विषमज्वर (viSamajvara)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishWilson
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiविषमज्वरः
विषम-ज्वरः -
कभी कम तथा कभी अधिक होने वाला बुखार
शब्दकल्पद्रुमः
Sanskritविषमज्वरः, (विषमः ज्वरः ।) ज्वररोगबिशेषः ।तस्य निदानकथनपूर्व्विकां संप्राप्तिमाह ।“दोषोऽल्पोऽहितसम्भूतो ज्वरोत्सृष्टस्य वा पुनः ।धातुमन्यतमं प्राप्य करोति विषमज्वरम् ॥
”अयमर्थः । ज्वरोत्सृष्टस्य ज्वरेण त्यक्तस्य ।सन्निकृष्टं लक्षणमाह । दोषः अल्पः ज्वरमुक्त्यास्वल्पोऽपि । विप्रकृष्टं हेतुमाह । अहित-माहारविहारादि तेन सम्भूतः संपूर्णो जातःअन्यतमं धातुं रसरक्तादिकं प्राप्य दूषयित्वापुनः विषमज्वरं करोति । ज्वरोत्सृष्टस्य वेतिवाशब्देनेति बोध्यते । प्रथमतोऽपि विषमज्वरोभवति । यत उक्तम् । आरम्भाद्विषमो यस्त्वि-त्यादिकम् । धातुं दूषयित्वा कं विषमज्वरंकरोतीत्यपेक्षायामाह ।“सन्ततं रसरक्तस्थः सततं रक्तधातुगः ।दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युः पिशिताश्रितः ॥
मेदोगतस्तृतीयेऽह्नि अस्थिमज्जगतः पुनः ।कुर्य्याच्चातुर्थकं घोरमन्तकं रोगसङ्करम् ॥
”अन्तकं अन्तकमिव मारकत्वात् ॥
* ॥
विषम-ज्वरस्य सामान्यलक्षणमाह ।“यः स्यादनियतात् कालाच्छीतोष्णाभ्यां तथैवच ।वेगतश्चापि विषमो ज्वरः स विषमः स्मृतः ॥
”यस्त्वनियतात् कालात् स्यादित्यस्यायमर्थः ।यथा, वातिको ज्वरः सप्तदिनानि पैत्तिको दशदिनानि श्लैष्मिको द्वादश दिनानि दोषाणांप्राबल्ये वातिकश्चतुर्द्दश दिनानि पैत्तिकोविंशतिदिनानि श्लैष्मिकश्चतुर्व्विंशतिदिनानिस्यात् तथा विषामज्वरो नियतं कालं व्याप्य नस्यादित्यर्थः । शीतोष्णाभ्यां गुणाभ्यां स्यात् ।“वेगतश्चापि विषमः कदाचिदपि वेगवान् ॥
”कदाचिदपि शान्तवेगः ॥
विषमज्वरस्य भेदा-नाह ।“सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ ।”तत्र सन्ततस्य लक्षणमाह ।“सप्ताहं वा दशाहं वा द्बादशाहमथापि वा ।सन्तत्या योऽविसर्गी स्यात् सन्ततः स निग-द्यते ॥
”विकल्पो वातिकादिभेदात् । सन्तत्या नैरन्त-र्व्येण अविसर्गी अपरित्यागी ॥
ननु मुक्तानु-बन्धित्वं विषमत्वमिति विषमलक्षणं तदत्र नघटत इति कथमयं विषमेषु पट्यते । घटत एवइति न दोषः । यत उक्तं चरकेण ।“विसर्गं द्वादशे कृत्वा दिवसेऽव्यक्तलक्षणम् ।दुर्ल्लभोपशमः कालं दीर्घमप्यनुवर्त्तते ॥
”यत्तु खरनादः ।“ज्वराः पञ्च च ये प्रोक्ताः पूर्व्वं सततकादयः ।चत्वारः सन्ततं हित्वा ज्ञेयास्ते विषमज्वराः ॥
”इति । तच्चिरेण त्यागाभिप्रायेण ॥
* ॥
सतत-लक्षणमाह ।“अहोरात्रे सततको द्बौ कालावनुवर्त्तते ।”द्वौ कालौ अहन्येककालं रात्रावेककालम् ।यतो दोषाणामहोरात्रे प्रत्येकं द्वौ द्वौ प्रकोप-कालौ । यत उक्तं वाग्भटेन ।“वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाःक्रमात् ।” इति ॥
अन्येद्युष्कलक्षणमाह ।“अन्येद्युष्कस्त्वहोरात्रादेककालं प्रवर्त्तते ।”एककालं दोषापेक्षया एककालमपि द्वितीयंप्रथमकाले हृद्येव दोषस्थितेः ॥
* ॥
तृतीयक-चतुर्थकयोर्लक्षणमाह ।“तृतीयकस्तृतीयेऽह्नि चतुर्थेऽह्नि चतुर्थकः ॥
”तृतीयेऽह्नि इत्यागमनदिनं गृहीत्वा । यतउक्तम् ।“दिनमेकमतिक्रम्य यो भवेत् स तृतीयकः ।दिनद्वयं त्वतिक्रम्य यः स्यात् स हि चतुर्थकः ॥
”इति ॥
अत्राह वृद्धसुश्रुतः ।“कफस्थानविभागेन यथासंख्यं करोति हि ।सततान्येद्युष्कत्र्याख्यचतुर्थकप्रलेपकान् ॥
अहोरात्रादहोरात्रात् स्थानात् स्थानं प्रप-द्यते ।दोष आमाशयं प्राप्य करोति विषमज्वरम् ॥
”अयमर्थः । आमाशयोरः कण्ठशिरःसन्धयः पञ्चकफस्थानानि एषु तिष्ठन् दोषो यथासंख्यंसततादीन् करोति । तत्रामाशये स्थितो दोषःसततं करोति द्वौ कालौ अहोरात्रे कालद्बयेदोषप्रकोपात् । हृदये स्थितो दोष आमाशय-मागत्य अन्येद्युष्कं करोति । एककालं नैकद्या-देकस्मिन्नेवाहोरात्रे दोष आमाशयमायाति ।तत्र द्वौ दोषकोपकालौ एकस्मिन् काले हृदयेतिष्ठत्यपरस्मिन्नामाशय इति । कण्ठे स्थितोदोषोऽहोरात्रात् हृदयमायाति । तृतीये दिनेआमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरंकरोति एककालं न तु द्वौ कालौ स्वभावात् ।एवं शिरःस्थितो दोषोऽहोरात्रात् कण्ठ-मायाति । ततः पुनरहोरात्रा द्धृदयमायातिचतुर्थदिने आमाशयमागत्य स्वप्रकोपकालेचतुर्थकं ज्वरं करोति । एककालं न तु द्वौकालौ स्वभावादेव ॥
* ॥
ननु दोषस्यागमन-क्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ-दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हिप्रकोपशमये वेगवत्तया लाघवात् स्वस्थानन्तुवेगदिन एव याति । यत आह ।“दोषः प्रकोपकाले हि वेगवत्त्वेन लाघवात् ।वेगवासर एवायं स्वस्थानमभिगच्छति ॥
”सन्धिषु स्थितः प्रलेपं करोति । सन्धयश्चामा-शयेऽपि सन्ति तेषु स्थितः प्रलेपकं सर्व्वदाकरोति ॥
* ॥
“निवृत्तः पुनरायाति विषमो नियते दिने ।स्वभावं कारणं तत्र मन्यन्ते मुनिपुङ्गवाः ॥
”स्वभावस्य कारणत्वे कफस्थानविभागनिरपेक्षा-श्चतुर्थकादिविपर्य्यया अपि ज्वराः स्वस्य कालेभवन्ति ।“अधिशेते यथा भूमिं वीजं काले प्ररोहति ।अधिशेते तथा धातून्दोषः काले प्रकुप्यति ॥
”सुश्रुतोऽप्याह ।“स चापि विषमो देहं न कदाचित् प्रमुञ्चति ।ग्लानिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ॥
वेगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते ।धात्वन्तरस्थो लीनत्वात् सौक्ष्मान्नैवोपलभ्यते ॥
”द्विदोषोस्त्वणस्य तृतीयकस्य लक्षणमाह ।“कफपित्तात्त्रिकग्राही पृष्ठाद्वातकफात्मकः ।वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृती-यकः ॥
”त्रिकग्राही वेदनया त्रिकं गृह्णाति इत्यर्थः ॥
* ॥
ननु कफपित्तात्त्रिकग्राही वेदनया त्रिकव्यापीत्रिकस्य वातस्थानं तत्कयं तद्गृहीतौ पित्त-कफौ अन्यस्थानगत्वेन दुर्ब्बलत्वेन दुर्ब्बलौ वेगंकुरुते । उच्यते दोषाणां स्थाननियमः न तुकुपितानाम् । तथा च सुश्रुतः ।“कुपितानां हि दोषाणां शरीरे परिधावति ।यत्र सङ्गः स वैगुण्याद्ब्याधिस्तत्रोपजायते ॥
”एवं अन्यस्थानगत्वेन चतुर्थकोऽपि वाच्यम् ।वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवतिइत्यर्थः । यव्लोपकर्म्मण्यधिकरणे चेति सूत्रेणपञ्चमी ॥
* ॥
कफोल्वणस्य वातोल्वणस्य चचतुर्थकस्य लक्षणमाह ।“चतुर्थको दर्शयति स्वभावं द्बिविधं ज्वरः ।जङ्घाभ्यां श्लैष्मिकः पूर्व्वं शिरसोऽनिलसंभवः ॥
”श्लैष्मिकः श्लेष्मोल्वणः तथा अनिलसंभवः वातो-ल्वणः । सन्ततादीनां त्रिदोषजत्वात् । उक्तञ्चचरकेण ।“प्रायशः सन्निपातेन पञ्च स्युर्व्विषमज्वराः ।”इति ।प्रायशो ग्रहणादेकदोषजाः द्विदोषजा अपिन भवन्ति इति जैज्जटः ॥
पूर्व्वं प्रथमं जङ्घाभ्यांव्यथया जङ्घे व्याप्य पश्चात् सकलं शरीरंव्याप्नोति । एवमुल्वणवातजातः शिरसः पूर्व्वंव्यथया शिरो व्याप्य सकलं शरीरं व्याप्नोती-त्यर्थः ।“विषमज्वर एवान्यश्चतुर्थकविपर्य्ययः ।अस्थिमज्जगतो दोषश्चतुर्थकविपर्य्ययः ॥
”अन्यः सन्ततादिपञ्चकादपरश्चतुर्थकविपर्य्ययाख्योज्वरः सोऽपि विषमज्वर एव । स किंधातुस्थइत्यपेक्षायामाह अस्थीत्यादि । तस्य चतुर्थक-विपर्य्ययस्य लक्षणमाह ।“स मध्ये ज्वरयत्यह्नीआद्यन्ते च विमुञ्चति ॥
”चतुर्थकविपर्य्यय इत्युपलक्षणम् । सततादि-विपर्य्ययोऽपि बोद्धव्यः । यथा, अहोरात्रे द्वौकालौ मुञ्चति शेषं सर्व्वमहोरात्रं तिष्ठतीतिसततविपर्य्ययः । अहोरात्रे एकं कालं मुञ्चतिशेषं सर्व्वमहोरात्रं तिष्ठति इत्यन्येद्युष्कविप-र्य्ययः । मध्ये एकं दिनं ज्वरयति आदावन्तेच दिने मुञ्चति इति तृतीयकविपर्य्ययः । एतेविषमज्वरा उपलक्षकाः अन्ये रात्रिज्वरा-दयोऽपि विषमज्वरा बोद्धव्याः ॥
यथा, --“समौ वातकफौ यस्य क्षीणपित्तस्य देहिनः ।रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्यतु ॥
”प्रायो बाहुल्येन ॥
* ॥
सन्ततादीनां शीत-पूर्व्वत्वे दाहपूर्व्वत्वे च हेतुमाह ।“त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतोज्वरम् ।तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति च ॥
”शीतं शीतसहितं प्रशान्तयोः प्रशान्तवेगयोः ।अन्तः अभ्यन्तरे ।“करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीव च ।तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः ॥
”अन्ततः हस्तपादादितः ॥
* ॥
शीतादिदाहा-दिज्वरयोस्त्रिदोषजत्वमाह ।“द्वावेतौ दाहशीतादी ज्वरौ संसर्गजौ स्मृतौ ।दाहपूर्व्वस्तयोः कष्टः सुखसाध्यतमोऽपरः ॥
”संसर्गजौ सान्निपातिकौ । कष्टः कष्टसाध्यः ॥
* ॥
विषमज्वरविशेषानाह ।“विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यवस्थिते ।तेनार्द्धं शीतलं देहं चार्द्धमुष्णं प्रजायते ॥
”अन्नरसे विदग्धे आहारजे रसे दुष्टे श्लेष्मपित्तेच व्यवस्थिते दुष्टे स्थिते तेन हेतुना शीतलंकफेन उष्णं पित्तेन अर्द्धत्वं चार्द्धनारीश्वरा-कारेण नरसिंहाकारेण वा ।“काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यवस्थितः ।तेनोष्णत्वं शरीरस्य शीतत्वं हस्तपादयोः ॥
”अन्ते हस्तपादादौ ।“काये श्लेष्मा यदा दुष्टः पित्तश्चान्ते व्यवस्थितः ।शीतत्वं तेन गात्रे स्यादुष्णत्वं हस्तपादयोः ॥
”विषमज्वरविशेषस्य प्रलेपकस्य लक्षणमाह ।“प्रलिम्पन्निव गात्राणि घर्म्मेण गौरवेण च ।मन्द्रज्वरविलेपी च सशीतः स्यात् प्रलेपकः ॥
”गौरवेण उपलक्षितः । मन्दज्वरविलेपी मन्द-वेगस्य ज्वरस्य सदा सम्बन्धोऽस्यास्तीति मन्द-ज्वरविलेपी अयं विषमज्वरः । यथा च सुश्रुतः ।प्रलेपकाख्यो विषमः प्रायः क्लेशाय शोषिणा-मिति ॥
* ॥
अथ विषमज्वराणां सामान्य-चिकित्सा ।“ज्वराश्च विषमाः सर्व्वे सन्निपातसमुद्भवाः ।अथोल्वणस्य दोषस्य तेषु कार्य्यं चिकित्सितम् ॥
विषमेष्वय कर्त्तव्यमूर्द्ध्वं वाधश्च शोधनम् ।स्निग्धोष्टैरन्नपानैश्च शमयेद्विषमज्वरम् ॥
* ॥
कालिङ्गकः पटोलस्य पत्रं कटुकरोहिणी ।पटोलं सारिवा मुस्तं पाठा कटुकरोहिणी ॥
निम्बः पटोलस्त्रिफला मृद्वीका मुस्तवत्सकौ ।किराततिक्तममृता चन्दनं विश्वभेषजम् ॥
गुडूच्यामलकं मुस्तमर्द्धश्लोकसमापनाः ।कषायाः शमयन्त्याशु पञ्च पञ्चविधज्वरम् ॥
”कालिङ्गकः इन्द्रयवः । वत्सकः कुटजः । चन्दन-मत्र रक्तचन्दनम् । कवायाः पञ्च । पञ्चविधंसन्ततसततान्येद्युष्कतृयीयचतुर्थकरूपम् ॥
* ॥
“महाबलामूलमहौषधाभ्यांक्वाथो निहन्याद्विषमज्वरं हि ।शीतं सकम्पं परिदाहयुक्तंविनाशयेत् द्वित्रिदिनं प्रयोगात् ॥
* ॥
क्षुद्रामृतानागरपुष्कराद्यैःकृतः कषायः कफमारुतोत्तरे ।सश्वासकासारुचिपार्श्वरुग्ज्वरेसदा त्रिदोषप्रभवेऽपि शस्यते ॥
” * ॥
क्षुद्रादि ॥
* ॥
“क्षुद्रामृतापद्मकचन्दनैर्घनै-र्भूनिम्बपर्पटपटोलपौष्करैः ।तिक्ताकलिङ्गपिचुमर्द्दवासकै-र्महौषधं भार्गिवितुन्नकैः समैः ॥
शृतं पिबेत् पूर्व्वदिनं कषायंनिहन्ति वृद्धज्वरमुग्रशीतम् ।सश्वासमूर्च्छारुचिदाहमुल्वणंतृषां वमिं कासमतीव शूलकम् ।आनाहहिक्कादिषु सन्निपातेगलग्रहे तन्द्रिशिरोरुहायाम् ॥
”बृहत्क्षुद्रादिविषमज्वरे ॥
* ॥
“मुस्तामलकगुडुचीविश्वौषधकण्टकारिक्वाथः ।पीतः सकणाचूर्णः समधुर्विषमज्वरं हन्ति ॥
* ॥
तिलतैललवणयुक्तकल्को लशुनसेवितः प्रातः ।विषमज्वरमपहरते वातव्याधीनशेषांश्च ॥
* ॥
कालाजाजी नु सगुडा विषमज्वरनाशिनी ।मधुनाढ्याभया लीढा हन्त्याशुविषमज्वरान् ॥
”कालाजाजी मगरैला इति लोके । सा चकिञ्चिद्भृष्टा गुडतुल्या कर्षमिता भक्षणीया । *“पीतो मरीचचूर्णेन तुलसीपत्रजो रसः ।द्रोणपुष्पीभवो वापि निहन्ति विषम-ज्वरान् ॥
* ॥
अमृतायाः शतं चूर्णं वाससा परिशोधितम् ।पृथक् षोडशभागाः स्युर्गुडमाक्षिकसर्पिषाम् ॥
यथाग्नि भक्षयेदेतन्नरो हितमिताशनः ।नास्य कश्चिद्भवेद्व्याधिर्न जरा पलितं न च ॥
न ज्वरा विषमा नैव मेहनानिलरक्तकम् ।न च नेत्रगता रोगाः परमेतद्रसायनम् ॥
मेघाकरं त्रिदोषघ्नं प्रयोगादस्य बुद्धिमान् ।जीवद्वर्षशतं साग्रं यथैवादितिजस्तथा ॥
”गुडूचीकल्कः ॥
* ॥
अथान्नमाह ।“तक्रमांसं पयोमांसं दधिमांसमथापि वा ।माषमांसञ्च भुञ्जानो मुच्यते विषमज्वरात् ॥
” *अग्निवेशश्च ।“सुरा समण्डा पानाय भोजने चरणायुधाः ।तित्तिरा विष्किराः पथ्याः कुक्कुटा विषमज्वरे ॥
चरणायुधा गृहकुक्कुटाः । कुक्कुटा वनकुक्कुटाः ।विष्किराः वर्त्तिकालावविगिरचकोराद्याः ॥
* ॥
अथ सन्ततादीनां विशिष्टा चिकित्सा ।“त्रायन्तीकटुकानन्तासारिवाभिः शृतं जलम् ।सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥
”अनन्ता दुरालभा ॥
* ॥
“पटोलाब्दविषातिक्तासारिवाभिः शृतं जलम् ।सन्तताख्ये ज्वरे देयं वातादीनां निवृत्तये ॥
”वृषा बृहद्दन्ती एरण्डवत्पत्रविटपा तदलाभेदन्ती च ग्राह्या समानगुणत्वात् ॥
* ॥
“पटोलेन्द्रयवानन्तापथ्यारिष्टामृताजलम् ।क्वथितं तज्जलं पीतं ज्वरं सन्ततकं जयेत् ॥
”अनन्ता सारिवा । अरिष्टः निम्बः । जलंबालकम् ॥
* ॥
“द्राक्षापठोलनिम्बाब्दशक्राह्वत्रिफलाशृतम् ।जलं जन्तुः पिबेच्छीघ्रमन्येद्युर्ज्वरशान्तये ॥
”शक्राह्वः इन्द्रयवः ॥
* ॥
“कर्म्मसाधारणं त्यक्त्वा तृतीयकचतुर्थकौ ।भिषजा प्रतिकर्त्तव्यौ विशेषोक्तचिकित्सितैः ॥
उशीरं चन्दनं मुस्तं गुडूचीधान्यनागरम् ।अम्भसा क्वथितं पेयं शर्करामधुयोजितम् ॥
* ॥
ज्वरे तृतीयके पुंसां तृष्णादाहसमन्विते ।अपामार्गजटां कट्यां लोहितैः स प्ततन्तुभिः ।बद्ध्वा वारे रवेस्तूर्णं ज्वरं हन्ति तृतीयकम् ॥
* ॥
स्थिरातामलकीदारुशिवावृषमहौषधैः ।सितामधुयुतः क्वाथश्चतुर्थकहरः परः ॥
”स्थिरा शालिपर्णी । तामलकी भूधात्री । शिवाहरीतकी । वृषो वासा ॥
* ॥
“अगस्तिपत्रस्य रसेन नस्यंनिहन्ति चातुर्थकमुग्रवीर्य्यम् ।शिरीषपुष्पस्य निशाद्वयस्यकल्केन वा तत्घृतसंयुतेन ॥
”तत् नस्यम् ॥
* ॥
“ज्वरस्य वेगकालञ्च चिन्तयन् ज्वर्य्यते तु यः ।तस्येष्टैरद्भुतैर्व्वापि विषयैर्नाशयेत् स्मृतिम् ॥
सन्ततं विषमञ्चापि क्षीणस्य सुचिरोत्थितम् ।ज्वरं सभोजनैः पथ्यैर्ज्वरघ्नैः समुपाचरेत् ॥
” * ॥
सततादिविपर्य्ययाणां विषमज्जराणां चिकित्सासततादीनामिव कर्त्तव्या ।“शीताभिभूते पुरुषे कुर्य्याच्छीतहरीं क्रियाम् ।दाहाभिभूते तु विधिं विदध्याद्दाहनाशनम् ॥
आच्छादनैर्ब्बहुतरैर्गुरुभिः कम्बलादिभिः ।तूलवत्या महाशीतं शीतादिज्वरिणो हरेत् ॥
”तूलवती तुलाई इति लोके ॥
“तं स्तनाभ्यां सुपीनाभ्यां पीवरोरुर्नितम्बिनी ।युवतिर्गाढमालिङ्गेत्तेन शीतं प्रशाम्यति ॥
कान्ताङ्गसङ्गसंजातं तस्य शीते निवारिते ।प्रह्लादं चास्य विज्ञाय पृथक् तां कारयेत्स्त्रियम् ॥
ततो दाहे तु संजाते पत्रैरेरण्डसम्भवैः ।शीतलैर्धारितैर्द्देहे दाहं तस्यापनोदयेत् ॥
तालकं शुक्तिकाचूर्णं तुल्यं तत्रोभयोरपि ।नवमांसञ्च तुत्थं स्यात् मर्द्दयेत् कन्यकाद्रवैः ॥
तत् तु संशुष्कमुपलैर्वन्यैर्गजपुटैः पचेत् ।शीतं तच्चूर्णयेच्चूर्णं गुञ्जामात्रं सितायुतम् ॥
प्रभाते भक्षयेत्तेन याति शीतज्वरक्षयम् ।वान्तिर्भवति कस्यापि कस्यापि न भवत्यपि ॥
एकेन दिवसेनैव शीतज्वरहरं परम् ।मध्याह्नसमये पथ्यं शिखरिणी भक्तकं च ॥
” * ॥
शीतज्वरे भूतभैरवचूर्णम् ।“एला जातीफलं व्योषत्रिफलाजीरकं घनः ।सविडङ्गं सितायुक्तं चूर्णं शीतज्वरापहम् ॥
कायस्थानाकुलीतिक्तावयस्थापुरचोरकैः ।सहदेवावचाकुष्ठैः शीतघ्नैर्धपलेपनैः ॥
एतैरेवौषधैः पिष्टैर्लवणक्षारसंयुतैः ।साम्लैर्व्विपाचितं तैलमभ्यङ्गाच्छीतनाशनम् ॥
”कायस्था हरितकी । नाकुली रास्ना । भेदसाईइति लोके । वयस्था गुडूची । पुरो गुग्गुलुः ।चोरकः । भटिउर । तदलाभे गटिवन । सह-देवा बृहद्वला । क्षारो यवक्षारः । काय-स्थादिधूपं लेपनं तैलञ्च ॥
“एरण्डस्य तु पत्राणि लिप्तभूमौ निधापयेत् ।दाहादिज्वरिणो देहे तानि पत्राणि धारयेत् ॥
तेन नश्यति दाहोऽस्य ज्वरश्चैवोपशाम्यति ।दाहे शान्ते यदा शैत्यं तच्च युक्त्या निवारयेत् ॥
जघनचक्रचलन्मणिमेखलासरसचन्दनचन्द्रविलेपना ।वनलतेव तरुं परिवेष्टयेत्प्रबलदाहनिपीडितमङ्गना ॥
”चन्द्रः कर्पूरः ।“तदङ्गसङ्गसंजातशैत्यैर्द्दाहे निवारिते ।प्रह्लादश्चास्य विज्ञाय तां स्त्रीमपनयेत् पुनः ॥
* ॥
सुवर्च्चिकानागरकुष्ठमूर्व्वा-लाक्षानिशालोहितयष्टिकाभिः ।सिद्धं हरेत् षड्गुणतक्रपङ्कंतैलं ज्वरं दाहसमन्वितञ्च ॥
”षट्तक्रतैलम् ॥
* ॥
“रास्नानागरकुष्ठचन्दननिशायष्ट्याह्वकृष्णावलालाक्षासैन्धवसारिवामधुरसादेवद्रुरोहीतकैः ।सोशीराम्बुधिफेनरौहिषजलैस्तैलं पचेत् षड्-गुणेतक्रेतच्छमयेज्ज्वरं दृढतरं दाहादिशीतादि-कम् ॥
”चन्दनमत्र श्वेतम् । मधुरसा मूर्व्वा । रोही-तकः रोहिणि इति लोके । रौहिषं रोहिसइति तृणविशेषः । जलं बालकम् । महाषट्-तक्रतैलम् ॥
* ॥
“पद्मकोत्पलकह्लारमृणालविषपौष्करैःकुमुदोशीरमञ्जिष्ठापद्मगैरिककट्फलैः ॥
सारिवाद्वयलोध्राब्दक्षीरीखर्ज्जुरमस्तकैः ।धात्रीशतावरीयुक्तैः क्वाथे कल्के प्रयोजितैः ॥
लाक्षारसपयः शुक्लमस्तुभिः सह काञ्जिकैः ।पक्वतैलमिदं त्वच्यं दाहज्वरहरं परम् ॥
”लाक्षारसादिः पृथक् तैलतुल्यः पद्मकादि-तैलम् ॥
* ॥
“प्रलेपके प्रयुञ्जीत श्लेष्मज्वरहरीं क्रियाम् ।रुद्रजटा गोशृङ्गं विडालविष्ठोरगस्य निर्म्मोकः ।मदनफलभूतकेश्यौ वंशत्वग्रुद्रनिर्म्माल्यम् ॥
धृतयवमयूरचन्द्रच्छगलकरोमाणि सर्षपाःसवचाः ।हिङ्गुगवास्थिमरीचाः समभागाश्छागमूत्र-संपिष्टाः ॥
धूपनविधिना शमयन्त्येते सर्व्वान् ज्वरान्नियतम् ।ग्रहडाकिनीपिशाचप्रेतविकारानयं धूपः ॥
”रुद्रजटा जटाधारी । भूतकेशी जटामांसी ।रुद्रनिर्म्माल्यं रुद्रनिर्म्माल्यपुष्पादि । मयूरचन्द्रःमयूरपुच्छचन्द्रकम् । माहेश्वरो धूपः ॥
* ॥
“सोमं सानुचरं देवं समातृगणमीश्वरम् ।पुजयन् प्रयतः शीघ्रं मुच्यते विषमज्वरात् ॥
”सोमं उमादिसहितम् । सानुचरं नन्द्यादिगण-सहितम् । प्रयतः पवित्रः ॥
* ॥
“विष्णुं सहस्रमूर्द्धानं चराचरपतिं विभुम् ।स्तुवन्नामसहस्रेण ज्वरान् सर्व्वान् व्यपोहति ॥
”सहस्रमूर्द्धानमिति सहस्रशीर्षेत्यादि वेदाभि-हितम् । नामसहस्रेण भारतोक्तेनेत्यर्थः ॥
* ॥
ज्वरस्यापि देवतात्वात् पूजा कार्य्या । यतआह विदेहः ।“तीर्थायतनदेवाग्निगुरुवृद्धोपसर्पणैः ।श्रद्धया पूजनैश्चापि सहसा शाम्यति ज्वरः ॥
”तीर्थं ऋषिजुष्टं जलम् । आयतनं देवाधिष्ठितंपुरुषोत्तमक्षेत्रश्रीशैलादि ॥
* ॥
“निम्बपत्रं वरा व्योषं यवानी लवणत्रयम् ।क्षारो दिग्वह्निरामेषुत्रिनेत्रक्रमशोऽंशकाः ॥
सर्व्वमेकीकृतं चूर्णं प्रत्यूषे भक्षयेन्नरः ।एकाहिकं द्व्यहिकञ्च तथा त्रिदिवसज्वरम् ॥
चातुर्थिकं महाघोरं सन्ततं सततं हि वा ।धातुस्थञ्च त्रिदोषोत्थं ज्वरं हन्ति च मान-वम् ॥
”निम्बादि चूर्णम् । इति विषमज्वराधिकारः ॥
इति भावप्रकाशः ॥
वाचस्पत्यम्
Sanskritविषमज्वर विषम उग्रो ज्वरः । ज्वरभेदे । यथोक्तं भावप्र०“तत्र विषमज्वरस्य निदानकथनपूर्विकां संप्राप्तिमाह“दोषोऽल्पोऽहितसम्भूतो ज्वरो सृष्टस्य वा पुनः ।धातुमन्यतमं प्राप्य वरोति विष० ज्वरम्” । अयमर्थःज्ज्वरोतसृष्टस्य ज्वरण त्यक्तस्य । सन्निकृष्टहेतुमाह । दोषःअल्पः, ज्वरमुक्तस्य स्वलोऽपि । विप्रकृष्टहेतुमाह । अहि-तमाहारविहारादि तेन सम्भूतः संपूर्णोजातः अन्यत-मन्धातुं रसरक्तादिकम् प्राप्य दूषयित्वा पुनर्विषमज्वरंकरोति ज्वरोतसृष्टस्य वेति वाशब्देनेति बोध्यते ।प्रथमतो विषमज्वरो भवति यत उक्तम् । “आरम्भा-द्विषमो यस्तु” इत्यादिकम् रसादिकन्धातुं दूषयित्वाकं विषमज्वरं करोति इत्यपेक्षयामाह “सन्ततं रसरक्तस्थःसतत रक्तधातुगः । दोषः क्रुद्धो ज्वरं पुंसां सोऽन्येद्युःपिशिताश्रितः । मेदोगतस्तृतीयेऽह्नि अस्थिमज्जागतःपुनः । कुर्य्याच्चातुर्थिकं घोरमन्तकं रोगसङ्करम्” ।अन्तकमिव मारकत्वात् । अथ विषमज्वरस्य सामान्यंलक्षणमाह “यः स्यादनियतात् कालात् शीतोष्णाभ्यांतथैव च । वेगतश्चापि विषमोज्वरः स विषमः स्मृतः” ।यः स्यादनियतात् कालादित्यस्यायमर्थः । यथा वाति-कोज्वरः सप्त दिनानि, पैत्तिको दश दिनानि, श्लैष्मिकोद्वादशदिनानि, दोषाणां प्राबल्यैर्वातिकश्चतुर्दशदिनानि, पैकिको विंशतदिनानि, श्लैष्मिकश्चतुर्विंशतिदिनानिस्यात् । तथा विषमज्वरो नियतं कालं व्याप्य न स्या-दित्यर्थः । शीतोष्णभ्यां गुणभ्यां स्यात् । “वेगतश्चापिविषमः कदाचिदतिवेगवान्” । कदाचिच्छान्तवेगः । वि-षमज्वरस्य भेदानाह “सन्ततः सततोऽन्येद्युस्तृतीयकचतुर्थकौ” । तत्र सन्ततस्य लक्षणमाह “सप्ताहं वादशाहं वा द्वादशाहमथापि वा । सन्तत्या योऽविसर्गीस्यात् सन्ततः स निगद्यते” । विकल्पो वातिकादिभेदात् ।सन्तत्था नैरन्तर्य्येण अविसग्र्गी अपरित्यागो । ननुसुक्तानुबन्धित्वं विषमत्वमिति विषमलक्षणम् । तदत्रन घटत इति कथमयं विषमेषु पठ्यते” । घटत एवेतिन दोषः । यत उक्तं चरकेण “विसर्गं द्वादशे कृत्वादिवसे व्यक्तलक्षणम् । दुर्लभोपशमः कालं दीर्घमेवानु-पर्त्तते” इति । यत्तु खरनादेनोक्तम “ज्वराः पञ्च तुये प्रोक्ताः पूर्वे सन्ततकादयः । चत्वारः सन्ततं हित्वाज्ञेयास्ते विषमज्वराः” इति तच्चिरेण त्यागाभिप्रायेण ।सततकक्षणमाह “व्यहोरात्रे सततको द्वौ कालावनु-वर्त्तते” । द्वौ कालौ अहन्येककालं रात्रावेककालम् ।यतो दोषाक्षागहोरात्ने प्रत्येकं द्वौ द्वौ प्रकोपकालौ ।यत उक्तं वाग्मटेन “वयोऽहोरात्रिभुक्तानामन्तमध्यादिकाःक्रमादिति” । अन्येद्युष्कलक्षणमाह । “अन्येद्युष्कस्त्र-होरात्रादेककालं प्रवर्त्तते” । एककालं दोषापेक्षयाएककालमपि न द्वितीयं, प्रथमकाले हृद्येव दाषस्थितेः ।तृतीयकचतुर्थकयीर्लक्षणमाह । “तृतीयकस्तृतीयेऽह्निचतुर्थेऽह्नि चतुर्थकः” । तृतीयेऽह्नि इत्यागमनदिनं गृ-हीत्वा यत उक्तम् “दिनमेकमतिक्रम्य यो भवेत् सतृतीयकः । दिनद्वयन्त्वतिक्रम्य यः स्यात् स हि चतु-र्थकः” इति । अत्राह वृद्धसुश्रुतः “कफस्थानविभागेनयथासङ्ख्यं करोति हि । सततान्येद्युष्कत्र्याख्य चतु-र्थकप्रलेपकान् । अहोरात्रादहोरात्रात् स्थानात् स्थानंप्रपद्यत । दोष आमाशयं प्राप्य करोति विषमज्वरम्” ।अयमर्थः आमाशयोरःकण्ठशिरःसन्धयः पञ्च कफ-स्थानानि एषु तिष्ठन् दोषो यथासङ्ख्यं संततादीन्करोति । तत्र आमाशये स्थितो दोषः सततं करोतिद्वौ कालौ, अहोरात्रे कालद्वये दोषप्रकोपात् । हृदयेस्थितो दोष आमाशयमागत्य अन्येद्युष्कं करोतिएककालं नैकट्यादेकस्मिन्नेवाहोरात्रे दोष आमाशयमा-गत्य अन्येद्युष्कं करोति । तत्र द्वौ दोषप्रकोपकालौएकस्मिन् काले हृदये तिष्ठत्यपरस्मिन्नामाशय इति ।कण्ठेस्थितो दोषोऽहोरात्रात् हृदयमायाति । तृतीयेदिने आमाशयमागत्य स्वप्रकोपकाले तृतीयकं ज्वरंकरोति एककालं न तु द्वौ कालौ स्वभावात् । एव-मेव शिरःस्थितो दोषः अहोरात्रात् कण्ठमायातिततः पुनरहोरात्रात् हृदयमायाति चतुर्थे दिनेआमाशयमागत्य स्वप्रकोपकाले चतुर्थकं ज्वरं करोतिएककालन्नतु द्वौ कालौ स्वभावादेव । ननु दोषस्यागमनक्रमेण निजस्थानगमनक्रमात् कथं तृतीयचतुर्थ-दिवसयोर्ज्वरागमनम् । उच्यते । दोषो हि प्रकोप-समये वेगवत्तया लाघवात् स्वस्थानन्तु वेगदिन एवयाति । यत आह “दोषः प्रकोपकाले हि वेगवत्त्वेनलाघवात् । वेगवासर एवायं स्वस्थानमधिगच्छति” ।सन्धिषु स्थितः प्रलेपकं करोति । सन्धयश्चामाशयेऽपिसन्ति तेषु स्थितः प्रलेपकं सर्वदा करोति “निवृत्तःपुनरायाति विषमो नियते दिने । स्वमावः कारणंतत्र मन्थन्वे मुनिपुङ्गवाः” । स्वभावस्य कारणत्वे कफ-स्वानविभागनिरपेक्षाश्चतुर्थकादिविपर्य्यया अपि ज्वराःस्वस्वकाले प्रभवन्ति अधिशेते यथा मूमिं वीजं कालेप्ररोहति । अधिशेते तथा धातून् दोषः काले प्रकुप्यति” ।सुश्रुतोऽप्याह “स चापि विषमं देहं न कदाचित् प्रमु-ञ्चति । ग्लनिगौरवकार्श्येभ्यः स यस्मान्न प्रमुच्यते ।येगे तु समतिक्रान्ते गतोऽयमिति लक्ष्यते । धात्वन्त-रेषु लोनत्वात् सौक्ष्म्यान्नैवोपलभ्यते” । द्विदोषोल्वणस्यतृतीयकस्य लक्षणमाह “कफपित्तात् त्रिकग्राही पृष्ठा-द्वातकफात्मकः । वातपित्ताच्छिरोग्राही त्रिविधः स्यात्तृतीयकः” । त्रिकग्राही वेदनया त्रिकं गृह्णातीत्यर्थः ।ननु कफपित्तात् त्रिकग्राही वेदनया त्रिकव्यापी त्रिकंतु वातस्थानं तत्कथं तद्गृह्णीतः पित्तकफौ अन्यस्थान-गत्वेन दुर्बलत्वात् दुर्बलौ च कथं वेगं कुरुतः, दोषाणांस्थाननियमः न तु कुपितानां तथा च सूश्रुतः “कुपितानांहि दोषाणां शरीरे परिधायति । यत्र सङ्गः स वैगु-ण्यात् व्याधिस्तत्रोपजायते” । एवमन्यस्थानगत्वेन चतुर्थकोवाच्यः । वातकफात्मकः पृष्ठात् व्यथया पृष्ठं व्याप्य भवती-त्यर्थः । “ल्यव्लोपे कर्मण्यधिकरणे च” पा० सूत्रेण पञ्चमी ।कफोल्वणस्य वातोल्वणस्य चतुर्थकस्यलक्षणमाह “चतु-र्थका दर्शयति स्वभावं द्विविधं ज्वरः । जङ्घाभ्यांश्लैष्मिकः पूर्वं शिरसोऽनिलसम्भवः । मध्यकायन्तु गृ-ह्णाति पूर्वं यस्तु स पित्तजः । विषमज्वर एवान्यश्चतु-र्थकविपर्य्ययः” । श्लैष्मिकः श्लेष्मोल्वणः । तथा अनि-लसम्भवो वातोल्वणः सन्ततादीनां त्रिदोषजत्वम् । यतउक्तं चरके “प्रायशः सन्निपातेन पञ्च स्युर्विषमज्वराः”इति । प्रायशोग्रहणादे कदोषजा द्विदोषजा अपि भव-न्तीति जैज्जटः । पूर्वं प्रथमं जङ्घाभ्याम् व्यथयाजङ्घे व्याप्य पश्चात् सकलं शरीरं व्याप्नोति । एव-मुल्वखवातजातः शिरणः पूर्वं व्यथया शिरोव्याप्य स-कलं शरीरं व्याप्नोनीत्यर्थः । “विषमज्वर एवान्थश्चातु-र्थकविपर्य्ययः । अस्थिमज्जगतो दोषश्चातर्थकविपर्य्ययः ।जायते भिषजा ज्ञेयो विषमज्वर एव सः” । अन्थः सन्त-तादिपञ्चकादपरः चातुर्थकविपर्थ्ययाख्यो ज्वरः सोऽपिविषमज्वर एव वैद्येन ज्ञातव्यः । स किं धातुस्थ इत्य-पेक्षयामाह अस्थीत्यादि । तस्य चातुर्थकविपर्य्ययस्यलक्षणमाह “स मध्ये ज्वरयत्यह्नी आद्यन्ते च विमु-चति” । चतुर्थकविपर्य्ययः इत्युपलक्षणम् सन्ततादि-विपर्य्ययोऽपि बोद्धव्यः । यथा अहोरात्रे द्वौ कालौसुतति शेषं सर्वमहोरात्रं तिष्ठतीति सततविपर्य्ययः ।अहोरात्रे एकखालं मुञ्चति शेषं सर्वमहोरात्रं तिष्ठतिअन्येद्युष्कविपर्य्ययः मध्ये एकं दिनं ज्वरयति आ दाव न्तेच मुञ्चतीति तृतीयकविपर्य्ययः । एते विषमज्वरोपल-क्षकाः अन्ये रात्रिज्वरादयोऽपि विषमज्वरा बोद्धव्याःयथा “समौ वातकफो यस्य क्षोणपित्तस्य देहिनः ।रात्रौ प्रायो ज्वरस्तस्य दिवा हीनकफस्य तु” । प्रायःबाहुल्येन । सन्ततादीनां शीतपूर्वत्वे दाहपूर्वत्वे च हेतु-माह “त्वक्स्थौ श्लेष्मानिलौ शीतमादौ जनयतो ज्व-रम् । तयोः प्रशान्तयोः पित्तमन्तर्दाहं करोति चं ।शीतं शीतसहितम् । प्रशान्तयोः प्रशान्तवेगयोः अन्तःअभ्यन्तरे । “करोत्यादौ तथा पित्तं त्वक्स्थं दाहमतीवच । तस्मिन् प्रशान्ते त्वितरौ कुरुतः शीतमन्ततः” ।अन्ततः हस्तपादादितः । शीतादिदाहादिज्वरयोःत्रिदोषजत्वमाह “द्वावेतौ दाहशीतादिज्वरौ संसर्गजोस्मृतौ । दाहपूर्वस्तयोः कष्टः सुखसाध्यतमोऽपरः” ।संसर्गजौ मान्निपातिकौ । कष्टः कष्टसाध्यः । विषम-ज्वरविशेषमाह “विदग्धेऽन्नरसे देहे श्लेष्मपित्ते व्यव-स्थिते । तेनार्द्धं शीतलं देहमूर्द्धमुष्णं प्रजायते” ।अन्नरसे विदग्धे आहारजे रसे दुष्टे, देहे श्लेष्मपित्तेव्यवस्थिते दुष्टे स्थिते । तेन हेतुना शीतलं कफेनउष्णं पित्तेन, अर्द्धत्वं चार्द्धनारीश्वराकारेण नरसिंहाकारेण वा । “काये दुष्टं यदा पित्तं श्लेष्मा चान्ते व्यव-स्थितः । तेनोष्णत्वं शरीरस्व शीतत्थं हस्तपादयोः” ।अन्ते हतपादादौ “काये श्लेष्मा यदा दुष्टः पित्तचान्ते व्यवस्थितम् । शीतत्वं तेन गात्रे स्यादुष्णत्वंहस्तपादयोः” । विषमज्वरविशेषस्य प्रलेपकस्य लक्षण-माह “प्रलिपन्निव गात्राणि घर्मेण गौरवेण च । मन्द-ज्वरविलेपी च स शींतः स्यात् प्रलेपकः” । गोरवेणउपलक्षितः । मन्दज्वरविलेपी मन्दवेगस्य विलेपः सदासम्बन्धोऽस्यास्तीति मन्दज्वरपिलेपी । अथं विषमज्वरः ।तथा च सुश्रुतः “प्रलेपसाख्यो विषमः प्रायशःक्लेशशोषिणाम् । ज्वराश्च विषमाः सर्वे प्रायः क्लेशायशोषिणाम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
