| YouTube Channel

विशिष्टवैशिष्ट्यज्ञान (viziSTavaiziSTyajJAna)

 
वाचस्पत्यम्
Sanskrit
विशिष्टवैशिष्ट्यज्ञान त० विशेषणंविशिष्टे वैशिष्ट्यस्यसंसर्गस्य ज्ञाने यथा रूपवान् घट इत्यादि ज्ञानं तत्रघटत्वविशिष्टे रूपादेः संसर्गस्य भानम् तच्च द्विविधम्विशेषणोपलक्षितप्रतियोगिकवैशिष्ट्यावगाहि विशेषणवि-शिष्टप्रतियोगिकवैशिष्ट्यावगाहि आद्ये विशेषण-ज्ञानासंसर्गयोः कारणता द्वितीये तु विशेषणतावच्छेदक-प्रकारकविशेषणज्ञानस्य कारणता यथाकारणं तयो-र्योधवैलक्षण्यम् तत्र क्वचित् विशेष्ये यद्विशेषणं तत्रापिविशेषणान्तरमिति रीत्या ज्ञानं जायते यथा दण्डवान्पुरुष इति ज्ञानम् अत्र ज्ञाने पुरुषांशे दण्डो दण्डांशेदण्डत्वं विशेषणतया भासते तत्र विशृङ्खलोपस्थितिःप्रयोजिका क्वचिदेकत्र द्वयमिति रीत्या बोधः यथादण्डवान् पुरुष इति ज्ञानम् अत्र ज्ञाने एकस्यांव्यक्तौपुरुषे पुरुषत्वं दण्डश्चेत्युभयं विशेषणतया भासतेनतु विशेषणविशेषणतावच्छेदकभावेन क्वचित् विशिष्ट-वैशिष्ट्यावगाहि ज्ञानं भवति यथा दण्डवान् पुरुष इतिज्ञानमत्र ज्ञाने विशेषणतावच्छेदकप्रकारकं विशेषणज्ञानंकारणम तत्र दण्डरूपविशेषणावच्छिन्न्प्रतियोगिक-वैशिष्ट्यरूपः संसर्गः पुरुषांशे संसर्गतया भासते अतएवविशेषणविशिष्टसंसर्गावगाहि तदिति उपलक्षितज्ञानात्विशेषः क्वचिच्च विशिष्टज्ञानं यथा अयं दण्डीतिज्ञानम् अत्र ज्ञाने इदमर्थे विशेष्ये दण्डात्मक-विशेषणप्रतियोगिकः संसर्गः संसर्गतया मासते उपलक्षणेतु तत्प्रतियोगिकतया संसर्गस्य भानमिति भेदः ।विशिष्टवैशिष्ट्यशाब्दबोधे त्वयं भेदः व्युत्पत्तिवैचित्र्येणउद्देश्यतावच्छेकविधेयतावच्छेकयीः पारतन्त्र्येण परस्परंप्रयोज्यप्रयोजकभावेनान्वयः यथा धनवान् सुखीत्यत्रवनप्रयोज्यत्वस्य सुखे, सुरापः पततीत्यत्र सुरापानस्यपतने प्रयोज्यत्वस्यान्वयः