| YouTube Channel

विशिष्टाद्वैतवादी (viziSTAdvaitavAdI)

 
शब्दकल्पद्रुमः
Sanskrit
विशिष्टाद्वैतवादी, [न्] त्रि, (विशिष्टं युक्तंअद्वैतं वदतीति वद् + णिनिः ।) प्रकृति-पुरुषयोर्भिन्नत्वेऽपि मिलितयोस्तयोर्ब्रह्मत्ववादी ।तस्य मतं यथा पुरुषस्तदतिरिक्ता प्रकृतिःकिन्तूभयमिलितं ब्रह्म चणकद्विदलवत् इत्थंब्रह्मण एकत्वं व्यवस्थितम् चित् परमाणु-स्वरूपो जीवः समस्तविश्वं ब्रह्मांशः इतिमाधवभाष्यादिः
*
अद्वैतवादिमतं यथा ।ब्रह्मैव सत्यं प्रत्यक्षादिसिद्धं विश्वं ब्रह्मणि आरोपितम् यथा रज्जुः रज्जुस्वरूपाज्ञानात्सर्पवत् प्रतिभाति तथा ब्रह्मस्वरूपाज्ञानात्विश्वं वस्तुवत् प्रतिभाति प्रकृतिर्जीवश्चापिपर्य्यवसाने ब्रह्मैव ब्रह्मान्यत् सद्वस्तु नास्ति ।अत्र प्रमाणं शारीरिकसूत्रस्य शङ्कराचार्य्य-कृतभाष्यतट्टीकाकल्पतरुभाष्यरत्नप्रभादि