| YouTube Channel

विशेष्यः (vizeSyaH)

 
शब्दकल्पद्रुमः
Sanskrit
विशेष्यः, त्रि, (विशिष्यते गुणादिभिरिति वि +शिष + ण्यत् ।) धर्म्मिपदार्थः द्रव्यादिः ।विशिष्यते यः घटपटादिः भासमान-वैशिष्ट्यानुयोगी अस्य लक्षणं यथा भास-मानवैशिष्ट्यानुयोगित्वं अस्ति घट इतिज्ञाने घटादौ तत् तत्र हि भासमानवैशिष्ट्यंघटघटत्वयोः सम्बन्धस्तदनुयोगित्वस्य घटादौसत्त्वात् अनुयोगित्वमपि स्वरूपसम्बन्धविशेषःप्रतियोगित्वमनुयोगित्वञ्चातिरिक्तपदार्थ इत्य-प्येकदेशिनः इति कणादः