| YouTube Channel

विश्वामित्रः (vizvAmitraH)

 
Apte
English
विश्वामित्रः [viśvāmitrḥ], [विश्वं मित्रं यस्य, विश्वस्य मित्रं वा पूर्वपददीर्घः
P.
VI.3.13]
N.
of a celebrated sage. [He was originally a Kṣatriya, being the king of Kānyakubja and son of Gādhi. One day while out hunting, he went to the hermitage of the great sage Vasiṣṭha, and seeing there the cow of plenty, offered him untold treasures in exchange for it, but being refused he tried to take it by force. A long contest thereupon ensued, in which king Viśvāmitra was signally defeated
and so great was his vexation, and withal so greatly was he impressed with the power inherent in Brāhmanism that he devoted himself to the most rigorous austerities till he successively got the titles Rājarṣi, Riṣi, Maharṣi, and Brahmarṣi, but he was not contented till Vasiṣṭha himself called him by the nameBrahmarṣi, which, however, took place after several thousands of years. Viśvāmitra several times tried to excite Vasiṣṭha for example by killing his one hundred sonsbut the great sage was not in the least perturbed. His power, even before he finally became a Brahmarśi, was very great, as was seen in his transporting Triśaṅku to the skies, in saving Sunah- śepa from the hands of Indra, in creating things after the style of Brahman
&c.
&c.
He was the companion and counsellor of young Rāma to whom he gave several miraculous missiles.]
Comp.
-प्रियः Cocoanut (tree and fruit)
L.
D. B. -सृष्टिः the thing created by विश्वामित्र (these are several as Palmyra, buffalo, ass
&c.
).
Apte 1890
English
विश्वामित्रः [विश्वं मित्रं यस्य, विश्वस्य मित्रं वा पूर्वपददीर्घः
P. VI. 3. 130] N. of a celebrated sage. [He was originally a Kṣatriya, being the king of Kanyakubja and son of Gādhi. One day while out hunting, he went to the hermitage of the great sage Vasiṣṭha, and seeing there the cow of plenty, offered him untold treasures in exchange for it, but being refused he tried to take it by force. A long contest thereupon ensued, in which king Viśvāmitra was signally defeated
and so great was his vexation, and withal so greatly was he impressed with the power inherent in Brāhmanism that he devoted himself to the most rigorous austerities till he successively got the titles Rājarṣi, Ṛṣi, Maharṣi, and Brahmarṣi, but he was not contented till Vasiṣṭha himself called him by the name Brahmarṣi, which, however, took place after several thousands of years. Viśvāmitra several times tried to excite Vasiṣṭha-for example by killing his one hundred sons-but the great sage was not in the least perturbed. His power, even before he finally became a Brahmarṣi, was very great, as was seen in his transporting Triśanku to the skies, in saving Śunahśepha from the hands of Indra, in creating things after the style of Brahman &c. &c. He was the companion and counsellor of young Rāma to whom he gave several miraculous missiles].
Apte Hindi
Hindi
विश्वामित्रः
स्त्री*
- "विश्व + मित्रः, विश्वमेव मित्रं यस्य ब* स*, पूर्वपदस्याकारस्य दीर्घः"
एक विख्यात ऋषि का नाम
Wordnet
Sanskrit
Synonyms:
विश्वामित्रः, गाधेयः, कौशिकः, गाधिजः, त्रिशङ्कुयाजी, गाधिभूः
noun
एकः ऋषिः यः दशरथात् रामं लक्ष्मणं स्वीकृत्य वनं गतः।
"विश्वामित्रः स्वतपोबलेन त्रिशङ्कुं सशरीरं स्वर्गं प्रेषितुम् इष्टवान्।"
अमरकोशः
Sanskrit
Word: विश्वामित्रः
Root: विश्वामित्र
Gender: पुं
Number: all
Meaning(s):
friend of all
particular anuvAka
particular caturaha
Shloka(s):
2|7|36|3 वाल्मीकिश्चाथ गाधेयो विश्वामित्रश्च कौशिकः। (ब्रह्मवर्गः)
Synonym(s):
2|7|36|3 गाधेयः (गाधेय) (पुं)
2|7|36|3 विश्वामित्रः (विश्वामित्र) (पुं) friend of all, particular anuvAka, particular caturaha
2|7|36|3 कौशिकः (कौशिक) (पुं) owl, love, marrow, silken, passion, sheathed, having paws, kind of seed, an ichneumon, lexicographer, name of gAdhi, coming from an owl, relating to kuzika, interpolation after, forming a receptacle, name of bhadrazarman, one who catches snakes, one who is versed in dictionaries, shala tree [ Shorea robusta - Bot. ], fragrant resin of Guggul tree [Commiphora wightii - Bot.]
Related word(s):
परा_अपरासंबन्धः संन्यासी
जातिः ऋषिः
शब्दकल्पद्रुमः
Sanskrit
विश्वामित्रः,
पुं,
(विश्वमेव मित्रमस्य “मित्त्रेचर्षौ ।” १३० इति विश्वस्य दीर्घः ।)ब्रह्मर्षिविशेषः तत्पर्य्यायः गाधिजः ।इति त्रिकाण्डशेषः
त्रिशङ्कुयाजी गाधेयः ४कौशिकः इति हेमचन्द्रः
गाधिभूः ।इति शब्दरत्नावली
तस्योत्पत्तिर्यथा, --“कृतदारं सुतं श्रुत्वा द्रष्टुं पुत्त्रं स्वकं भृगुः ।अथाजगाम मतिमान् स्नुषां दृष्ट्वा ननन्द
दम्पती तं समासीनं भृगुं देवगणार्च्चितम् ।पूजयित्वा समासीनं तस्थतुस्तौ कृताञ्जली
ततो भृगुः स्नुषां स्वीयां सुप्रीत इदमब्रवीत् ।वरं वृणीष्व दास्यामि वाञ्छितं वरवर्णिनि ।अदेयं दुष्करं वापि यत्र ते वर्त्तते स्पृहा
ततः सत्यवती पुत्त्रं तपस्याम्नायपारगम् ।मातुश्च वीरमतुलं पुत्त्रं वरमयाचत
चैवमस्त्वित्युक्त्वैव भूत्वा ध्यानपरस्तदा ।विश्वमावर्त्त्य मनसा यत्नात् श्वासं ससर्ज्ज सः
तस्य निश्वासवातात्तु निःसृतं वै चरुद्वयम् ।तस्यै तत् द्वितयं दत्त्वा भृगुस्तामिदमब्रवीत्
चरुद्वयं गृहाण त्वं स्नुषे सत्यवति स्वयम् ।स्नात्वा ऋतौ ऋतौ माता तदा त्वञ्च करिष्यथः ।आलिङ्ग्याश्वत्थवृक्षं ते माता पुंसवनाय वै ।चरुमारक्तकं चेमं सा भोक्ष्यति सुतस्ततः
त्वचौडुम्बरवृक्षन्तु समालिङ्ग्य सितं चरुम् ।भोक्ष्यस्येतेन पुत्त्रस्ते भविष्यति सनातनः
एवमुक्त्वा भृगुर्यातो यथेच्छं सापि संमुदम् ।अवाप मात्रा सहिता भर्त्रा पित्रा भाविनी ।अथ स्नानदिनेऽश्वत्थमालिङ्ग्यारक्तकं चरुम् ।अद्यात् सत्यवती तस्या माता फल्गुं सितंचरुम्
परिवर्त्तन्तु तं ध्यात्वा दिव्यध्यानो भृगुर्म्मुनिः ।अथागत्य स्नुषां तान्तु वचनञ्चेदमब्रवीत्
विपर्य्ययस्त्वया भद्रे वृक्षालिङ्गनकर्म्मणि ।तथा चरुप्राशने तत्रेदन्ते भविष्यति
ब्राह्मणः क्षत्त्रियाचारस्तव पुत्त्रो भविष्यति ।क्षत्त्रियो प्राह्मणाचारो मातुस्ते भविता सुतः
इत्युक्ता भृगुणा साध्वी तदा सत्यवती भृगुम् ।पुनः प्रसादयामास पौत्त्रो मेऽस्त्विति तादृशः ।एवमस्त्विति प्रोक्त्वा तत्रैवान्तर्द्दधे भृगुः
अथ काले सुतं दीप्तं यमदग्निञ्च गाधिजा ।सुषुवे जननी तस्या विश्वामित्रं तपोनिधिम्
यमदग्निस्ततो वेदान् चतुरः प्राप माचिरम् ।प्रादुरासद्धनुर्व्वेदः स्वयं तस्मिन् महात्मनि
विश्वामित्रोऽपि सकलान् वेदानपि तथाचिरात् ।धनुर्व्वेदं तथा कृत्स्नं विप्रश्चाभूत्तपोधनः
जाज्वल्यमानस्तेजस्वी यमदग्निर्म्महातपाः ।वेदैस्तपोभिः मुनीनत्यक्रामच्च सूर्य्यवत्
”इति कालिकापुराणे ८४ अध्यायः
(आयुर्व्वेदपारदर्शी सुश्रुतोऽस्य पुत्त्रः यथा, --“अथ ज्ञानदृशा विश्वामित्रप्रभृतयोऽविदन् ।अयं धन्वन्तरिः काश्यां काशिराजोऽयमुच्यते
विश्वामित्रो मुनिस्तेषु पुत्त्रं सुश्रुतमुक्तवान् ।वत्स ! वारानसीं गच्छ त्वं विश्वेश्वरवल्लभाम्
तत्र नाम्ना दिवोदासः काशिराजोऽस्तिबाहुजः ।स हि धन्वन्तरिः साक्षादायुर्व्वेदविदांवरः
आयुर्व्वेदं ततोऽधीत्य लोकोपकृतिहेतवे ।सर्व्वप्राणिदयातीर्थमुपकारो महामखः
पितुर्व्वचनमाकर्ण्य सुश्रुतः काशिकां गतः ।तेन सार्द्धं समध्येषु मुनिसूनुशतं ययौ
”इति भावप्रकारशस्य पूर्व्वखण्डे प्रथमे भागे
“विश्वामित्रसुतः श्रीमान् सुश्रुतः परिपृच्छति
”इत्युत्तरतन्त्रे षट्षष्टितमेऽध्याये सुश्रुतेनोक्तम्
विश्वस्मिन्नास्तिमित्रं यस्मात् परममित्रम् यथा, “जनकेनाभिरामाय ददौ राज्यमकण्टकम् ।मिश्वामित्रं पुरस्कृत्य वनवासं ततो ययौ
”इत्युद्भटः
)