| YouTube Channel

विश्वचक्र (vizvacakra)

 
Monier Williams Cologne
English
विश्व—चक्र
n.
‘world-wheel’, a wheel made of gold representing the universe (or the gift of such a wheel offered to Brāhmans),
Hcat.
Indian Epigraphical Glossary
English
viśvacakra (EI 24), name of a mahādāna.
शब्दकल्पद्रुमः
Sanskrit
विश्वचक्रं,
क्ली,
(विश्वतः सर्व्वत्र चक्रं यस्य ।)महादानविशेषः यथा, --मत्स्य उवाच ।“अथातः संप्रवक्ष्यामि महादानमनुत्तमम् ।विश्वचक्रमिति ख्यातं सर्व्वपातकनाशनम्
तपनीयस्य शुद्धस्य विश्वचक्रन्तु कारयेत् ।श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्यमम्
तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् ।अन्यद्विं शत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत्
षोडशारं ततश्चक्रं भूमिनेम्यष्टकावृतम्
नाभिपद्मे स्थितं विष्णुं योगारूढं चतुर्भुजम्
शङ्खचक्रस्य पार्श्वे तु देव्यष्टकसमावृतम् ।द्वितीयावरणे तद्वत् पूर्व्वतो जलशायिनम्
अत्रिर्भृगुर्बशिष्ठश्च ब्रह्मा काश्यप एव ।मत्स्यः कूर्म्मो वराहश्च नरसिंहोऽथ वामनः ।रामो रामश्च रामश्च बुद्धः कल्की ते दश
तृतीयावरणे गौरी मातृभिर्बहुभिर्युता ।चतुर्थे द्वादशादित्या वेदाश्चत्वार एव
पञ्चमे पञ्चभूतानि रुद्राश्चैकादशैव तु ।लोकपालाष्टकं षष्ठे दिङ्मातङ्गास्तथैव
सप्तमेऽस्त्राणि सर्व्वाणि मङ्गल्यानि कारयेत् ।अन्तरान्तरतो देवान् विन्यसेदष्टमे पुनः
तुलापुरुषवत् शेषं समन्तात् परिकल्पयेत् ।ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम्
विश्वचक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि ।तथाष्टादश धान्यानि रसाश्च लवणादयः
पूर्णकुम्भाष्टकञ्चैव वस्त्राणि विविधानि ।माल्येक्षुफलरत्नानि वितानं चापि कल्पयेत्
ततो मङ्गलशब्देन स्नातः शुक्लाम्बरो गृही ।होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः
इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् ।नमो विश्वमयायेति विश्वचक्रात्मने नमः
परमानन्दरूपि त्वं पाहि नः पापकर्द्दमात् ।तेजोमयमिदं यस्मात् सदा पश्यन्ति योगिनः
हृदि तत् त्रिगुणातीतं विश्वचक्रं नमाम्यहम् ।वासुदेवे स्थितञ्चक्रं चक्रमध्ये माधवम्
अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।विश्वचक्रमिदं यस्मात् सर्व्वपापहरं परम् ।आयुधञ्चाधिवासञ्च भवादुद्धर मामितः
इत्यामन्त्र्य यो दद्यात् विश्वचक्रममत्सरः ।विमुक्तः सर्व्वपापेभ्यो विष्णुलोके महीयते
वैकुण्ठलोकमासाद्य चतुर्ब्बाहुः सनातनः ।सेव्यतेऽप्सरसां संघैस्तिष्ठेत् कल्पशतत्रयम्
प्रणमेद्वाथ यः कुर्य्यात् विश्वचक्रन्दिने दिने ।तस्यायुर्व्वर्द्धते नित्यं लक्ष्मीश्च विपुला भवेत्
इति सकलजगत्सुराधिवासंवितरति यस्तपनीयषोडशारम् ।हरिभवनमुपागतः सिद्धै-श्चिरमधिगम्य नमस्यते शिरोभिः
असुदर्शनतां प्रयाति शत्रो-र्मदनसुदर्शनताञ्च कामिनीनाम् ।ससुदर्शनकेशवानुरूपंकनकसुदर्शनदानदग्धपापः
कृतगुरुदुरितारिषोडशारंप्रवितरणप्रवराकृतिं मुरारेः ।अभिभवति भवोद्भवानि भित्त्वाभवमभितो भवने भवानि भूयः
”इति मात्स्ये महादानानुकीर्त्तने विश्वचक्रप्रादा-निको नाम २५९ अध्यायः
वाचस्पत्यम्
Sanskrit
विश्वचक्र
न०
द्वादशे महादानभेदे मत्स्यपु० तद्विधिर्यथ“अथातः संप्रवक्ष्यासि महादानमनुत्तमम् विश्वचक्र-मितिख्यातं सर्वपातकनाशनम् तपनीयस्य शुद्धस्य विश्व-चक्रन्तु कारयेत् श्रेष्ठं पलसहस्रेण तदर्द्धेन तु मध्य-मम् तस्यार्द्धेन कनिष्ठं स्याद्विश्वचक्रमुदाहृतम् न्य-द्विंशत्पलादूर्द्ध्वमशक्तोऽपि निवेदयेत् षोडाशारं तत-श्चक्रं भूमिनेम्यष्टकावृतम् नाभिपद्मे स्थितं विष्णुभोगारूढं चतुर्भुजम् शङ्खवक्रस्य पार्श्व तु देव्यष्टक-समावृतम् द्वितोयावरणे तद्वत् पूर्वतो जलशायिनम् ।अत्रिर्भृगुर्वशिष्ठश्च ब्रह्मा काश्यप एव मत्स्यः कूर्मोवराहश्च नरसिंहाऽथ वामनः रामो रामश्च रामश्चबुद्धः कल्की ते दश तृतीयावरणे गौरी मातृभि-र्बहुभिर्युता चतुर्थे द्वादशादित्या वेदाश्चत्वार एव ।पञ्चमे पञ्च भूतानि रुद्राश्चैकादशैव तु लोकपाला-ष्टकं षष्ठे दिङ्मातङ्गास्तथैव सप्तमेऽस्त्राणि सर्वाणिमङ्गल्यानि कारयेत् अन्तरान्तरतो देवान् विन्य-सेदष्टमे पुनः तुलापुरुषवत् शेषं समन्तात् परिकल्प-येत् ऋत्विङ्मण्डपसंभारभूषणाच्छादनादिकम् विश्व-चक्रं ततः कुर्य्यात् कृष्णाजिनतिलोपरि तथाष्टा-दश धान्यानि रसाश्च लवणादयः पूर्णकुम्भाष्टकञ्चैववस्त्राणि विविधानि माल्येक्षु फलरत्नानि वितानचापि कल्पयेत् ततो मङ्गलशब्देन म्नातः शुक्लाम्बरीगृही होमाधिवासनान्ते तु गृहीतकुसुमाञ्जलिः ।इममुच्चारयेन्मन्त्रं त्रिः कृत्वा तु प्रदक्षिणम् नमो विश्व-मयायेति विश्वचक्रात्मने नमः वरम नन्दरूपी त्वंपाहि नः पापकर्दमात् तेजोमयमिदं यस्मात् सदापश्यन्ति योगिनः हृदि तत्त्रिगुणातीतं विश्वचक्रनमाम्यहम् वासुदेवस्थितञ्चक्रं चक्रमध्ये माथ-वम् अन्योन्याधाररूपेण प्रणमामि स्थिताविह ।विश्वचक्रमिदं यस्मात् सर्वपापहरं परम् आयुध-ञ्चाधिवासञ्च भवादुद्धर मामितः”