| YouTube Channel

विश्वक्शेनः (vizvakzenaH)

 
शब्दकल्पद्रुमः
Sanskrit
विश्वक्शेनः,
पुं,
विष्णुः इत्यमरटीकायां भरतः
त्रयोदशमनुः यथा, --“मनुर्भूतेः सुतस्तद्बत् भौत्यो नाम भविष्यति ।ततस्तु मेरुसावर्णब्रह्मसूनुर्मनुः स्मृतः
ऋतुश्च ऋतुधामा विश्वक्शेनो मनुस्तया
अतीतानागताश्चैते मनवः परिकीर्त्तिताः
”इति मात्स्ये अध्यायः
*
विष्णोर्निर्म्माल्यधारिदेवता यथा, --“निर्म्माल्यधारी विष्णोस्तु विश्वक्शेनश्चतुर्भुजः ।शङ्खचक्रगदापाणिर्दीर्घश्मश्रुर्जटाधरः
रक्तपिङ्गलवर्णस्तु सितपद्मोपरिस्थितः ।प-तृतीयस्वरान्तेन संयुतो बिन्दुनेन्दुना
कीर्त्तितस्तस्य मन्त्रोऽयं तेन तं परिपूजयेत् ।विसर्ज्जनं तथा विष्णोरैशान्यां परिकल्पयेत्
”इति कालिकापुराणे ८२ अध्यायः
(क्वचित् विश्वक्सेन इति पाठोऽपि दृश्यते
)