| YouTube Channel

विष्टिः (viSTiH)

 
Apte
English
विष्टिः [viṣṭiḥ],
f.
[विष्-क्तिन् क्तिच् वा]
Pervading.
An act, occupation.
Hire, wages.
Unpaid labour
दण़्ड- विष्टिकराबाधै रक्षेदुपहतां कृषिम् Kau.
A.
Sending.
Residence in hell to which one is condemned.
See विष्टिकारिन्
Mb.
* 12.59.41.
Comp.
-करः the lord of slaves, of unpaid labourers
Mb.
* 3.19.73. -कारिन् an unpaid forced labourer (Mar. वेठबिगार)
भारयष्टि- धरैश्चापि पुरुषैर्विष्टिकारिभिः Śiva B.3.23. -कर्मान्तिकः (= विष्टिकारिन्)
Rām.*
2.82.2.
Apte 1890
English
विष्टिः f. [विष्-क्तिन् क्तिच् वा] 1 Pervading.
2 An act, occupation.
3 Hire, wages.
4 Unpaid labour.
5 Sending.
6 Residence in hell to which one is condemned.
Wordnet
Sanskrit
Synonyms:
वेतनम्, वर्तनम्, भूतिः, कर्मण्या, विधा, भृत्या, भरण्यम्, भरणम्, मूल्यम्, निर्वेशः, पणः, विष्टिः, आजीवः, जीवनम्, वार्ता, जीविका
noun
कर्मदक्षिणा
सः अल्पं वेतनं गृहीत्वा कार्यं करोति। /"पणो देयो अवकृष्टस्य षडुत्कृष्टस्य वेतनम् [मनु. 7.126]"
शब्दकल्पद्रुमः
Sanskrit
विष्टिः,
स्त्री,
(विष + क्तिन् ।) वेतनं विना हठा-द्भारोद्वहनादिक्लेशः वेगार इति ख्यातः ।तत्पर्य्यायः आजूः इत्यमरः
हठाद-भृतिकः क्लेशो विजातरूपो विष्टिरिति भट्ट-स्वामी
द्वे वेतनमन्तरेण कर्म्मकरणे कर्म्म-कारिणि चेत्यन्ये त्रिषु कर्म्मकरे विष्टिः स्त्रिया-मभृतिकर्म्मणीति रुद्रः इति भरतः
*
(यथा, रामायणे ८२ २० ।“विष्टिकर्म्मान्तिकाः सर्व्वे मार्गशोधक-रक्षकाः
”)वेतनम् कर्म्म इति मेदिनी टे, २९
(यथा, भागवते, ५५ ।“वयमीशकिन्नरगणास्तवानुगादितिजेन विष्टिममुनानुकारिताः
”)भद्रा वर्षणम् इति विश्वः
प्रेषणम् इतिहेमचन्द्रः
सा भद्रा ववाद्येकादशकरणा-न्तर्गतसप्तमकरणं पञ्जिकायां तस्या अङ्कंशून्यम् यथा, --“ववबालवकौलवतैतिलगरबणिजाः सविष्टयः सप्त ।शकुनिचतुष्पन्नागाःकिन्तुघ्नश्च ध्रुवाणि करणानि
शुक्लादितिथिशेषार्द्धात् पञ्चमे तत्तुरीयके ।आद्यन्तार्द्धात् क्रमेण स्युरष्टावृत्त्या ववादयः
एकादश्याश्चतुर्थ्याश्च शोषार्द्धे शुक्लपक्षके ।अष्टमीपौर्णमास्योश्च पूर्व्वार्द्धे विष्टिरीरिता
कृष्णपक्षे तृतीयाया दशम्याश्च परार्द्धतः ।सप्तम्याश्च चतुर्द्दश्याः पूर्व्वार्द्धे विष्टिसम्भवः
विहाय विषरौद्राणि विष्टिं सर्व्वत्र वर्ज्जयेत् ।विष्टिशेषे त्रिदण्डे हि पुच्छे कार्य्यं जयावहम्
”कर्म्मप्रकाशे ।“नाड्यस्त पञ्च वदनं गलकस्तथैकावक्षो दशैकसहिता नियतं चतस्रः ।नाभिः कटिः षडथ पुच्छलता तिस्रोविष्टेर्ध्रवं निगदितोऽङ्गविभाग एषः
मुखे कार्य्यध्वस्तिर्भवति मरणं चाथ गलकेधनग्लानिर्वक्षस्यथ कटितटे बुद्धिविलयः ।कलिर्नाभीदेशे विजयमथ पुच्छे जगदुःशरीरे भद्रायाः पृथगिति फलं पूर्व्वमुनयः
मनुवसुमुनितिथियुगदश-शिवगुणसंख्यासु तिथिषु पूर्व्वाग्न्योः ।१४ १५ १० ११ ।आयाति विष्टिरेषा पृष्ठे शुभदा पुरस्त्व-शुभदा
”पूर्व्वाग्न्योः पूर्व्वाग्न्यादिदिङ्मुखी भवति इत्यर्थः
“एकेन हीना द्विगुणा तिथिस्तुसप्तावशिष्टं करणं ववादि ।पूर्व्वे परेऽप्येवमयं विशेषोद्विसंगुणा चन्द्रविवर्ज्जिता
किन्तुध्नसंज्ञं करणं प्रदिष्ट-मादेस्तिथेरादिदले सदैव ।उपान्त्यशेषे शकुनिस्तु दर्शेपूर्व्वे चतुष्पादपरे नागः
इन्द्रकमलजचित्रार्य्यमभूश्रियः सयमा ववादेः ।कलिवृषफणिमारुताः पतयः शकुन्यादेः
”ववाद्यधिपकथनम्
“पौष्टिकस्थिरशुभानि ववाख्येवालवे द्विजहिताद्यपि कर्म्म ।कौलवे प्रमदमित्रविधानंतैतिले शुभगताश्रयकर्म्म
गरे बीजाश्रयकर्षणानिबणिज्यपि स्थैर्य्यबणिक्क्रिया ।न सिद्धिमाप्नोति कृतञ्च विष्ट्यांविषाभिघातादिषु तत्र सिद्धिः
मन्त्रौषधानि शकुनौ सपौष्टिकानिगोविप्रराज्यपितृकर्म्म चतुष्पदे तु ।सौभाग्यदारुणकृतिध्रुवकर्म्मनागेकिन्तुघ्ननाम्नि शुभपौष्टिकमङ्गलानि
”इति ज्योतिस्तत्त्वम्
(यथा, कलाविलासे ११ ।“कश्चिद्वदति समेत्य द्रविणं निःक्षिप्य हन्त-गन्तास्मि ।भ्रातःपरं प्रभाते विष्टिदिनं किं करोम्यद्य
”)
विष्टिः, त्रि, (विष् + क्तिच् ।) कर्म्मकरः इतिमेदिनी टे, २९