| YouTube Channel

विषुणः (viSuNaH)

 
शब्दकल्पद्रुमः
Sanskrit
विषुणः,
पुं,
(विषु साम्यमस्मिन्नस्तीति “लोमा-दीति ।” १०० इति नः पश्चात्णत्वम् ।) विषुवम् यथा “विषु नानारूपंगमनं विष्वक् तदस्यास्तीति विग्रहे अगित्यु-त्तरपदलोपश्चाकृतसन्धेरिति पामादि सूत्रेणनः णत्वम् ।” इत्यमरटीकायां रामाश्रमः
(नानारूपम् यथा, ऋग्वेदे ५४ ।“चरत्पतत्त्रि विषुणं विजातम्
”“विषुणं विश्वक् नानारूपम् ।” इति तद्भाष्येसायणः
सर्व्वगः यथा, ऋग्वेदे २९ ।“बभ्रुरेको विषुणः ।”“विषुणः विश्वगञ्चनः ।” इति तद्भाष्ये सायणः
विप्रकीर्णः यथा, ऋग्वेदे १२ ।“सखायस्ते विषुणा अग्न एते ।”“विषुणाः विप्रकीर्णाः सर्व्वव्याप्ताः ।” इति तद्-भाष्ये सायणः
पराङ्मुखः यथा, ऋग्वेदे ।५ ३४ ।“वित्वक्षणः समृतौ चक्रमासजो-ऽसुन्वतो विषुणः सुन्वतो वृधः ।”“विषुणः पराङ्मुखः ।” इति तद्भाष्ये सायणः
)