| YouTube Channel

विषघ्नः (viSaghnaH)

 
Wordnet
Sanskrit
Synonyms:
विषघ्नः
noun
बृहद्गोलम् इव एकस्याः वल्लर्याः अतीव शोभनं फलम्।
"विषघ्नः अतीव कटुः भवति।"
शब्दकल्पद्रुमः
Sanskrit
विषघ्नः,
पुं,
(विषं हन्तीति हन + टक् ।) शिरीष-वृक्षः इति शब्दचन्द्रिका
यवासः विभी-तकः इति राजनिर्घण्टः
चम्पकवृक्षः इतिजटाधरः
विषनाशके, त्रि
(यथा, मनुः ।७ २१८ ।“विषघ्नैरगदैश्चास्य सर्व्वद्रव्याणि योजयेत् ।विषघ्नानि रत्नानि नियतो धारयेत् सदा
”)विषघ्नौषधानि यथा, --मनुरुवाच ।“रक्षोघ्नानि विषघ्नानि यानि धार्य्याणि भूभुजा ।अगदादि समाचक्ष्व तानि धर्म्मभृतांवर
मत्स्य उवाच ।विल्वाढकायवक्षारं पाटला वाह्लिकोषणा ।श्रीपर्णी शल्लकीयुक्ता निष्काथ्य प्रोक्षणं परम् ।सविषं प्रोक्षितं तेन सद्यो भवति निर्व्विषम्
यवसेन्धनपानीयवस्त्रशय्यासनोदनम् ।कवचाभरणं छत्रं बालव्यजनवेश्मनी
शेलुः पाटल्यतिविषा गोपी भार्गी पुनर्नवा ।समङ्गावृक्षमूलत्वक्कपित्थवृषशोणितम् ।सहदन्तशठन्तद्वत् प्रोक्षणं विषनाशनम्
लाक्षा प्रियङ्गु मञ्जिष्ठा सममेला हरेणुका ।सयष्ट्या मधुना युक्ता वभ्रुपित्तेन कल्किता
निखनेद्गोविषाणस्थं सप्तरात्रं महीतले ।ततः कृत्वा मणिं हेम्ना बद्धं हस्तेन धारयेत् ।संस्पृष्टं सविषन्तेन सद्यो भवति निर्व्विषम्
मनो जलं शमीपुष्पं दुर्द्धर्षा चैव कर्षकाः ।कपित्थकुष्ठमञ्जिष्ठाः पित्तेन श्लक्ष्णकल्किताः
शुनो गोः कपिलायाश्च सौम्याख्येयापरोऽगदः ।विषजित् परमं कार्य्यं मणिरत्नञ्च पूर्व्ववत् ।मूषिका जतुका वापि हस्ते बद्धा विषापहा
हरेणु मांसी मञ्जिष्ठा रजनी मधुका मधु ।अक्षत्वक् सुरसं लाक्षाम्बुपित्तं पूर्व्ववद्भुवि
वादित्राणि पताकाश्च पिष्टैरेतैः प्रलेपिताः ।श्रुत्वा दृष्ट्वाथ चाघ्राय सद्यो भवति निर्व्विषः
५त्र्युषणं पञ्चलवणं मञ्जिष्ठा रजनीद्वयम् ।सूक्ष्मैला त्रिवृतापत्रं विडङ्गमिन्द्रवारुणी
मधुकं वेतसं क्षौद्रं गोविषाणे निधापयेत् ।तस्मादुष्णाम्बुना मात्रा प्रागुक्तं योजयेत्तथा ।विषं भुक्तं जारयति निर्व्विषेऽपि दोषकृत्
सक्तुं सर्ज्जरसोपेतं सर्षपा एलवालुकैः ।सुवर्णा तस्करतरोः कुसुमैरर्ज्जुनस्य तु
धूपो वासगृहे हन्ति विषं स्थावरजङ्गमम् ।न तत्र कीटाः सविषा दर्द्दरसरीसृपाः ।न कृत्या कर्म्मणस्तत्र धूपोऽयं यत्र दह्यते
कल्कितैश्च तृणक्षीरपलाशद्रुमवल्कलैः ।दूर्व्वैलवालुसुरसानाकुलीतण्डुलीयकैः ।क्वाथः सर्वौदकार्थेषु काकमाचीयुतैर्वृतः
रोचनापत्रनेपालीकुङ्कुमैस्तिलकोऽन्वहम् ।विषैर्न वाध्यते स्याच्च नरनारीनृपप्रियः
चूर्णैर्हरिद्रामञ्जिष्ठाकिणिहीकणनिम्बजैः ।दिग्धं निर्व्विषतामेति गात्रं सर्व्वविषार्द्दितम्
१०शिरीषस्य फलं पत्रं पुष्पं त्वङ्मूलमेव ।गोमूत्रघृष्टो ह्यगदः सर्व्वकर्म्मकरः स्मृतः
११ *एकवीरमहौषध्यः शृणु चातः परं द्बिज ।बन्ध्याकर्कोटकी राजन् विष्णुक्रान्ता तथोत्कटा ।शतमूली शतानन्दी वला मोचा पटोकिला
सोमा पिण्डनिशा चैव तथा दग्धरुहा या ।स्थले कमलिनी या विशाली शङ्खमूलिका
चण्डाली हस्तिचण्डाली गोचण्डाली चगन्धिका ।रक्ता चैव महारक्ता तथा वर्हिशिखा या ।कोषातकी नक्तमाला पियाला शुभलक्षणा ।वारणा सुगन्धा तथा वै गन्धनाकुली
ईश्वरी शिलीन्ध्री सोमली वंशतालिका ।जतुकाली महाश्वेता श्वेता मधुयष्टिका
वर्जटः पारिभद्रश्च तथा वै सिन्धुवारिका ।जीवानन्दा वसुमती नर्त्तनागरकण्टकी
तालता जालपाताला तथा वटपत्रिका ।कार्त्तक्षीरी महानीला कट्टरं हंसपादिका
मण्डूकपर्णी वाराही द्वे तथा तण्डुलीयके ।सर्पाक्षी लवणा ब्राह्मी विश्वरूपा सुखङ्करी
रजापहा वृद्धिकरी तथा शल्यापहा या ।पत्रिका रोहिणी चैव रक्तमाला महौषधी
तथामलकवन्दाकं या चित्रा पटोलिका ।काकोली क्षीरकाकोली पीलुपर्णी तथैव
केशिनी वृश्चिकाली महानागा शतावरी ।तथा गरुडवेगा स्थले कुमुदिनी तथा
स्थले चोत्पलिनी या महाभूमिलता या ।उन्मादिनी सोमराजी सर्व्वरत्नानि पार्थिव
विशेषान्मरकतान्यत्र कीटपक्षं विशेषतः ।जीवजाताश्च मणयः सर्व्वे धार्य्या विशेषतः
*
रक्षोघ्नाश्च यशस्याश्च कृत्या वेतालनाशनाः ।विशेषान्नरनागाश्च गोखरोष्ट्रसमुद्भवाः
सर्पतित्तिरिगोमायुवभ्रुमण्डूकजाश्च ये ।सिंहव्याघ्रर्क्षमार्ज्जारद्वीपिवानरसम्भवाः
कपिञ्जलाजगोधाहिमहिषेषु भवाश्च ये
इत्येवमेतैः सकलैरुपेतै-र्द्रव्यैश्च सर्व्वैः स्वपुरं सुरक्षितम् ।राजा वसेत्तत्र गृहञ्च शुभ्रंगुणान्वितं लक्षणसंप्रयुक्तम्
”इति मात्स्ये १९२ अध्यायः
(तण्डुलीयः तत्पर्य्यायो यथा अथ वराइ ।अल्पमरुसा इति ।“तण्डुलीयो मेघनादः काण्डेरस्तण्डुलेरकः ।भण्डीरस्तण्डुलीबोजो विषघ्नश्चाल्पमारिषः
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)