| YouTube Channel

विशिष्टः (viziSTaH)

 
शब्दकल्पद्रुमः
Sanskrit
विशिष्टः, त्रि, (वि + शिष् + क्तः यद्बा, शास +क्तः ।) युक्तः यथा हस्तानक्षत्रगङ्गा-रूपगुणद्वयविशिष्टदशमीविधेर्यस्मिन् अहनितल्लाभस्तत्र स्नानम् इति तिथ्यादितत्त्वे स्मार्त्त-भट्टाचार्य्यलिखनम्
विशेषेण शिष्टश्च
(यथा, हितोपदेशे ।“समैश्च समतां याति विशिष्टैश्च विशिष्टताम्
”)
विशिष्टः,
पुं,
विष्णुः यथा विशिष्टः शिष्टकृत्शुचिः इति तस्य सहस्रनामस्तोत्रम्