित्यन्तकरणादेक एव महेश्वरः ।ब्रह्मा विष्णुः शिवश्चेति संज्ञामाप पृथक् ।पृथक् ॥
अतस्त्वञ्च विधाता च तथाहमपि नो पृथक् ।एवं शरीरं रूपञ्च ज्ञानमस्माकमन्तरात् ॥
”इति कालिकापुराणे १२ अध्यायः ॥
* ॥
अन्यच्च ।“गुणातीतः स भगवान् व्यापकः पुरुषः परः ।अनन्तभोगशायी च यन्नाभिकमलादभूत् ॥
विष्णुश्च स च गोविन्द ईश्वरश्च सनातनः ।यस्तं वेद महात्मानं स जीवन्मुक्त उच्यते ॥
”इति वामनपुराणे ४२ अध्यायः ॥
* ॥
तेन गजेन्द्रमोक्षणं यथा, --पुलस्त्य उवाच ।“भक्तिं तस्याथ सं चिन्त्य नागस्यागोघदर्शनः ।प्रीतिमानभवद्विष्णुः शङ्खचक्रगदाधरः ॥
सान्निध्यं कल्पयामास तस्मिन् सरसि केशवः ।गरुडस्थो जगन्नाथो लोकाधारस्तपोधनः ॥
ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ।उज्जहाराप्रमेयात्मा तरसा मधुसूदनः ॥
स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ।मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥
स हि देवलशापेन हूहूर्गन्धर्व्वसत्तमः ।ग्राहत्वमगमत् कृष्णाद्वरं प्राप्य दिवङ्गतः ।गजोऽपि विष्णुना स्पृष्टो जातो दिव्यवपुःपुमान् ॥
”इति वामनपुराणे ८१ अध्यायः ॥
* ॥
अस्य मन्त्रपूजादिर्यथा, --“अथ वक्ष्ये महामन्त्रान् विष्णोः सर्व्वार्थसाध-कान् ।यस्य संस्मरणात् सन्तो भवाब्धेः पारमाश्रिताः ॥
तारं नमः पद ब्रूयात् नरौ दीर्घसमन्वितौ ।पवनो णाय मन्त्रोऽयं प्रोक्तो वस्वक्षरः परः ॥
”अस्य पूजाप्रयोगः । प्रातःकृत्यादिस्नानान्तंकर्म्म कृत्वा पूजामण्डपमागत्य वैष्णवाचमनंकुर्य्यात् । तद्यथा गौतमीये ।“केशवाद्यैस्त्रिभिः पीत्वा द्वाभ्यां प्रक्षालयेत्करौ ।द्वाभ्यामोष्ठौ च संमृज्य द्वाभ्यां मृज्यान्मुखंततः ॥
एकेन हस्तं प्रक्षाल्य पादावपि तथैकतः ।संप्रोक्ष्यैकेन मूर्द्धानं ततः सङ्कर्षाणादिभिः ॥
आस्यनासाक्षिकर्णांश्च नाभ्युरस्कं भुजौ क्रमात् ।स्पृशेदेवं भवेदाचमनञ्च वैष्णवान्वये ।एवमाचमनं कृत्वा साक्षान्नारायणो भवेत् ॥
”केशवादयस्तु केशवनारायणमाधवगोविन्द-विष्णुमधुसूदनत्रिविक्रमवामनश्रीधरहृषीकेश-पद्मनाभदामोदरसङ्कर्षणवासुदेवप्रद्युम्नानिरुद्ध-पुरुषोत्तमाधोक्षजनृसिंहाच्युतजनार्द्दनोपेन्द्र-हरिविष्णवः ॥
वाक्यन्तु प्रणवादि केशवाय नमइत्यादि । तथा च ।“सचतुर्थीनमोऽन्तैश्च नामभिर्विन्यसेत् सुधीः ॥
”ततः सामान्यार्घ्यादिमातृकान्तं कर्म्म विधायकेशवकीर्त्त्यादिन्यासं कुर्य्यात् । अस्य ऋष्यादि-न्यासः । शिरसि प्रजापतये ऋषये नमः । मुखेगायत्त्रीच्छन्दसे नमः । हृदि अर्द्धलक्ष्मीहरयेदेवतायै नमः ॥
* ॥
ततः कराङ्गन्यासौ । श्रींअङ्गुष्ठाभ्यां नम इत्यादि । श्रीं हृदयाय नमइत्यादि । तथा च गौतमीये ।“ऋषिः प्रजापतिश्छन्दो गायत्त्री देवता पुनः ।अर्द्धलक्ष्मीहरिः प्रोक्तः श्रीबीजेन षडङ्गकम् ॥
”ततो ध्यानम् ।“उद्यत्प्रद्योतनशतरुचिं तप्तहेमावदातंपार्श्वद्वन्द्वे जलधिसुतया विश्वधात्र्या च जुष्टम् ।नानारत्नोल्लसितविविधाकल्पमापीतवस्त्रंविष्णुं वन्दे दरकमलकौमोदकीचक्रपाणिम् ॥
”एवं ध्यात्वा न्यसेत् । यथा । अं केशवाय कीर्त्त्यैनमः ललाटे । वर्णानुक्त्वा सार्द्धचन्द्रान् पुरस्ता-दित्यादिदर्शनात् सर्व्वत्र सानुस्वारः । आंनारायणाय कान्त्यै नमो मुखे । इं माधवायतुष्ट्यै नमो दक्षनेत्रे । ईं गोविन्दाय पुष्ट्यै नमोवामनेत्रे । उं विष्णवे धृत्यै दक्षकर्णे । ऊंमधुसूदनाय शान्त्यै वामकर्णे । ऋं त्रिविक्रमायक्रियायै दक्षनासापुटे । ॠं वामनाय दयायैवामनासापुटे । ऌं श्रीधराय मेधायै दक्षगण्डे ।ऌं हृषीकेशाय हर्षायै वामगण्डे । एं पद्म-नाभाय श्रद्धायै ओष्ठे । ऐं दामोदराय लज्जायैअधरे । ॐ वासुदेवाय लक्ष्म्यै ऊर्द्ध्वदन्तपंक्तौ ।औं सङ्कर्षणाय सरस्वत्यै अधोदन्तपंक्तौ । अंप्रद्युम्नाय प्रीत्यै मस्तके । अः अनिरुद्धाय रत्यैमुखे । कं चक्रिणे जयायै । खं गदिने दुर्गायै ।गं शार्ङ्गिणे प्रभायै । घं खड्गिने सत्यायै ।ङं शङ्खिने चण्डायै दक्षकरमूलसन्ध्यग्रकेषु । चंहलिने वाण्यै । छं मुषलिने विलासिन्यै । जंशूलिने विजयायै । झं पाशिने विरजायै । ञंअङ्कुशिने विश्वायै वामकरमूलसन्ध्यग्रकेषु । टंमुकुन्दाय विनदायै । ठं नन्दजाय सुनन्दायै ।डं नन्दिने स्मृत्यै । ढं नराय ऋद्ध्यै । णं नरक-जिते समृद्ध्ये दक्षपादमूलसन्ध्यग्रकेषु । तं हरयेशुद्ध्यै । थं कृष्णाय बुद्ध्यै । दं सत्याय भूत्यै ।धं सात्वताय मत्यै । नं सौराय क्षमायै वाम-पादमूलसन्ध्यग्रकेषु । पं शूराय रमायै दक्ष-पार्श्वे । फं जनार्द्दनाय उमायै वामपार्श्वे । वंभूधराय क्लेदिन्यै पृष्ठे । भं विश्वमूर्त्तये क्लिन्नायैनाभौ । मं वैकुण्ठाय सुदायै उदरे । यं त्वगा-त्मने पुरुषोत्तमाय वसुधरायै हृदि । रं असृ-गात्मने बलिने परायै दक्षांशे । लं मांसात्मनेबलानुजाय परायणायै ककुदि । वं मेदआत्मनेबलाय सूक्ष्मायै वामांशे । शं अस्थ्यात्मने वृष-घ्नाय सन्ध्यायै हृदादिदक्षकरे । षं मज्जात्मनेवृषाय प्रज्ञायै हृदादिवामकरे । सं शुक्रात्मनेहंसाय प्रभायै हृदादिदक्षपादे । हं प्राणात्मनेवराहाय निशायै हृदादिवामपादे । ळं जीवा-त्मने विमलाय अमोघायै हृदाद्युदरे । क्षंक्रोधात्मने नृसिंहाय विद्युतायै हृदादिमुखे ।इति न्यसेत् ॥
* ॥
तथा च । गौतमीये ।“केशवादिरयं न्यासो न्यासमात्रेण देहिनाम् ।अच्युतत्वं ददात्येव सत्यं सत्यं न संशयः ॥
मातृकार्णं समुच्चार्य्य केशवाय इति स्मरेत् ।कीर्त्त्यै च मनसा युक्तमित्यादि न्यासमाचरेत् ।केशवाय ततः कीर्त्त्यै कान्त्यै नारायणाय च ॥
”इत्याद्यगस्त्यसंहितावचनाच्चायं क्रमः । न तुकेशवकीर्त्तिभ्यां नम इति । तथा भुक्तिमुक्ति-मिच्छता अयं न्यासः कर्त्तव्यः श्रीबीजादिकः ।यथा । श्रीं अं केशवाय कीर्त्त्यै नम इत्यादि ।तथा च गौतमीये ।“एवं प्रविन्यसेन्न्यासं लक्ष्मीबीजपुरःसरम् ।स्मृतिं धृतिं महालक्ष्मीं प्राप्यान्ते हरितांव्रजेत् ॥
”ततस्तत्त्वन्यासपीठन्यासर्ष्यादिन्यासविष्णुपञ्जरा-दिन्यासान् कुर्य्यात् । तत्त्वन्यासादयस्तु ग्रन्थ-गौरवभिया नोक्ताः ॥
* ॥
ततो ध्यायेत् ।“उद्यत्कोटिदिवाकराभमनिशं शङ्कं गदांपङ्कजंचक्रं बिभ्रतमिन्दिरावसुमतीसंशोभिपार्श्वद्बयम् ।कोटीराङ्गदहारकुण्डलधरं पीताम्बरं कौस्तुभो-द्दीप्तं विश्वधरं स्ववक्षसि लसच्छ्रीवत्सचिह्नं भजे ॥
”एवं ध्यात्वा मानसैः संपूज्य शङ्खस्थापनंकुर्य्यात् । तत्र वैष्णवपात्रं गौतमीये ।“ताम्रपात्रन्तु विप्रर्षे विष्णोरतिप्रियं मतम् ।तथैव सर्व्वपात्राणां मुख्यं शङ्खं प्रकीर्त्तितम् ॥
मृत्पात्रञ्च तथा प्रोक्तं स्वर्णं वा राजतं तथा ।पञ्चपात्रं हरेः शुद्धं नान्यत्तत्र नियोजयेत् ॥
”नेवेद्यदाने तु तत्रैव ।“स्वर्णे वा ताम्रपात्रे वा रौप्ये वा पङ्कजे दले ॥
”आगमकल्पद्रुमे ।“हैरण्यं राजतं कांस्यं ताम्रं मृण्मयमेव वा ।पालाशं श्रीहरेः पात्रं नैवेद्ये कल्पयेद्बुधः ॥
”पुरश्चरणचन्द्रिकायाम् । सुवर्णे राजते रैत्येइत्यादि ॥
* ॥
ततः सामान्यपीठपूजा-नन्तरं विमलादिशक्तिसहितपीठमन्वन्तं पूजांकृत्वा पुनर्ध्यात्वा मूलेन कल्पितमूर्त्तावावाह-नादिपञ्चपुष्पाञ्जलिदानपर्य्यन्तं विधाय आव-रणपूजां कुर्य्यात् । अग्न्यादिचतुष्कोणेषु दिक्षुच ओँ क्रुद्धोल्काय हृदयाय नमः इत्यादिनापूजयेत् ॥
* ॥
ततः केशरेषु पूर्व्वादि ओँ नमःनं नमः मों नमः नां नमः रां नमः यं नमःणां नमः यं नमः । ततो दलेषु पूर्व्वादिदिक्षुओँ वासुदेवाय नमः । एवं सङ्कर्षणाय प्रद्युम्नायअनिरुद्धाय । अग्न्यादिकोणदलेषु ओँ शान्त्यैनमः एवं श्रियै सरस्वत्यै रत्यै । ततः पत्राग्रेषुपूर्व्वादि ओँ चक्राय नमः एवं शङ्खाय गदायैपद्माय कौस्तुभाय मुषलाय खड्गाय वन-मालायै । तद्बहिरग्रे ओँ गरुडाय नमः ।दक्षिणे ओँ शङ्खनिधये नमः । वामे ओँ पद्म-निधये नमः । पश्चिमे ओँ ध्वजाय नमः । अग्नि-कोणे ओँ विघ्नाय नमः । नैरृते ओँ आर्य्यायेनमः । वायुकोणे ओँ दुर्गायै नमः । ईशानेओँ सेनान्यै नमः । एवं सर्व्वत्र । तद्बहि-रिन्द्रादीन् वज्रादीश्च पूजयित्वा धूपदीपौ दत्त्वानैवेद्यं दद्यात् ॥
* ॥
यथा । नैवेद्यमानीयदेवतायै मूलेन पाद्यार्घाचमनीयं दत्त्वा फडितिमन्त्रेण नैवेद्यं संप्रोक्ष्य चक्रमुद्रयाभिरक्ष्ययमिति मन्त्रण दोषसमूहं संशोष्य रमिति दोषंसंदह्य वामकरसौधधाराभिपूर्णं वमिति मन्त्रेणअमृतीकृत्य मूलमन्त्रमष्टधा जपेत् । ततोवमिति धेनुमुद्रयामृतीकृत्य गन्धपुष्पाभ्यां संपूज्यकृताञ्जलिः सन् हरिं प्रार्थयेत् । अस्य मुखतोमहः प्रसवेदिति विभाव्य स्वाहान्तं मूलमुच्चार्य्यनैवेद्ये जलं दद्यात् । ततो मूलमुच्चार्य्य एतन्नैवेद्यंअमुकदेवतायै नमः । ततो नैवेद्यं हस्ताभ्या-मुद्धृत्य ओँ निवेदयामि भवते जुषाणेदं हवि-र्हर इति नैवेद्यं समर्प्य अमुकदेवतायै एतज्जल-ममृतोपस्तरणमसीति जलं दत्त्वा वामहस्तेग्रासमुद्रां प्रदर्श्य दक्षिणहस्तेन प्राणादिमुद्राःप्रदर्शयेत् । * । यथा । ओँ प्राणाय स्वाहेतिकनिष्ठानामिके अङ्गुष्ठेन स्पर्शयेत् । ओँ अपा-नाय स्वाहेति तर्ज्जनीमध्यमे अङ्गुष्ठेन स्पर्शयेत् ।ओँ व्यानाय स्वाहेति मध्यमानामे अङ्गुष्ठेनस्पर्शयेत् ओँ उदानाय स्वाहेति तर्ज्जनीमध्यमा-नामा अङ्गुष्ठेन स्पर्शयेत् । ओँ समानायस्वाहेति सर्व्वाङ्गुलीरङ्गुष्ठेन स्पर्शयेत् । ततःअङ्गुष्ठाभ्यामनामिकाग्रं स्पृशन् ब्रौं नमः परायअन्तरात्मने अनिरुद्धाय नैवेद्यं कल्पयामीतिनैवेद्यमुद्रां प्रदर्श्य मूलमुच्चार्य्य अमुकदेवतांतर्पयामीति चतुर्द्धा संतर्प्य अमुकदेवतायैएतज्जलममृतापिधानमसि इति जलं दत्त्वाआचमनीयादिकं दद्यात् ॥
* ॥
वैष्णवे तुनैवेद्यदाने सर्व्वत्रायमेव विधिः । ततः सामान्य-पूजापद्धत्युक्तक्रमेण विसर्ज्जनान्तं कर्म्म समा-पयेत् ॥
अस्य पुरश्चरणं षोडशलक्षजपः ।तथा च ।“विकारलक्षं प्रजपेन्मनुमेनं समाहितः ।तद्दशांशं सरसिजैर्जुहुयान्मधुराप्लुतैः ॥
”इति तन्त्रसारः ॥
स्मृत्युक्तविष्णुपूजा आह्निकतत्त्वादौ द्रष्टव्या ॥
* ॥
शिवस्याष्टमूर्त्तिपूजानन्तरं तत्रैव विष्णोरष्टमूर्त्ति-पूजा यथा, --“कृता पूजा मया देवि अष्टमूर्त्तेः शिवस्य च ।यथा हि परमेशानि तच्छृणुष्व वरानने ॥
”इत्युपक्रम्य ।“कृत्वा पूजां महेशानि कूण्डल्या बाह्यवेष्टने ।अष्ट विष्णोर्म्महेशानि नामानि शृणु कामिनि ॥
उग्रं विष्णुं महाविष्णुं ज्वलन्तं संप्रतापनम् ।नृसिंहं भीषणं भीमं मृत्युमृत्युं प्रकीर्त्तितम् ।एतान् विष्णून् महेशानि यथा संपूज्य तच्छृणु ॥
समुखादिक्रमाद्देवि पूजयेद्विष्णुमव्ययम् ।तन्मन्त्रं शृणु चार्व्वङ्गि ज्ञानसारं वरानने ॥
”ओँ उग्राय विष्णवे नमः । ओँ महाविष्णवेनमः । ओँ ज्वलन्ताय विष्णवे नमः । ओँ संप्र-तापनाय विष्णवे नमः । ओँ नृसिंहाय विष्णवेनमः । ओँ भीषणाय विष्णवे नमः । ओँ भीमायविष्णवे नमः । ओँ मृत्युञ्जयाय विष्णवे नमः ।“इति पूजां महेशानि कृत्वा हि परमेश्वरि ।विष्णुज्ञानं मया प्रोक्तं सर्व्वशक्तिसमन्वितम् ॥
”इति लिङ्गार्च्चनतन्त्रे ७ पटलः ॥
तस्य नमस्कारस्तत्फलादिश्च यथा, --सूत उवाच ।“मुक्तिहेतुमनाद्यन्तमजमक्षयमव्ययम् ।यो नमेत् सर्व्वलोकस्य नमस्यो जायते नरः ॥
विष्णुमानन्दमद्वैतं विज्ञानं सर्व्वगं प्रभुम् ।प्रणमामि सदा भक्त्या चेतसा हृदयालयम् ॥
योऽन्तस्तिष्ठन्नशेषस्य पश्यतीशः शुभाशुभम् ।तं सर्व्वसाक्षिणं विष्णुं नमस्ये परमेश्वरम् ॥
साध्येनापि नमस्कारप्रयुक्तश्चक्रपाणये ।संसारतृणवर्गाणामुद्वेजनकरो हि सः ॥
कृष्णे स्फुरज्जलधरोदरचारुकृष्णेलोकाधिकारिपुरुषे परमेऽप्रेमेये ।एकोऽपि चारुगुणमात्रकृतप्रणामःसद्यः श्वपाकमपि शोधयितुं समर्थः ॥
प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्च्चयेत् ।स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥
दुर्गसंसारकान्ताराकूपारमभिधावताम् ।एकः कृष्णनमस्कारः अस्ति तीरस्य देशकः ॥
आसीनो वा शयानो वा तिष्ठन् वा यत्र तत्र वा ।नमो नारायणायेति मन्वेकशरणो भवेत् ॥
नारायणेति शब्दोऽस्ति वागस्ति वशवर्त्तिनी ।तथापि नरके घोरे पतन्तीति किमद्भुतम् ॥
चतुर्मुखायुर्यदि कोटिवक्त्रोभवेन्नरः कोऽपि विशुद्धचेताः ।सर्व्वे गुणानामयुतैकदेशंवदेन्न वा देववरस्य विष्णोः ॥
व्यासाद्या मुनयः सर्व्वे स्तुवन्तो मधुसूदनम् ।मतिक्षयान्निवर्त्तन्ते न गोविन्दगुणक्षयात् ॥
अवशेनापि यन्नाम्नि कीर्त्तिते सर्व्वपातकैः ।पुमान् विमुच्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् ।बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥
स्वप्नेऽपि नामस्मृतिरादिपुंसःक्षयं करोत्यक्षयपापराशिम् ।प्रत्यक्षतः किं पुनरत्र पुंसांसंकीर्त्तिते नाम्नि जनार्द्दनस्य ॥
नमः कृष्णाच्युतानन्त वासुदेवेत्युदीरितम् ।यैर्भावभावितैर्विप्र न ते यमपुरं ययुः ॥
शमायालं जलं वह्नेस्तमसो भास्करोदयः ।क्षान्तिः कलेस्त्वघौघस्य नामसंकीर्त्तनं हरेः ॥
क्व नाकपृष्ठगमनं पुनरायाति लक्षणम् ।क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥
गच्छतां दूरमध्वानं तृष्णामूर्च्छितचेतसाम् ।पाथेयं पुण्डरीकाक्षनामसंकीर्त्तनामृतम् ॥
नम इत्येव यो ब्रूयात्तद्भक्तः श्रद्धयान्वितः ।तस्याक्षयो भवेल्लोकः श्वपाकस्यापि शौनक ॥
संसारसर्पदष्टस्य निर्व्विचेष्टैकभेषजम् ।कृष्णेति वैष्णवं मन्त्रं जप्त्वा मुक्तो भवेन्नरः ॥
ध्यायन् कृते यजन् यज्ञैस्त्रेतायां द्वापरेऽर्च्चयन् ।यदाप्नोति तदाप्नोति कलौ संकीर्त्त्य केशवम् ॥
नूनं तत्कण्ठतालूकमथवाप्युपजिह्विका ।रोगाधारा न सा जिह्वा या न वक्ति हरे-र्गुणान् ॥
कुरुक्षेत्रेण किं तस्य काश्या वा शान्तिकेन वा ।जिह्वाग्रे वर्त्तते यस्य हरिरित्यक्षरद्वयम् ॥
विज्ञातदुष्कृतसहस्रसमावृतोऽपिश्रेयः परन्तु परिशुद्धिमभीप्समानः ।स्वप्नान्तरेऽपि किल योनिभयं न पश्ये-न्नारायणस्तुतिकथापरमो मनुष्यः ॥
”इत्यादि गारुडे नारायणभक्तिनमस्कारो नाम२३२ अध्यायः ॥
* ॥
सूत उवाच ।“असारभूते संसारे सारमेकं विनिर्द्दिशेत् ।असाराशेषलोकस्य सारमाराधनं हरेः ॥
दद्यात् पुरुषसूक्तेन यः पुष्पाण्यप एव वा ।अर्च्चितं स्यात्तदा चैव तेन सर्व्वं चराचरम् ॥
भातृवत् परिरक्षन्तं सृष्टिसंहारकारकम् ।यो न पूजयते विष्णुं तं विद्याद्ब्रह्मघातकम् ॥
यतः प्रवृत्तिर्भूतानां येन सर्व्वमिदं ततम् ।स्वकर्म्मणा तमभ्यर्च्च्य सिद्धिं विन्दन्ति मानवाः ॥
नरके पच्यते यस्तु यमेन परिभाषितः ।किं त्वया नार्च्चितो देवः केशवः केशिनाशनः ॥
उदकेनाप्यभावेन द्रव्याणामर्च्चितः प्रभुः ।यो ददाति स्वकं लोकं स त्वया किं न चार्च्चितः ॥
न तत् करोति सा माता न पिता नापिबान्धवाः ।यत् करोति हृषीकेशः सन्तुष्टः श्रद्धयार्च्चितः ॥
वर्णाश्रमाचारवता पुरुषेण परः पुमान् ।विष्णुराराध्यते पन्था नान्यस्तत्तोषकारकः ॥
न दानैर्विविधैर्दत्तैर्न पुष्पैर्नानुलेपनैः ।तोषमेति महात्मासौ यथा भक्त्या जनार्द्दनः ॥
सम्पदैश्वर्य्यमाहात्म्यज्ञानसन्ततिकर्म्मणाम् ।विमुक्तेश्चैकतालभ्यं मूलमाराधनं हरेः ॥
प्रणामैस्तुष्यते विष्णुरेतद्बै परमं धनम् ।अन्यथा वा विशेषेण कस्तमर्च्चितुमर्हति ॥
”इति गारुडे पूजास्तुतिः २३३ अध्यायः ॥
* ॥
सूत उवाच ।“आलोक्य बहुशास्त्राणि विचार्य्य च पुनःपुनः ।इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥
किं तस्य दानैः किं तीर्थैः किं तपोभिः किम-ध्वरैः ।यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥
षष्टितीथसहस्राणि षष्टितीर्थशतानि च ।नारायणप्रणामस्य कलां नार्हन्ति षोढशीम् ॥
प्रायश्चित्तान्यशेषाणि तपःकर्म्मादिकानि वै ।यानि तेषामशेषाणां कृष्णानुस्मरणं परम् ॥
कृते पापेऽनुतापो वै यस्य पुंसः प्रजायते ।प्रायश्चित्तन्तु तस्यैकं हरिसंस्मरणं परम् ॥
मुहूर्त्तमपि यो ध्यायेन्नारायणमतन्द्रितः ।सोऽपि तद्गतिमाप्नोति किं पुनस्तत्परायणः ॥
जाग्रत्स्वप्नसुषुप्तेषु योगस्तस्य च योगिनः ।या काचिन्मनसो वृत्तिः सा भवत्यच्युताश्रयात् ॥
उत्तिष्ठन्निपतत्विष्णुं व्रजन् वै विवसंस्तथा ।भुञ्जन् स्वपंश्च जाग्रच्च गोविन्दं माधवं स्मरेत् ॥
स्वे स्वे कर्म्मण्यभिरतः कुर्य्याच्चित्तं जनार्द्दने ।एषा शास्त्रानुसारोक्तिः किमन्यैर्बहुभाषितैः ॥
ध्यानमेव परो धर्म्मो ध्यानमेव परं तपः ।ध्यानमेव परं शौचं तस्मात् ध्यानपरो भवेत् ॥
नास्ति विष्णोः परं ध्येयं तपो नानशनात्परम् ।तस्मात् प्रधानमन्त्रोक्तं वासुदेवस्य चिन्तनम् ॥
यद्दुर्लभं पदं प्रार्थ्यं मनसो यन्न गोचरम् ।तदप्यप्रार्थितं ध्यातो ददाति मधुसूदनः ॥
प्रमादात् कुर्व्वतां कर्म्म प्रच्यवेताध्वरेषु यत् ।स्मरणादेव तद्विष्णोः संपूर्णं स्यादिति श्रुतिः ॥
ध्यानेन सदृशं नास्ति शोधनं पापकर्म्मणाम् ।आगामिदेहहेतूनां दाहकोऽप्येष पावकः ॥
विनिष्पन्नसमाधिस्तु मुक्तिमत्रैव जन्मनि ।प्राप्नोति योगी योगाग्निदग्धकर्म्मचयोऽचिरात् ॥
यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।तथा चित्तस्थितो विष्णुर्योगिनां सर्व्वकिल्विषम् ॥
यथाग्निदाहात् कनकमपदोषं प्रजायते ।संश्लिष्टं वासुदेवेन मनुष्याणां तथा मनः ॥
गङ्गास्नानसहस्रेषु पुष्करस्नानकोटिषु ।यत् पापं विलयं याति स्मृते नश्यति तद्धरौ ॥
प्राणायामसहस्रैस्तु यत् पापं नश्यति ध्रुवम् ।क्षणमात्रेण तत् पापं हरेर्ध्यानात् प्रणश्यति ॥
एकस्मिन्नप्यतिक्रान्ते मुहूर्त्ते ध्यानवर्ज्जिते ।दस्युभिर्म्मथितेनेव युक्तमाक्रन्दितं भृशम् ॥
कलिप्रभावो दुष्टोक्तिः पाषण्डानां तथोक्तयः ।न क्रमेरन् मनस्तस्य यस्य चेतसि केशवः ॥
सा तिथिस्तदहोरात्रं स योगः स च चन्द्रमाः ।लग्नं तदेव विख्यातं यत्र प्रस्मर्य्यते हरिः ॥
सा हानिस्तन्महच्छिद्रं सा चान्धजडमूकता ।यन्मुहूर्त्तं क्षणं वापि वासुदेवो न चिन्त्यते ॥
कलिः कृतयुगन्तस्य कलिस्तस्य कृते युगे ।हृदये यस्य गोविन्दो यस्य चेतसि नाच्युतः ॥
यस्याग्रतस्तथा पृष्ठे गच्छतस्तिष्ठतोऽपि वा ।गोविन्दे नियतं चित्तं कृतकृत्यः सदैव सः ॥
वासुदेवे मनो यस्य जपहोमार्च्चनादिषु ।तस्यान्तरायो मैत्रेय देवेन्द्रत्वादिकं फलम् ॥
असंत्यज्य च गार्हस्थमतप्त्वा च महत्तपः ।छिनत्ति वैष्णवीं मायां केशवार्पितमानसः ॥
क्षमां कुर्व्वन्ति क्रुद्धेषु दयां मूर्खेषु मानवाः ।मुदञ्च धर्म्मशीलेषु गोविन्दे हृदयस्थिते ॥
ध्यायेन्नारायणं देवं स्नानादिषु च कर्म्मसु ।प्रायश्चित्तं हि सर्व्वस्य दुष्कृतस्येति विश्रुतम् ॥
लाभस्तेषां जयस्तेषां कुतस्तेषां पराभवः ।येषामिन्दीवरश्यामो हृदयस्थो जनार्द्दनः ॥
कीटपक्षिगणानाञ्च हरौ संन्यस्तचेतसाम् ।ऊर्द्ध्वमेव गतिं मन्ये किं पुनर्ज्ञानिनां नृणाम् ॥
वासुदेवतरुच्छाया नातिशीता न घर्म्मदा ।नरकद्वारशमनी सा किमर्थं न सेव्यते ॥
न च दुर्व्वाससः शापो वज्रञ्चापि शचीपतेः ।हन्तुं समर्थो हि सखे हृद्गते मधुसूदने ।वदतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म्म कुर्व्वतः ।नापयाति यदा चिन्ता सिद्धां मन्ये च धारणाम् ॥
ध्येयः सदा सवितृमण्डलमध्यवर्त्तीनारायणः सरसिजासनसन्निविष्टः ।केयूरवान् कनककुण्डलवान् किरीटीहारी हिरण्मयवपुर्धृतशङ्खचक्रः ॥
किमत्र बहुनोक्तेन युष्माकमधुना हरिम् ।स्मरताहर्निशं विष्णुमशेषदुरितापहम् ॥
न हि ध्यानेन सदृशं पवित्रमिह विद्यते ।श्वपाकेष्वपि भुञ्जानः पापं नैवात्र लिप्यते ॥
यदा चित्तं समासक्तं जन्तोर्व्विषयगोचरे ।यदि नारायणेऽप्येवं को न मुच्येत बन्धनात् ॥
प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरम् ।वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥
तत्रानया धारणया योगिनो यान्ति मे लयम् ।संसारकर्म्मणोऽप्येते यान्ति निर्ब्बीजतांद्विजाः ॥
”इति गारुडे ध्यानस्तुतिः २३४ अध्यायः ॥
तस्य माहात्म्यं यथा, --सूत उवाच ।“विष्णुचित्तो भवेद्भक्तस्तं यजेत नमेत् सदा ।तमेवैष्यति मुक्तैवमात्मानं हरितत्परः ॥
तद्दानं यत्र गोविन्दः सा कथा यत्र केशवः ।तत् कर्म्म यत्तदर्थाय किमन्यैर्ब्बहुभाषितैः ॥
सा जिह्वा या हरिं स्तौति तच्चित्तं यत्तदर्पितम् ।तावेव केवलौ श्लाघ्यौ यौ तत्पूजाकरौ करौ ॥
प्रणाममीशस्य शिरःफलं विदु-स्तदर्च्चनं पाणिफलं दिवौकसः ।मनःफलं तद्गुणकर्म्मचिन्तनंवाचस्तु गोविन्दगुणस्तवः फलम् ॥
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्म्मणः ।केशवं वैद्यमासाद्य दुर्व्याधिरिव नश्यति ॥
यत्किञ्चित् कुरुते कर्म्म पुरुषः साध्वसाधु वा ।सर्व्वं नारायणे न्यस्य कुर्व्वन्नपि न लिप्यते ॥
तृणादिचतुरास्यान्तं भूतग्रामं चतुर्व्विधम् ।चराचरं जगत् सर्व्वं प्रसुप्तं मायया तव ॥
यस्मिन्न्यस्तमतिर्न याति नरकं स्वर्गोऽपि यच्चि-न्तनेविघ्नो यत्र निवेशितात्ममनसो ब्राह्मोऽपिलोकोऽल्पकः ।मुक्तिं चेतसि संस्थितो जडधियां पुंसां ददा-त्यव्ययःकिञ्चित्रं दुरितं प्रयाति विलयं तत्राच्युतेकीर्त्तिते ॥
महता पुण्यपण्येन येन क्रोतोऽखिलं ध्रुवम् ।तस्य विष्णोः प्रसादेन इह कश्चित् प्रबुद्धति ॥
अग्निकार्य्यं जपं स्नानं विष्णोर्ध्यानञ्च पूजनम् ।गन्तुं दुःखोदधेः पारं कुर्य्युर्यत्र भवन्ति ते ॥
राष्ट्रस्य शरणं राजा पितरौ बालकस्य च ।धर्म्मश्च सर्व्वमर्त्यानां सर्व्वस्य शरणं हरिः ॥
ये नमन्ति जगद्योनिं वासुदेवं सनातनम् ।न तेभ्यो विद्यते तीर्थमधिकं मुनिसत्तम ॥
अनर्घरत्नपूजान्तु कुर्य्यात् स्वाध्यायमेव च ।तं समुद्दिश्य गोविन्दं ध्यानं नित्यमतन्द्रितः ॥
शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा ।द्विजजातिसमं मन्ये न याति नरकं नरः ॥
आदरेण यथा स्तौति धनवन्तं धनेच्छया ।तथा बुद्धिश्च कर्त्तारं को न मुच्येत बन्धनात् ॥
यथा जातबलो वह्निर्दहत्यार्द्रमपीन्धनम् ।तथाविधः स्मृतो विष्णुर्योगिनां सर्व्वकिल्विषम् ॥
प्रदीप्तं पर्व्वतं यद्वत् नाश्रयन्ति मृगादयः ।तद्वत् पापानि सर्व्वाणि योगाभ्यासरतं नरम् ॥
यस्य यावांश्च विश्वासस्तस्य सिद्धिश्च तावती ।एतावानिति कृष्णस्य प्रभावः परिमीयते ॥
विद्वेषादपि गोविन्दं दमघोषात्मजः स्मरन् ।शिशुपालो गतस्तत्त्वं किं पुनस्तत्परायणः ॥
अयं देवो मुनिर्वन्द्य एष ब्रह्मा बृहस्पतिः ।इत्याख्या जायते तावद्यावन्नार्च्चयते हरिम् ॥
”इति गारुडे विष्णुमाहात्म्यं २३५ अध्यायः ॥
तस्य पादोदकपानादिफलम् ।“हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।पादोदकञ्च निर्म्माल्यं भस्तके यस्य सोऽच्युतः ॥
नैवेद्यमन्नं तुलसीविमिश्रंविशेषतः पादजलं पिबेच्च ।योऽश्नाति नित्यं पुरतो मुरारेःप्राप्नोति सुप्रेमयुतां स भक्तिम् ॥
हत्यां हन्ति यदङ्घ्रिसङ्गतुलसी स्तेयञ्च पादोदकंनैवेद्यं बहुमद्यपानदुरितं गुर्व्वङ्गनासङ्गमम् ॥
”इति पाद्मोत्तरखण्डे १० अध्यायः ॥
* ॥
तस्य नाम्नां व्युत्पत्तयो यथा, --पृथिव्युवाच ।“जातेषु शेषो भवसि तस्माच्छेषोऽसि कीर्त्तितः ॥
व्यसनोत्पत्तियुक्तेषु ब्रह्मेन्द्रवरुणादिषु ।यस्मान्न च्यवसे स्थानात्तस्मात् कीर्त्तयसेऽच्युतः ॥
ब्रह्माणमिन्द्रं रुद्रञ्च यमं वरुणमेव च ।निगृह्य हरसे यस्मात्तस्माद्धरिरिहोच्यसे ॥
सम्मानयसि भूतानि वपुषा यशसा श्रिया ।चिरेण वपुषा देव तस्माच्चासि सनातनः ॥
यस्माद्ब्रह्मादयो देवा मुनयश्चोग्रतेजसः ।न तेऽन्तं त्वधिगच्छन्ति तेनानन्तस्त्वमुच्यसे ॥
न क्षीयसे न क्षरसे कल्पकोटिशतैरपि ।तस्मात्त्वमक्षरत्वाच्च विष्णुर्वेति प्रकीर्त्त्यसे ॥
विष्टब्धञ्च त्वया सर्व्वं जगत् स्थावरजङ्गमम् ।जगद्विष्टम्भनाच्चैव विष्णुर्वेति प्रकीर्त्त्यसे ॥
विष्टभ्य तिष्ठसे नित्यं त्रैलोक्यं सचराचरम् ॥
सयक्षगन्धर्व्वनरं समहद्भूतपन्नगम् ।व्याप्य त्वामेव विशते त्रैलोक्यं सचराचरम् ।तस्माद्बिष्णुरिति प्रोक्तः स्वयमेव स्वयम्भवा ॥
नारा इत्युच्यते आपः ऋषिभिस्तत्त्वदर्शिभिः ।अयनं तस्य तत्पूर्व्वं तेन नारायणः स्मृतः ॥
युगे युगे प्रनष्टां गां विष्णो विन्दसि तत्त्वतः ।गोविन्देति ततो नाम्ना प्रोच्यसे ऋषिभिस्तथा ॥
हृषीकाणीन्द्रियाण्याहुस्तत्त्वज्ञानविशारदाः ।ईशित्वे वर्त्तसे ह्येषां हृषीकेशस्तथोच्यसे ॥
वसन्ति त्वयि भूतानि ब्रह्मादीनि युगक्षये ।त्वं वा वससि भूतेषु वासुदेवस्तदुच्यसे ॥
सङ्कर्षयसि भूतानि कल्पे कल्पे पुनः पुनः ।ततः सङ्कर्षणः प्रोक्तस्तत्त्वज्ञानविशारदैः ॥
प्रत्यूहेन न तिष्ठन्ति सदेवासुरराक्षसाः ।प्रतिद्युः सर्व्वधर्म्माणां प्रद्युम्नस्तेन चोच्यते ॥
निरोधो विद्यते यस्मान्न ते भूतेषु कश्चन ।अनिरुद्धस्ततः प्रोक्तः पूर्व्वमेव महर्षिभिः ॥
”इति मात्स्ये २२२ अध्यायः ॥
* ॥
विष्णुलोकगमनकारणं यथा, --“कर्म्मभोगी सकामः स्यान्निष्कामो निरुपद्रवः ।स याति देहं त्यक्त्वा च पदं विष्णोर्निरामयम् ।पुनरागमनं नास्ति तेषां निष्कामिणां सति ॥
ये सेवन्ते च द्विभुजं कृष्णमात्मानमेव च ।गोलोकं ते नरा यान्ति दिव्यरूपविधारिणः ॥
ये च नारायणं भक्त्या सेवन्ते च चतुर्भुजम् ।वकुण्ठं यान्ति ते सर्व्वे दिव्यरूपविधारिणः ॥
सकामिनो वैष्णवाश्च गत्वा वैकुण्ठमेव च ।भारतं पुनरायान्ति तेषां जन्म द्विजातिषु ॥
कालेन ते च निष्कामा भवन्त्येव क्रमेण च ।भक्तिञ्च निर्म्मलां बुद्धिं तेभ्यो दास्यति निश्चितम् ॥
हरिभक्ताश्च निष्कामाः स्वधर्म्मरहिता द्विजाः ।तेऽपि यान्ति हरेर्लोकं क्रमाद्भक्तिबलादहो ॥
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २४ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
