विषः (viSaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritविषः, (विष + कः ।) विषम् । तत्पर्य्यायः ।क्ष्वेडः २ गरलम् ३ । इत्यमरः ॥
आहेयम् ४अमृतम् ५ गरदम् ६ कालकूटम् ७ कलाकूलम्८ हारिद्रम् ९ रक्तशृङ्गिकम् १० नीलम् ११गरम् १२ घोरम् १३ हालाहलम् १४ हला-हलम् १५ शृङ्गी १६ भूगरम् १७ । इति राज-निर्घण्टः ॥
जाङ्गलम् १८ तीक्ष्णम् १९ रसः २०रसायनम् २१ गरः २२ । इति जटाधरः ॥
जङ्गुलम् २३ जाङ्गुलम् २४ । इति शब्दरत्ना-वली ॥
काकोलः २५ वत्सनाभः २६ प्रदीपनः२७ शौल्किकेयः २८ ब्रह्मपुत्त्रः २९ । इतिरत्नमाला ॥
तद्भेदा यथा, --“पुंसि क्लीवे च काकोलकालकूटहलाहलाः ।सौराष्ट्रिकः शौल्किकेयो ब्रह्मपुत्त्रः प्रदीपनः ॥
दारदो वत्सनाभश्च विषभेदा अमी नव ॥
”इति पातालवर्गे अमरः ॥
* ॥
अपि च ।“विषः क्ष्वेडो रसस्तीक्ष्णं गरलोऽथ हला-हलः ।वत्सनाभः कालकूटो ब्रह्मपुत्त्रः प्रदीपनः ॥
सौराष्ट्रिकः शौल्किकेयः काकोलो दारदोऽपिच ।अहिच्छत्रो मेषशृङ्गकुष्ठवालूकनन्दनाः ॥
कैराटको हैमवतो मर्कटः करवीरकः ।सर्षपो मूलको गौरार्द्रकः सक्तुककर्द्दमौ ॥
अङ्कोल्लसारः कालिङ्गः शृङ्गिको मधुसिक्थकः ।इन्द्रो लाङ्गलिको विस्फुलिङ्गपिङ्गलगौत्तमाः ।मुस्तको दालवश्चेति स्थावरा विषजातयः ॥
”इति हेमचन्द्रः ॥
अथ विषस्य नामलक्षणगुणाः ।“विषं तु गरलं क्ष्वेडस्तत्तद्भेदानुदाहरेत् ।वत्सनाभः सहारिद्रः सक्तुकश्च प्रदीपनः ॥
सौराष्ट्रिकः शृङ्गकश्च कालकूटस्तथैव च ।हालाहलो ब्रह्मपुत्त्रो विषभेदा अमी नव ॥
”तत्र वत्नाभस्य स्वरूपनिरूपणम् ।“सिन्धुवारसदृकपत्रो वत्सनाभ्याकृतिस्तथा ।यत्पार्श्वे न तरोवृद्धिर्व्वत्सनाभः स भाषितः ॥
”अथ हारिद्रस्य स्वरूपम् ।“हरिद्रातुल्यमूलो यो हारिद्रः स उदाहृतः ॥
”अथ सक्तुकस्य स्वरूपम् ।“यद्ग्रन्थिः सक्तुकेनैव पूर्णमध्यः स सक्तुकः ॥
”अथ प्रदीपनस्य स्वरूपम् ।“प्रदीपलोहितो यः स्याद्दीप्तिमान् दलनप्रभः ।महादाहकरः पूर्व्वैः कथितः स प्रदीपनः ॥
”अथ सौराष्ट्रिकस्य स्वरूपम् ।‘सुराष्ट्रविषये यः स्यात् स सौराष्ट्रिकउच्यते ॥
’अथ शृङ्गकस्य स्वरूपम् ।“यस्मिन् गोशृङ्गके बद्धे दुग्धं भवति लोहितम् ।स शृङ्गक इति प्रोक्तो द्रव्यतत्त्वविशारदैः ॥
”अथ कालकूटस्य स्वरूपम् ।“देवासुररणे देवैर्हतस्य पृथुमालिनः ।दैत्यस्य रुधिराज्जातस्तरुरश्वत्थसन्निभः ॥
निर्यासः कालकूटोऽस्य मुनिभिः परिकीर्त्तितः ।सोऽहिच्छत्रे शृङ्गवेरे कोकणे मलये भवेत् ॥
”अथ हालाहलस्य स्वरूपम् ।“गोस्तनाभफलो गुच्छस्तालपत्रच्छदस्तथा ।तेजसा यस्य दह्यन्ते समीपस्था द्रुमादयः ॥
असौ हालाहलो ज्ञेयः क्रिष्किन्धायां हिमा-लये ।दक्षिणाब्धितटे देशे कोकणेऽपि च जायते ॥
”अथ ब्रह्मपुत्त्रस्य स्वरूपम् ।“वर्णतः कपिलो यः स्यात् तथा भवति साधकः ।ब्रह्मपुत्त्रः स विज्ञेयो जायते मलयाचले ॥
ब्राह्मणः पाण्डरस्तेषु क्षत्त्रियो लोहितप्रभः ।वैश्यः पीतोऽसितः शूद्रो विष उक्तश्चतुर्विधः ॥
रसायने विषं विप्रं क्षत्त्रियं देहपुष्टये ।वैश्यं कुष्ठविनाशाय शूद्रं दध्याद्वधाय हि ॥
”अथ विषस्य गुणाः ।“विषं प्राणहरं प्रोक्तं व्यवायि च विकासि च ।आग्नेयं वातकफहृद्योगवाहिमदावहम् ॥
”व्यवायि सकलकायगुणव्यापनपूर्व्वकपाकागमन-शीलम् । विकासि ओजःशोषणपूर्व्वकं सन्धि-बन्धशिथिलीकरणशीलम् । आग्नेयं अधिका-ग्न्यंशम् । योगवाहि संसर्गगुणवाहकम् ।“मदावहं तमोगुणाधिक्येन बुद्धिविध्वंसकम् ।तदेव युक्तियुक्तन्तु प्राणदायि रसायनम् ॥
योगवाहि परं वातश्लेष्मजित् सन्निपातहृत् ।योगवाहि त्रिदोषघ्नं बृंहणं वीर्य्यवर्द्धनम् ॥
ये दुर्गुणा विषेऽशुद्धे ते स्युर्हीना विशोधनात् ।तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥
”अथोपविषाणां निरूपणम् ।“अर्कक्षीरं स्नुहीक्षीरं तथैव कलिहारिका ।करवीरोऽथ धुस्तूरः पञ्च चोपविषाः स्मृताः ॥
”उपविषा गौणविषाः । एषां गुणास्तत्र तत्रद्रष्टव्याः । अपि च ।“अर्कक्षीरं स्नुहीक्षीरं लाङ्गली करवीरकः ।गुञ्जाहिफेनो धुस्तूरः सप्तोपविषजातयः ॥
”एतेषां शोधनं चिन्त्यम् । गुणास्तत्र द्रष्टव्याः ॥
अथ विषाणां शोधनविधिः ।“गोमूत्रे त्रिदिनं स्थाप्यं विषं तेन विशुद्ध्यति ।रक्तसर्षपतैलाक्तं तथा धार्य्यञ्च वाससि ॥
येगुणा गरले प्रोक्तास्ते स्युर्हीना विशोधनात् ।तस्माद्विषं प्रयोगेषु शोधयित्वा प्रयोजयेत् ॥
”इति भावप्रकाशे पूर्व्वखण्डः ॥
अथ विषाधिकारः । तत्र विषस्य द्वैविध्य-माह ।“स्थावरं जङ्गमञ्चैव द्विविधं विषमुच्यते ।दशाधिष्ठानमाद्यन्तु द्बितीयं षोडशाश्रयम् ॥
”स्थावरविषस्य दशाश्रयानाह ।“मूलं पत्रं फलं पुष्पं त्वक् क्षीरं सारमेव च ।निर्यासो धातवस्कन्दः स्थावरस्याश्रया दश ॥
”तद्यथा । मूलविषं करवीरादि १ । पत्रविषंविषपत्रिकादि २ । फलविषं कर्कोटकादि ३ ।पुष्पविषं वेत्रादि ४ । त्वकसारनिर्यासविषाणिकरम्भादीनि ५ । ६ । ७ । क्षीरविषं स्नुह्यादि८ । धातुविषं हरितालादि ९ । कन्दविषं वत्स-नाभसक्तुकादि १० ॥
* ॥
जङ्गमविषस्य षोडशाश्रयानाह ।“दृष्टिनिश्वासदंष्ट्राश्च नखमूत्रमलानि च ।शुक्रं लाला मुखं स्पर्शः संदंश श्चावमर्द्दितम् ।गुदास्थिपित्तशूकानि दश षट् जङ्गमाश्रयाः ॥
”तद्यथा । दृष्टिनिश्वासविषा दिव्याः सर्पाः १ । २ ।दंष्ट्राविषाः भौमाः सर्पाः ३ । दंष्ट्रानखविषाव्याघ्रादयः ४ । मूत्रपुरीषविषा गृहगोधिका-दयः ५ । ६ । शुक्रविषा मूषिकादयः ७ । लालाविषाउच्चिटङ्गादयः ८ । लालास्पर्शमूत्रपुरीषार्त्तव-शुक्रमुखसंदंशदंष्ट्रास्पर्शावमर्द्दितगुदपुरीषविषा-श्चित्रशीषादयः ९ । १० । ११ । १२ । १३ । अस्थिविषाःर्पादयः १४ । पित्तविषा नकुलमत्स्यादयः १५ ।शूकविषा भ्रमरादयः १६ ॥
* ॥
स्थावराविषाणांसामान्यानां कार्य्याण्याह ।“स्थावरन्तु ज्वरं हिक्कां दन्तहर्षं गलग्रहम् ।फेनच्छर्द्यरुचिश्वासमूर्च्छाञ्च कुरुते विषम ॥
”आश्रयभेदेन विशिष्टानां विषाणां कार्य्या-ण्याह । तत्र मूलविषस्य कार्य्यमाह ।“उद्वेष्टनं मूलविषैर्मोहः प्रलपनं भवेत् ॥
”पत्रविषस्य कार्य्यमाह ।“जृम्भणं वेपनं श्वासो नृणां पत्रविषैर्भवेत् ॥
”फलविषस्य कार्य्यमाह ।“शुष्कशोथः फलविषैर्दाहो द्बेषश्च भोजने ॥
”पुष्पविषस्य कार्य्यमाह ।“भवेत् पुष्पविषैश्छर्द्दिराध्मानं मूर्च्छनं तथा ॥
”त्वक्सारनिर्यासविषाणां कार्य्याण्याह ।“त्वक्सारनिर्यासविषैरुपयुक्तैर्भवन्ति हि ।आस्यदौगन्ध्यपारुष्यशिरोरुक्कफसंस्रवाः ॥
”क्षीरविषकार्य्यमाह ।“फेनागमः क्षीरविषैर्विड्भेदो गुरुजिह्वता ॥
”धातुविषकार्य्यमाह ।“हृत्पीडनं धातुविषैर्मूर्च्छा दाहश्च तालुनि ।प्रायेण कालघातीनि विषाण्येतानि निर्द्दिशेत् ॥
एतानि मूलादीनि विषाणि नव कालघातीनिकालान्तरे मारकाणि ॥
* ॥
कन्दविषस्यकार्य्यमाह ।“कन्दजान्युग्रवीर्य्याणि यान्युक्तानि त्रयोदश ।सर्व्वाण्येतानि कुशलैर्ज्ञेयानि दशभिर्गुणैः ॥
स्थावरं जङ्गमञ्चापि कृत्रिमञ्चापि यद्विषम् ।सद्यो निहन्ति तत् सर्व्वं गुणैश्चेद्दशभिर्युतम् ॥
”तान् दशगुणानाह ।“रूक्षमुष्णं तथा तीक्ष्णं सूक्ष्ममाशु व्यवायि च ।विकाशि विशदं चैव लघ्वपाकि च ते दश ॥
”तेर्गुणैर्विषस्य कार्य्यमाह ।“तद्रौक्षात् कोपयेद्वायुमौष्ण्यात् पित्तं सशो-णितम् ।तैक्ष्ण्यान्मतिं मोहयति मर्म्मवन्धांश्छिनत्ति हि ॥
शरीरावयवान् सौक्ष्मात् प्रविशेद्विकरोति च ।आशुत्वादाशु तद्धन्ति व्यवायात् प्रकृतिं हरेत् ॥
विकाशित्वात् क्षपयति दोषान् धातून् मला-न्यपि ।अतिरिच्यत वैशद्याद्दुश्चिकित्स्यञ्च लाघवात् ।दुर्ज्जरं चाविपाकित्वात्तस्मात् क्लेशयते चिरम् ॥
”विषलिप्तशस्त्रहतस्य लक्षणमाह ।“सद्यः पाकं याति यस्य क्षतं तत्स्रवेद्रक्तं पच्यते चाप्यभीक्ष्णम् ।कृष्णीभूतं क्लिन्नमत्यर्थपूति-क्षतान् मांसं शीर्य्यते यस्य चापि ॥
तृष्णातापौ दाहमूर्च्छे च यस्यदिग्धाविद्वं तं मनुष्यं व्यवस्येत् ।लिङ्गान्येतान्येव कुर्य्यादमित्रै-र्दत्तः क्ष्वेडो वा व्रणे यस्य चापि ॥
”पच्यते चाप्यभीक्ष्णं पुनः पुनः पाकमेति । तापोबहिस्तप्तता । दाहोऽभ्यन्तरे । कर्य्यादित्यत्रक्षतं कर्त्तृपदं बोद्धव्यम् । प्रायेण राजादीना-मन्नादौ शत्रवो विषं ददति ॥
* ॥
तेषां ज्ञानार्थंलक्षणमाह ।“इङ्गितज्ञो मनुष्याणां वाक्चेष्टामुखवैकृतैः ।जानीयाद्विषदातारमेभिर्लिङ्गैश्च बुद्धिमान् ॥
न ददात्युत्तरं पृष्टो विवक्षुर्मोहमेति च ।अपार्थं बहु संकीर्णं भाषते चापि मूढवत् ॥
अङ्गुलीः स्फोटयेदुर्व्वीं विलिखेत् प्रहसेदपि ।वेपथुश्चास्य भवति त्रस्तश्चैकैकमीक्षते ॥
विवर्णवक्त्रो ध्यामश्च नखैः किञ्चिच्छिनत्ति च ।आलभेत सकृद्दीनः करेण च शिरोरुहान् ॥
निर्यियासुरपद्वारैर्वीक्षते च पुनः पुनः ।वर्त्तते विपरीतञ्च विषदाता विचेतनः ॥
”इङ्गितमभिप्रायसूचक आकारः । मुखवैकृतिंमुखवैवर्ण्यादिः । एभिर्लिङ्गैः वक्ष्यमाणैः । नददात्युत्तरं पृष्टः स्वीयासत्कर्म्मजनितव्यामो-हात् । संकीर्णं अस्फुटम् । भयजवायुजनित-पर्व्वव्यथापनोदायाङ्गुलीः स्फोटयेत् । प्रहसेत्अहेतावपि । ध्यामः दग्धसमानवर्णः । आल-भेत् स्पृशेत् । विपरीतं यथा स्यादेवं वर्त्तेत ॥
जङ्गमविषाणां सामान्यानां कार्य्यमाह ।“निद्रातन्द्राक्लमं दाहं सम्पाकं लोमहर्षणम् ।शोथञ्चैवातिसारञ्च कुरुते जङ्गमं विषम् ॥
”जङ्गमेषु तीक्ष्णतरत्वेन सर्पानाह ।“वातपित्तकफात्मानो भोगिमण्डलिराजिलाः ।यथाक्रमं समाख्याता द्व्यन्तरा द्वन्द्वरूपिणः ॥
”भोगिनः फणिनः । ते च विंशतिः ।“मण्डलैर्विविधैश्चित्राः पृथवो मन्दगामिनः ।षट् ते मण्डलिनो ज्ञेया ज्वलनार्कसमा विषैः ॥
स्निग्धा विविधवर्णाभिस्तिर्य्यगूर्द्ध्वञ्च राजिभिः ।विचित्रा इव ये भान्ति राजिलास्ते हि तेऽपिषट् ॥
”एते यथाक्रमं वातपित्तकफात्मानः । द्ब्यन्तराद्वे अन्तरे भेदौ येषां ते द्ब्यन्तराः । यथाभोगिनो मण्डलिभ्यां जाताः इत्यादि ॥
* ॥
भोगिप्रभृतिकृशदंशलक्षणभेदमाह ।“दंशो भोगिकृतः कृष्णः सर्व्ववातविकारनुत् ।पीतो मण्डलिनः शोथो मृदुः पित्तविकारवान् ॥
राजिलोत्थो भवेद्दंशः स्थिरशोथश्च पिच्छिलः ।पाण्डुः स्निग्धोऽतिसान्द्रासृक्सर्व्वश्लेष्मविकार-वान् ॥
”देशविशेषे कालविशेषे च दष्टस्यासाध्यत्वमाह ।“अश्वत्थदेवायतनश्मशान-वल्मीकसन्ध्यासु चतुष्पथेषु ।याम्ये सपित्र्ये परिवर्ज्जनीयाऋक्षे नरा मर्म्मसु ये च दष्टाः ॥
”याम्ये भरण्याम् । पित्र्ये मघायाम् ।“दार्व्वीकराणां विषमाशु हन्तिसर्व्वाणि चोष्णे द्बिगुणीभवन्ति ॥
”उष्णे उष्मसंयोगे । दार्व्वीकरलक्षणमाह ।“रथाङ्गलाङ्गलच्छत्रस्वस्तिकाङ्कुशधारिणः ।ज्ञेया दार्व्वीकराः सर्पाः फणिनः शीघ्र-गामिनः ॥
”अपरेषु येषु विषमाशु मारकं भवति तानाह ।“अजीर्णपित्तातपपीडितेषुबालेषु वृद्धषु बुभुक्षितेषु ।क्षीणे क्षते मेहिनि कुष्ठजुष्टेरूक्षे बले गर्भवतीषु चापि ॥
शस्त्रक्षते यस्य न रक्तमस्तिराज्यो लताभिश्च न संभवन्तिशीताभिरद्भिश्च न रोमहर्षोविषाभिभूतं परिवर्ज्जयेत्तम् ॥
जिह्मं मुखं यस्य च केशशातोनासावसादश्च सकण्ठभङ्गः ।कृष्णश्च रक्तः श्वयथुश्च दंशोहन्वोः स्थिरत्वञ्च स वर्ज्जनीयः ॥
”केशशातः आकर्षणात् । नासावसादः नासायानतत्वम् । कण्ठभङ्गः ग्रीवाधारणाशक्तिः । हन्वोःस्थिरत्वं हनुद्बयस्तम्भः ॥
* ॥
अपरश्च ।“वर्त्तिर्घनी यस्य निरेति वक्त्रा-द्रक्तं स्रवेदूर्द्ध्वमधश्च यस्य ।दंष्ट्रानिपातांश्चतुरश्च पश्येद्-यस्यापि वैद्यैः परिवर्जनीयः ॥
”वर्त्तिः रुधिरस्थम् । रक्तं स्रवेदूर्द्ध्वमधश्च यस्ययस्य च नासामुखलिङ्गगुदादिभ्यो रक्तं स्रवेत् ।“उन्मत्तमत्यर्थमुपद्रुतं वाहीनस्वरं वाप्यथवा विवर्णम् ।सारिष्टमत्यर्थमवेगिनञ्चजह्यान्नरं तस्य न कर्म्म कुर्य्यात् ॥
”अत्यर्थमुपद्रुतं वा ज्वरातिसारादिभिरतिशये-नोपद्रुतम् । हीनस्वरं वक्तुमक्षमम् । विवर्णंकृष्णवर्णम् । सारिष्टं नासाभङ्गादियुक्तम् ।अवेगिनं वेगो विषवेगः लहरि इति लोकेतद्रहितम् । * । स्थावरं जङ्गमं विषमेवजीर्णत्वादिभिः कारणैर्दूषीविषसंज्ञां लभते ।तदाह ।“जीर्णं विषघ्नौषधिदूषितं वादावाग्निवातातपशोषितं वा ।स्वभावतो वा गुणविप्रहीनंविषं हि दूषीविषतामुपैति ॥
”जीर्णं अतिपुराणम् । विषघ्नौषधिदूषितं विषघ्ना-भिरोषधीभिर्व्वीर्य्यहीनीकृतम् । स्वभावतो वागुणविप्रहीनं स्वभावादेव दशानां गुणानांमध्ये द्वित्र्यादिगुणहीनम् ॥
* ॥
दूषीविषस्यकार्य्यमाह ।“वीर्य्याल्पभावान्न निपातयेत्तत्कफान्वितं वर्षगुणानुबन्धि ।तेनार्द्दितो भिन्नपुरीषवर्णोविगन्धवैरस्ययुतः पिपासी ॥
मूर्च्छां भ्रमं गद्गदवाग्वमिञ्चविचेष्टमानोऽरतिमाप्नुयाद्वा ॥
”न निपातयेत् न मारयति । कफान्वितं कफेनमन्दीकृतौष्णादिगुणम् । वर्षगुणानुबन्धि कफे-नाग्नेर्मान्द्यादीषत्पाकाच्चिरमास्थायि । भिन्न-पुरीषवर्णः भिन्नपुरीषो द्रुतमलः भिन्नवर्णश्च ।विचेष्टमानो विरुद्धां चेष्टां कुर्वन् मूर्च्छादीन्व्याधीन् लभते ॥
* ॥
स्थानविशेषस्थिते दूषी-विषे लिङ्गविशेषमाह ।“आमा शयस्थे कफवातरोगीपक्वाशयस्थेऽनिलपित्तरोगी ।भवेत् समुद्धस्तशिरोऽङ्गरुट्कोविलूनपक्षश्च यथा विहङ्गः ॥
”समुद्धस्तशिरोरुहः केशाः अङ्गरुहि च रोमाणियस्य सः । एतदपि लिङ्गं पक्वाशयस्थे दूषीविषेबोद्धव्यम् । स्थिरं रसादिष्वथ तद्यथोक्तान्करोति धातुप्रभवान् विकारान् । तत् दूषी-विषम् । यथोक्तान् सुश्रुते व्याधिसमुद्देशी-योक्तान् । * । दूषीविषस्य प्रकोपसमयमाह ।“कोपन्तु शीतानिलदुर्दिनेषुजात्याशु पूर्व्वं शृणु तस्य रूपम् ॥
” * ॥
कुपितस्य तस्य दूषीविषस्य पूर्व्वरूपमाह ।“निद्रागुरुत्वञ्च विजृम्भणञ्चविश्लेषहर्षावथवाङ्गमर्दः ॥
”विश्लेषः गात्रशैथिल्यम् । हर्षः रोमाञ्चः । * ।रूपमाह ।“ततः करोत्यन्नमदाषिपाका-वरोचकं मण्डलकोटजन्म ।मांसक्षयं पाणिपदाक्षिशोथंमूर्च्छां तथा च्छर्द्दिमथातिसारम् ॥
”दूषीविषं श्वासतृषौ ज्वरांश्च कुर्य्यात् प्रवृद्धिंजठरस्य चापि । अन्नमदः अन्ने भुक्ते पूगफले-नेव मदः अविपाकः । * । अन्नस्य दूषीविष-भेदेन विकारभेदमाह ।“उन्मादमन्यज्जनयेत्तथान्य-दानाहमन्यत् क्षपयेच्च शुक्रम् ।गाद्गद्यमन्यज्जनयेच्च कुष्ठंतांस्तान् विकारांश्च बहुप्रकारान् ॥
”अन्यत् दूषीविषम् । तांस्तान् विकारान् विसर्प-विस्फोटादीन् । * । दूषीविषस्य निरुक्तिमाह ।“दूषितं देशकालान्नं दिवास्वप्नैरभीक्ष्णशः ।यस्मात् संदूषयेद्धातुं तस्मात् दूषीविषं स्मृतम् ॥
”देशः अनूपादिः । कालो दुर्दिनादिः । अन्नंकुलत्थतिलमसुरादि । धातुदूषकत्वाद्दूषीवि-षम् ॥
* ॥
दूषीविषस्य साध्यत्वादिकमाह ।“साध्यमात्मवतः सद्यो याप्यं संवत्सरोषितम् ।दूषीविषमसाध्यं स्यात् क्षीणस्याहितसेविनः ॥
”कृत्रिमं विषं द्विविधम् । एकं सविषं दूषीविष-संज्ञम् । अपरमविषं तदेव गरसंज्ञम् । तथा चकाश्यपसंहितायाम् ।“संयोगजञ्च द्विविधं द्वितीयं विषमुच्यते ।दूषीविषन्तु सविषमविषं गर उच्यते ॥
”संयोगजं कृत्रिमं विषम् । द्वितीयं स्वाभावि-कात् । तच्च द्विविधम् । * । तत्र दूषीविष-मभिधाय गरं दर्शयितुमाह ।“सौभाग्यार्थं स्त्रियः स्वेदरजोनानाङ्गजान्मलान् ।शत्रुप्रयुक्तांश्च गरान् प्रयच्छन्त्यन्नमिश्रितान् ॥
” *गरकाय्यमाह ।“तैः स्यात् पाण्डुकृशोऽल्पाग्निर्ज्ज्वरश्चास्योप-नायते ।मर्मप्रधमनाध्मानं हस्तयोः शोथसम्भवः ॥
जठरं ग्रहणीरोगा यक्ष्मा गुल्मः क्षयो ज्वरः ।एवंविधस्य चान्यस्य व्याधेर्लिङ्गञ्च जायते ॥
”तैर्गरैः स्वेतरजःप्रभृतिभिः । ज्वरश्चास्योप-जायत इति अपाकात् । मर्म्मप्रधमनं मर्म्म-व्यथाम् । क्षयो धातुक्षयः ॥
* ॥
लूतानां जन्तु-विशेषाणामुत्पत्तिं संख्याञ्चाह ।“यस्माल्लूनं तृणं प्राप्ता मुनेः प्रस्वेदबिन्दवः ।तेभ्यो जातास्ततो लूता इति ख्यातास्तुषोडश ॥
”तत्र सुश्रुतः ।“विश्वामित्रो नृपवरःः कदाचिदृषिसत्तमम् ।वशिष्ठं कोपयामास गत्वाश्रमपदं किल ॥
कुपितस्य मुनेस्तस्य ललाटात् स्वेदबिन्दवः ।अपतन्दर्शनादेव ह्यधस्तात्तीव्रवर्च्चसः ।लूने तृणे महर्षेस्तु धेन्वर्थे सम्भृतेऽपि च ॥
ततो जातास्त्विमे घोरा नानारूपा महाविषाः ।तासामष्टौ कष्टसाध्या वर्ज्यास्तावन्त्य एव हि ॥
तत्र तृणमण्डलाप्रभृतयोऽष्टौ कष्टसाध्याः । सौव-र्णिकाप्रभृतयोऽष्टावसाध्याः ॥
* ॥
तासां सामा-न्यानां दंशलक्षणमाह ।“ताभिर्दष्टे दंशकोप्यः प्रवृत्तिः क्षतजस्य च ।ज्वरो दाहोऽतिसारश्च गदाः स्युश्च त्रिदो-षजाः ॥
पिडका विविधाकारा मण्डलानि महान्ति च ।शोथो महान्तो मृदवो रक्ताः श्यावाश्चला-स्तथा ॥
सामान्यं सर्व्वलूतानामेतद्दंशस्य लक्षणम् ।”दंशकोप्यः दंशमध्ये पूतिभावः ।“दंशमध्ये तु यत् कृष्णं श्यावं वा जालमावृतम् ॥
दग्धाकृति भृशं पाकं क्लेदशोऽथज्वरान्वितम् ।दूषीविषाभिर्लूताभिस्तं दष्टमिति निर्द्दिशेत् ॥
”सौवर्णिकादयोऽष्टावसाध्याः प्राणहरास्तासांलक्षणमाह ।“शोथः श्वेता सिता रक्ता पीता वा पिडकाज्वरः ।प्राणान्तिको भवेद्दाहः श्वासहिक्का शिरो-ग्रहः ॥
”आखुदूषीविषलक्षणमाह ।“आदंशाच्छोणितं पाण्डुमण्डलानि ज्वरो-ऽरुचिः ।लोमहर्षश्च दाहश्चाप्याखुदूषीविषार्द्दिते ॥
”प्राणहरमूषकविषकार्य्यमाह ।“मूर्च्छाङ्गशोथवैवण्यं क्लेदशब्दाश्रुतिज्वराः ।शिरोगुरुत्वं लालासृक्छर्द्दिश्चासाध्यमूषकात् ॥
”अङ्गशोथोऽत्र मूषकाकारो बोद्धव्य इति तन्त्रा-न्तरे ॥
* ॥
कृकलासदष्टस्य लक्षणमाह ।“शोथस्य कार्य्यमथवा नानावर्णत्वमेव च ।मोहोऽथ वर्च्चसो भेदो दष्ठस्य कृकलासकैः ॥
”वृश्चिकविषस्य लक्षणमाह ।“दहत्यग्निरिवादौ च भिनत्तीवोर्द्ध्वमाशु च ।वृश्चिकस्य विषं याति पश्चात् दंशोऽवतिष्ठते ॥
”असाध्यवृश्चिकदष्टस्य लक्षणमाह ।“दष्टोऽसाध्यैस्तु हृद्घ्राणरसनोपहतो नरः ।मांसैः पतद्भिरत्यर्थं वेदनार्त्तो जहात्यसून् ॥
”असाध्यैर्वृश्चिकैस्तेषामेवानुवृत्तेः । हृदादिषूप-हतः हृदादिकार्य्यरहितो भवति । अत्यर्थंवेदनार्त्त इत्यन्वयः ॥
कणभदष्टस्य लक्षणमाह ।“विसर्पः श्वयथुः शूलं ज्वरश्छर्द्दिरथापि च ।लक्षणं कणभैर्दष्टे दंशश्चैवावशीर्य्यते ॥
”कणभः कीटविशेषः ॥
उच्चिटङ्गदष्टस्य लक्षण-माह ।“कृष्णरोमोच्चिटङ्गेन स्तब्धलिङ्गो भृषार्त्ति-मान् ।दष्टः शीतोदकेनेव सिक्तान्यङ्गानि मन्यते ॥
”कृष्णरोमा अधिकतरकृष्णरोमा । उच्चिटङ्ग-श्चीटाकीटविशेषः ॥
* ॥
सविषमण्डूकदष्टस्यलक्षणमाह ।“एकदंष्ट्रार्द्दितः शूनः सरुजः पीतकः सतृट् ।सनिद्रश्छर्द्दिमान् दष्टो मण्डूकैः सविषैर्भवेत् ॥
”एकदंष्ट्रार्द्दितः स्वभावादेकयैव दंष्ट्रया दष्टोभवति ॥
* ॥
मत्स्यविषस्य कार्य्यमाह ।“मत्स्यास्तु सविषाः कुर्य्युर्दाहं शोथं रुजं तथा ॥
”जलौकोविषकार्य्यमाह ।“कण्डूशोथं ज्वरं मूर्च्छां सविषास्तु जलौकंसः ।”कुर्य्युरिति शेषः ॥
* ॥
गृहगोधिकाविषकार्य्य-लक्षणमाह ।“विदाहं श्वयथुं तोदं प्रस्वेदं गृहगोधिकाः ।”कुर्य्युः । इति शेषः ॥
* ॥
शतपदीविषकार्य्यमाह ।“दंशे स्वेदं रुजं दाहं कुर्य्यात् शतपदीविषम् ।”शतपदी गिजाइ इति लोके ॥
* ॥
मशकविष-कार्य्यमाह ।“कण्डूमान् मशकैरीषच्छोथः स्यान्मन्दवेदनः ॥
”असाध्यमशकलक्षणमाह ।“असाध्यकीटसदृशमसाध्यं मशकक्षतम् ।”असाध्यकीटसदृशं असाध्यैः कीटैर्लूताभिः कृतंयत् क्षतं तत्सदृशवेदनम् ॥
* ॥
मक्षिकादंशस्यलक्षणमाह ।“सद्यःसंस्राविणी श्यावा दाहमूर्च्छाज्वरा-न्विता ।पिडका मक्षिकादंशे तासान्तु स्थगिकाशुहृत् ॥
”तासामित्यादि । तासां सुश्रुतोक्तानां षण्णांमक्षिकाणां मध्ये स्थगिकानाम्नी शीघ्रं प्राणंहरतीत्यर्थः ॥
व्याघ्रादिविषाणां कार्य्यमाह ।“चतुष्पाद्भिर्द्विपाद्भिर्व्वा नखैर्दन्तैश्च यत् क्षतम् ।सूयते पच्यते तत्तु स्रवते ज्वरयत्यपि ॥
”चतुष्पाद्भिर्व्याघ्रादिभिः । द्विपाद्भिर्वनमानुषा-दिभिः । सूयते सूनं भवति ॥
* ॥
विषोज्झितस्यलक्षणमाह ।“प्रसन्नदोषं प्रकृतिस्थधातु-मन्नाभिकामं सममूत्रविट्कम् ।प्रसन्नवर्णेन्द्रियचित्तचेष्टंवैद्योऽवगच्छेदविषं मनुष्यम् ॥
”प्रसन्नदोषं प्रकृतिस्थदोषं शेषं सुगयम् ॥
* ॥
अथ विषाणां चिकित्सा । तत्र स्थावरविषास्यचिकित्सा ।“स्थावरेण विषेणार्त्तनरं यत्नेन वामयेत् ।वमनेन समं नास्ति यतस्तस्य चिकित्सितम् ॥
विषमत्यर्थमुष्णञ्च तीक्ष्णञ्च कथितं यतः ।अतः सर्व्वविषे युक्तः परिषेकस्तु शीतलः ॥
औष्ण्यात्तैक्ष्ण्याद्विशेषेण विषं पित्तं प्रकोपयेत् ।वामितं सेचयेत्तस्माच्छीतलेन जलेन च ॥
पाययेन्मधुसर्पिर्भ्यां विषघ्नं भेषजं द्रुतम् ।भोक्तुमम्लं रसं दद्यात् चर्व्वयेन्मरिचानि च ॥
यस्य यस्य च दोषस्य पश्येल्लिङ्गानि भूरिशः ।तस्य तस्यौषधैः कुर्य्याद्विपरीतगुणैः क्रियाम् ॥
शालयः षष्टिकाश्चैव कोरदूषाः प्रियङ्गवः ।भोजनार्थे विषार्त्तानां हिताः पटुषु सैन्धवम् ॥
”प्रियङ्गुः कङ्गुः ।“मूलत्वक पत्रपुष्पाणि बीजञ्चेति शिरीषतः ।गवां मूत्रेण संपिष्टं लेपाद्बिषहरं भवेत् ॥
दूषीविषार्त्तः सुस्निग्धमूर्द्ध्वं चाधश्च शोधितम् ।पाययेदगदं मुख्यमिदं दूषीविषापहम् ॥
पिप्पलीध्यामकं मांसी लोध्रमेला सुवर्च्चिका ।मरिचं बालकं चैला तथा कनकगैरिकम् ॥
क्षौद्रयुक्तः कषायोऽयं दूषीविषमपोहति ॥
”ध्यामकं रोहिषम् । तदलाभे उशीरं देयम् ।कनकगैरिकं सोणागेरू इति लोके । अत्यन्त-मारक्तम् ॥
* ॥
अथ जङ्गमविषस्य चिकित्सा ।“अभयां रोचनां कुष्ठमर्कपुष्पं तथोत्पलम् ।नलवेतसमूलानि गरलं सुरसां तथा ॥
सकलिङ्गं समञ्जिष्ठामनन्ताञ्च शतावरीम् ।शृङ्गाटकं समङ्गाञ्च पद्मकेशरमित्यपि ॥
कल्कीकृत्य पचेत् सर्पिः पयो दद्याच्चतुर्गुणम् ।सम्यक्पक्वेऽवतीर्णे च शीते तस्मिन् विनिः-क्षिपेत् ॥
सर्पिस्तुल्यं भिषक् क्षौद्रं कृतरक्षं निधापयेत् ।विषाणि हन्ति दुर्गाणि गरदोषकृतानि च ॥
स्पर्शाद्धन्ति विषं सर्व्वं गरैरुपहितां त्वचाम् ।योगजन्तमकं कण्डूं मांससादं विसंज्ञताम् ॥
नाशयत्यञ्जनाभ्यङ्गपानवस्तिषु योजितम् ।सर्पकीटाखुलूतादिदष्टानां विषहृत् परम् ॥
”मृत्युपाशच्छ्रेदि घृतम् ॥
“धुस्तूरस्य शिफा पेया क्षीरेण परिपेषिता ।अङ्कोठवंशजा चापि श्वविषघ्नी प्रयत्नतः ॥
रजनीयुग्गपत्तङ्गमञ्जिष्ठानागकेशरैः ।शीताम्बुपिष्टैरालेपः सद्यो लूतां विनाशयेत् ॥
जीरकस्य कृतः कल्को घृतसैन्धवसंयुतः ।सुखोष्णो मधुना लेपो वृश्चिकस्य विषं हरेत् ॥
गन्धमाघ्राय मुदितसूर्य्यावर्त्तदलस्य तु ।वृश्चिकेन नरो विद्धः क्षणाद्भवति निर्व्विषः ॥
”इति विषाधिकारः । इति भावप्रकाशः ॥
* ॥
पारिभाषिकविषा यथा, --“न विषं विषमित्याहुब्रह्मस्वं विषमुच्यते ।देवस्वञ्चापि यत्नेन सदा परिहरेत्ततः ॥
”इति कौर्म्मे उपविभागे १५ अध्यायः ॥
अपि च ।“दुरधीता विषं विद्या अजीर्णे भोजनं विषम् ।विषं गोष्ठी दरिद्रस्य वृद्धस्य तरुणी विषम् ॥
विषं चंक्रमणं रात्रौ विषं राज्ञोऽनुकूलता ।विषं स्त्रियोऽप्यन्यहृदो विषं व्याधिरवीक्षितः ॥
”इति चाणक्यम् ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
