| YouTube Channel

विश्वकर्म्मा (vizvakarmmA)

 
शब्दकल्पद्रुमः
Sanskrit
विश्वकर्म्मा, [न्]
पुं,
(विश्वेषु कर्म्म यस्य ।) सूर्य्यः ।देवशिल्पी इत्यमरः तत्पर्य्यायः त्वष्टा २विश्वकृत् देववद्धेकिः इति हेमचन्द्रः
(यथा, महाभारते २१२ १० ।“दृष्ट्वा विश्वकर्म्माणं व्यादिदेश पितामहः
”)मुनिभेदः इति मेदिनी ने, २४७
सप्रभासस्य वसोः पुत्त्रः यथा, --“विश्वकर्म्मा प्रभासस्य पुत्त्रः शिल्पप्रजापतिः
प्रासादभवनोद्यानप्रतिमाभूषणादिषु ।तडागारामकूपेषु स्मृतः सोऽमरवर्द्धकिः
”इति मात्स्ये अध्यायः
*
अन्यच्च ।“प्रत्यूषस्य विदुः पुत्त्रमृषिं नाम्ना तु देवलम् ।विश्वकर्म्मा प्रभासस्य विख्यातो देववर्द्धकिः
”इति गारुडे अध्यायः
*
अपि ।“बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी ।योगसिद्धा जगत् कृत्स्नमसक्ता विचरत्युत
प्रभासस्य तु भार्य्या सा वसूनामष्टमस्य तु ।विश्वकर्म्मा महाभागस्तस्यां जज्ञे महामतिः
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्द्धकिः ।भूषणानाञ्च सर्व्वेषां कर्त्ता शिल्पवतां वरः
यः सर्व्वेषां विमानानि देवतानां चकार ।मनुष्याश्चोपजीवन्ति यस्य शिल्पं महात्मनः
”इति विष्णुपुराणे अंशे १५ अध्यायः
अन्यच्च ।“द्वौ प्रोक्तौ विश्वकर्म्माणो मयस्त्वष्टा योग-वित्
द्वौ धाता विधाता पौराणौ जगतः-पती
”इति वह्निपुराणे गणभेदो नामाध्यायः
(चेतनाधातुः तद्विवृतिर्यथा “तत्र पूर्व्वंचेतनाधातुः सत्त्वकरणो गुणग्रहणाय प्रवर्त्तते ।स हि हेतुः कारणं निमित्तमक्षरं कर्त्ता मन्तावेदिता बोद्धा द्रष्टा धाता ब्रह्मा विश्वकर्म्माविश्वरूपः पुरुषः प्रभवोऽव्ययो नित्यो गुणी ग्रहणंप्राधान्यमव्यक्तं जीवोज्ञः प्रतुलश्चेतनावान् विभु-र्भूतात्मा चेन्द्रियात्मा चान्तरात्माचेति ।” इतिचरके शारीरस्थाने चतुर्थेऽध्याये
)