| YouTube Channel

विशातनः (vizAtanaH)

 
शब्दकल्पद्रुमः
Sanskrit
विशातनः, त्रि, (वि + शत + णिच् + ल्युः ।)मोचनकर्त्ता (यथा, महाभारते ८१ १८ ।“नमस्ते देवदेवेश सनातन विशातन ।विष्णो जिष्णो हरे कृष्ण वैकुण्ठ पुरुषोत्तम
”)यथा ।“साधु वीर त्वया पृष्टमवतारकथां हरेः ।यत्त्वं पृच्छसि मर्त्यानां मृत्युपाशविशातनीम्
”इति श्रीभागवते स्कन्धे १४ अध्यायः
“मृत्योः पाशं विशातयति मोचयतीति तथा ।”इति तट्टीकायां श्रीधरस्वामी
(वि + शत +णिच् + ल्युट् पातने, क्ली यथा, महा-भारते १२ १९ ।“यतमानाः प्रयत्नेन द्रोणानीकविशातने ।न शेकुः सृञ्जया युद्धे तद्धि द्रोणेन पालितम्
”)