| YouTube Channel

विश्वः (vizvaH)

 
Wordnet
Sanskrit
Synonyms:
त्रयोदशः, विश्वः
noun
त्र्याधिकं दश।
"सप्ताधिकं षट् त्रयोदश भवन्ति।"
Synonyms:
ब्रह्माण्डम्, विश्वः
noun
तारकाग्रहनक्षत्रैः युक्तम् अखिलं जगत्।
"ब्रह्माण्डं रहस्यैः परिपूर्णम् अस्ति।"
Synonyms:
संसारः, विश्वः, विश्वम्, जगत्, भुवनम्, मृत्युलोकः, इहलोकः
noun
यत्र सर्वे प्राणिनः वसन्ति।
"अस्मिन् संसारे मृत्युः शाश्वतः।"
शब्दकल्पद्रुमः
Sanskrit
विश्वः,
पुं,
गणदेवताविशेषः इत्यमरः
“वसुसत्यौ क्रतुदक्षौ कालकामौ धृत्रिः कुरुः ।पुरूरवा माद्रवाश्च विश्वेदेवाः प्रकीर्त्तिताः
”इति भरतः
*
“इष्टिश्राद्धे क्रतुर्दक्षः सत्यो नान्दीमुखे वसुः ।नैमित्तिके कालकामौ काम्ये धूरिलोचनौ ।पुरूरवा माद्रवाश्च पार्व्वणे समुदाहृतौ
”इति स्मृतिः
ते तु धर्म्मात् दक्षकन्यायां विश्वायां जाताः ।इति मात्म्ये अध्यायः
*
नागरः इतिविश्वः
स्थूलशरीरव्यष्ट्युपहितचैतन्यम् इतिवेदान्तसारः
*
परिमाणविशेषः यथा, --“गुञ्जाषण्णवतिस्तोलो दशघ्नं तद्भवेत् पलम् ।विश्वा विंशपलं प्रोक्तं दिव्यं कोटिगुणं हि तत् ।सैव कोटिगुणा ब्राह्मी विश्वाः शस्यादि-सम्भवाः
”इति ज्योतिष्मती
विश्वः, त्रि, (विश + क्वन् ।) सकलम् इत्यमरः
(यथा, महाभारते २१८ १६ ।“यस्तु विश्वस्य जगतो बुद्धिमाक्रम्य तिष्ठति ।तं प्राहुरध्यात्मविदो विश्वजिन्नाम पावकम्
”बहु इति निघण्टुः
)