| YouTube Channel

विषमं (viSamaM)

 
शब्दकल्पद्रुमः
Sanskrit
विषमं, त्रि, असमानम् यथा, मनुः ।“भ्रातॄणामविभक्तानां यद्युत्थानं भवेत् सह ।न तत्र भागं विषमं पिता दद्यात् कथञ्चन
”इति दायतत्त्वम्
(सङ्कटः यथा, गीतायाम् ।“कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्
”अनतिक्रमणीयः यथा, साहित्यदर्पणे १० ।“का विषमा दैवगतिः किं दुर्ग्राह्यं जनः खलोलोके
”)
विषमं,
क्ली,
पद्यस्य त्रिविधवृत्तान्तर्गतवृत्तविशेषः
यथा, --“पद्यं चतुष्पदी तच्च वृत्तं जातिरिति द्बिधा ।वृत्तमक्षरसंख्यातं जातिर्मात्राकृता भवेत्
सममर्द्धसमं वृत्तं विषमञ्चेति तत्त्रिधा ।समं समचतुष्पादं भवत्यर्द्धसमं पुनः
आदिस्तृतीयवद्यस्य पादस्तूर्य्यो द्वितीयवत् ।भिन्नचिह्नचतुष्पादं विषमं परिकीर्त्तितम्
”इति छन्दोमञ्जर्य्यां प्रथमस्तवकः
वर्गमूलोक्तोर्द्ध्वरेखा यथा, --“त्यक्त्वान्त्याद्बिषमात् कृतिं द्विगुणयेन्मूलं समेतद्धृतेत्यक्त्वा लब्धकृतिन्तदाद्यविषमाल्लब्धं द्विनिघ्नंन्यसेत् ।पङ्क्त्यां पङ्क्तिहृते समेऽन्यविषमात् त्यक्त्वाप्तवर्गंफलंपङ्क्त्यान्तद्द्विगुणं न्यसेदिति मुहुः पङ्क्तेर्दलंस्यात् पदम्
”इति लीलावती
(अर्थालङ्कारविशेषः यथा, साहित्यदर्पणे ।१० ।“यद्वारब्धस्य वैकल्यं अनर्थस्य सम्भवः ।विरूपयोः सङ्घटना या तद्विषमं मतम्
”उदाहरणम् ।“क्व वनं तरुवल्कभूषणंनृपलक्ष्मीः क्व महेन्द्रवन्दिता
”)