विश्वचक्रं (vizvacakraM)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दकल्पद्रुमः
Sanskritविश्वचक्रं, (विश्वतः सर्व्वत्र चक्रं यस्य ।)महादानविशेषः । यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।विश्वचक्रमिति ख्यातं सर्व्वपातकनाशनम् ॥
तपनीयस्य शुद्धस्य विश्वचक्रन्तु कारयेत् ।श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम् ॥
तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ।अन्यद्विं शत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत् ॥
षोडशारं ततश्चक्रं भूमिनेम्यष्टकावृतम् ॥
नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम् ॥
शङ्खचक्रस्य पार्श्वे तु देव्यष्टकसमावृतम् ।द्वितीयावरणे तद्वत् पूर्व्वतो जलशायिनम् ॥
अत्रिर्भृगुर्बशिष्ठश्च ब्रह्मा काश्यप एव च ।मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।रामो रामश्च रामश्च बुद्धः कल्की च ते दश ॥
तृतीयावरणे गौरी मातृभिर्बहुभिर्युता ।चतुर्थे द्वादशादित्या वेदाश्चत्वार एव च ॥
पञ्चमे पञ्चभूतानि रुद्राश्चैकादशैव तु ।लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव च ॥
सप्तमेऽस्त्राणि सर्व्वाणि मङ्गल्यानि च कारयेत् ।अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः ॥
तुलापुरुषवत् शेषं समन्तात् परिकल्पयेत् ।ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् ॥
विश्वचक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि ।तथाष्टादश धान्यानि रसाश्च लवणादयः ॥
पूर्णकुम्भाष्टकञ्चैव वस्त्राणि विविधानि च ।माल्येक्षुफलरत्नानि वितानं चापि कल्पयेत् ॥
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ।होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ॥
इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् ।नमो विश्वमयायेति विश्वचक्रात्मने नमः ॥
परमानन्दरूपि त्वं पाहि नः पापकर्द्दमात् ।तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः ॥
हृदि तत् त्रिगुणातीतं विश्वचक्रं नमाम्यहम् ।वासुदेवे स्थितञ्चक्रं चक्रमध्ये च माधवम् ॥
अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।विश्वचक्रमिदं यस्मात् सर्व्वपापहरं परम् ।आयुधञ्चाधिवासञ्च भवादुद्धर मामितः ॥
इत्यामन्त्र्य च यो दद्यात् विश्वचक्रममत्सरः ।विमुक्तः सर्व्वपापेभ्यो विष्णुलोके महीयते ॥
वैकुण्ठलोकमासाद्य चतुर्ब्बाहुः सनातनः ।सेव्यतेऽप्सरसां संघैस्तिष्ठेत् कल्पशतत्रयम् ॥
प्रणमेद्वाथ यः कुर्य्यात् विश्वचक्रन्दिने दिने ।तस्यायुर्व्वर्द्धते नित्यं लक्ष्मीश्च विपुला भवेत् ॥
इति सकलजगत्सुराधिवासंवितरति यस्तपनीयषोडशारम् ।हरिभवनमुपागतः स सिद्धै-श्चिरमधिगम्य नमस्यते शिरोभिः ॥
असुदर्शनतां प्रयाति शत्रो-र्मदनसुदर्शनताञ्च कामिनीनाम् ।ससुदर्शनकेशवानुरूपंकनकसुदर्शनदानदग्धपापः ॥
कृतगुरुदुरितारिषोडशारंप्रवितरणप्रवराकृतिं मुरारेः ।अभिभवति भवोद्भवानि भित्त्वाभवमभितो भवने भवानि भूयः ॥
”इति मात्स्ये महादानानुकीर्त्तने विश्वचक्रप्रादा-निको नाम २५९ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
