| YouTube Channel

विषहरः (viSaharaH)

 
शब्दकल्पद्रुमः
Sanskrit
विषहरः, त्रि, (हरतीति हृ + अच् विषस्यहरः ।) गरलनाशकौषधादिः यथा ओँ ह्रँजः ।“मन्त्रोऽयं हरते रुद्र सर्व्ववृश्चिकगं विषम् ।पिप्पली नवनीतञ्च शृङ्गवेरञ्च सैन्धवम् ।मरीचं दधि कुष्ठञ्च नस्ये पाने विषं हरेत्
त्रिफला टङ्ककुष्ठञ्च चन्दनं घृतसंयुतम् ।एतत्पानाच्च लेपाच्च विषनाशो भवेच्छिव
पारावतस्य चाक्षीणि हरितालं मनःशिला ।एष योगो विषं हन्ति वैनतेय इवोरगान्
सैन्धवं व्युषणं चूर्णं दधिमध्वाज्यसंयुतम् ।वृश्चिकस्य विषं हन्ति लेपोऽयं वृषभध्वज
”इति गारुडे १८६ अध्यायः