विश (viza)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
In this section, you'll find information about the dhatus (verbal roots) related to your search. This includes details like dhatu information, forms, and any available commentaries.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
Englishविश - viza - - people
विश - viza - - class
विश - viza - - tribe
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
Englishविश r. 6th cl. (विशति)
1 To enter, to pervade.
With आङ् or प्र prefixed,
1 To go in, to enter.
2 To occupy or engross.
With उप,
1 To sit, to sit down.
2 To approach.
With नि,
1 To dwell, to abide.
2 To place or station.
With नि or अभि and नि,
1 To rest, to halt, to sit down, especially before or in presence of.
2 To conceal.
With निर्, To go out or forth.
With परि, To, place before, to present.
With सम, To lie down, to repose.
With सम् and नि, To be near, to be close to or in the neighbourhood.
With सम् and आङ्, To introduce.
Apte
Englishविशम् [viśam], The fibres of the stalk of a lotus
बिस. -आकरः a kind of plant (भद्रचूड). -कण्ठा a crane. -स्थूल afflicted.
Apte 1890
EnglishMonier Williams Cologne
EnglishMonier Williams 1872
EnglishApte Hindi
Hindiविशम्
- विश् + क
कमल की गंडी के तन्तु रेशे
धातुपाठः (Krishnacharya)
Sanskrit विश्
विश
प्रवेशने
तुदादिः
सकर्मकः
अनिट्
परस्मैपदी
विशति
धातुप्रदीपः
Sanskritविशँ विश प्रवेशने
- विशति निविशते वेष्टा अविक्षत् विष्टम् वेशः वेशनम् 150
शब्दकल्पद्रुमः
Sanskritविश, औ श प्रवेशे । इति कविकल्पद्रुमः ।(तुदा०-पर०-सक०-अनिट् ।) श, विशति ।औ, अविक्षत् । विवेश कश्चिज्जटिलस्तपोवनम् ।विपराजिपरिव्यवक्रीनिविशेत्यादिनात्मनेपदवि-धानेऽपि भर्त्तुरङ्के निविशती भयादिति रघौ ।केवलात् शतृप्रत्ययं विधाय पश्चादुपसर्गयोगा-दिति दुर्घटवृत्तिः । निशब्द इह उपसर्गप्रति-रूपको वा । यस्माद्विश्वमिदं सर्व्वं तस्य शक्त्यामहात्मनः । तस्मादेवोच्यते विष्णुर्विशधातोःप्रवेशनादिति पुराणे विष्णुशब्दव्युत्पादनात्मूर्द्धन्यान्तोऽयमिति केचित् तच्चिन्त्यम् । ताल-व्यान्तस्यैव सर्व्वसम्मतत्वात् । इति दुर्गादासः ॥
वाचस्पत्यम्
Sanskritविश प्रवेशे तु० अनिट् । विशति अविक्षत् ।अधि + उपवेशने ।अभि + नि + मनसः स्थितिहेतुसंयोगभेदे आत्म० एतदर्थे आधा-रस्य कर्मता धर्ममभिनिवेशते अन्यत्रार्थे न कर्मता । “याया संज्ञा यस्मिन् यस्मिन्नमिनिविशते” भाष्यम् । “क्वपि-दपवादविषयेऽप्युत्सर्गोऽभिनिविशते” व्या० परिभाषा ।उप + आसनादौ स्थितिभेदे ।नि + स्थितिभेदे आत्म० “निविशते यदि शूकशिखा पदे” मैम०निर् + उपभोगे “क्रीडारसं निर्विशतीव बाल्ये” कुमा० ‘निर्वेपी-भृतिभोगयोः’ अमरः “निर्विष्टविषयस्नेहः” रघु० ।प्र + अभ्यन्तरगमने ।
क्षीरतरङ्गिणी
Sanskritविशँ विश प्रवेशने
- विशति, वेष्टा नेर्विशः (1317) तङ्-निविशते अभिनिविशश्च (1447) इति कर्म-ग्राममभिनिविशते विभाषा गमहनविदविशाम् (7268) क्वसौ वेट्-विविशिवान् विविश्वान् पदरुज (3316) इति कर्तरि घञ्-वेशो वेश्यावाटः नेपथ्ये व्याप्त्यर्थे वेशः विशिपतिपदि (3456) इति णमुल्-गेहानुप्रवेशम् आस्ते, गेहं गेहमनुप्रवेशमस्ते, गेहमनुप्रवेशम् अनुप्रवेशम् अशूप्रुषि (उ0 1151) इति क्वन्-विश्वम् विटपविष्टप (उ0 3145) इतिविष्टपं लोकः, विशिपम् जॄविशिभ्यां झच् (उ0 3126)-वेशन्तः पल्वलम् वेः शालच् (5228) इति विशाल-विशङ्कटौ 143
धातुवृत्तिः
Sanskritविशँ विश (अर्थः) प्रवेशने
( विशति ) इत्यादि रिषतिवत् (निविशते) "नेर्विशः'' इति तङ् उत्तरसूत्रोपातैः पर्यादिभिः साहचर्यादिहोपसर्गो गृह्यते न तु तत्प्रतिरूपक इति "अड्के निविशति भयात्" इत्यत्र तङ्भावः प्रतिरूपकापेक्षो द्रष्टव्यः ( निविविशे निविविशिषे निवेष्टा निवेक्ष्यते निविशताम् न्यविशत निविशेत निविक्षीष्ट न्यविक्षत निविविक्षतेनिवेविश्यते निवेविशीति निवेवेष्टि विष्टः विष्टवान् विट् विशौ विशः) क्विप् (देवविशा ) अजादिपाठाद्धलन्तादपि टाप् ( वेशः ) "पदरुजविश'' इति कर्तरि घञ्, वेश्याजनसमाश्रये तु "हलश्च'' इति अधिकरणे घञ् गेहानुप्रवेशमास्ते गेहं गेहमनुप्रवेशमास्ते "विशिपदि'' इत्यादिना णमुल् तृतीयाप्रभृतित्वात्समासविकल्पः असमासे व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम् आसेव्यमानतायान्तु क्रियावचनस्य णमुलन्तस्य, समासे तु व्याप्त्यासेवयोस्तेनैवोक्तत्वान्न द्विर्वचनं, क्त्वाप्यत्र वासरूपेण भवति ( गेहमनुप्रविश्यानुप्रविश्यास्ते गेहंगेहमनुप्रविश्यास्ते) इति समासस्त्वस्य न भवत्यनुपपदे विधानादित्येतत्सर्वं स्कन्दत्यादावुक्तम् ( ग्राममभिनिविशते ) "अभिनिविशश्च'' इत्याधारः कर्म अत्र मण्डूकप्लुत्या "परिक्रयणे सम्प्रदानमन्यतरस्याम्'' इत्यतोऽन्यतरस्यांग्रहणानुवृत्तेस्तस्य च व्यवस्थितविभाषात्वात्कल्याणे ऽभिनिवेशः, पापेऽभिनिवेशः, या या संज्ञा यस्मिन्नभिविशते इत्यादौ कर्मत्वाभावः ( वेशन्तः ) "दृविशिभ्यां झष्'' इति झष् "झोऽन्तः'' ( वेश्म ) मनिन् 140
कृदन्तरूपमाला
Sanskrit1 {@“विश प्रवेशने”@} 2 अयं धातुरात्मनेपदेऽपि दृश्यते इति प्रयोगात् ज्ञायते।
तथा हि-- ‘एतै- रुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम।।’ 3।
प्रवेशनम्-अन्तर्गमनम्।
वेशकः-शिका, वेशकः-शिका, 4 विविक्षकः-क्षिका, वेविशकः-शिका
5 वेष्टा-ष्ट्री, वेशयिता-त्री, विविक्षिता-त्री, वेविशिता-त्री
प्रविशन्-ती-न्ती, वेशयन्-न्ती, विविक्षन् 6 -न्ती
-- 7 प्रवेक्ष्यन्-न्ती-ती, वेशयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती
-- 8 9 निविशमानः-व्यतिविशमानः, वेशयमानः, विविक्षमाणः, वेविशमानः
व्यतिवेक्ष्यमाणः, वेशयिष्यमाणः, विविक्षिष्यमाणः, वेविश्यमानः, 10 विट्-विड्- विशौ-विशः
11 विष्टम्-ष्टः-ष्टवान्, वेशितम्-तः, विविक्षितः, वेविशितः-तवान्
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यतिवत् 12 ज्ञेयानि।
विशः- 13 देवविशा, विविशिवान् 14 -विविश्वान्, 15 विशयी-विषयी, 16 वेशः, 17 प्रायोपवेशिका, 18 19 ग्राममभिनिविशमानः, कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, गेहानुप्रवेशमास्ते, चारुशिलोपवेशम्, 20 21 गेहं गेहमनुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशमास्ते, 22 वेशन्तः, 23 वेश्म, 24 विटपः-विष्टपम्-त्रिविष्टपम्, विशिपम्, विशालम्, 25 विश्वम्।
01 (१६१०)
02 (६-तुदादिः-१४२४। सक। अनि। पर।)
03 (मुण्डकोपनिषत् ३-२-४)
04 [[२। सन्नन्तात् ण्वुलि ‘हलन्ताच्च’ (१-१-१०) इति सनः कित्त्वे ‘व्रश्च--’ (८-२-३६) इत्यादिन षत्वे ककारे च रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05 [[३। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, ‘ष्टुना ष्टुः’ (८-४-४१) इति टकारे च रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06 [[B। ‘फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः।।’ शि। व। ३-२३।]]
07 [[C। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघजन्यम्।’ भ। का। ३-२७।]]
08 [पृष्ठम्१२४०+ २८]
09 [[१। ‘नेर्विशः’ (१-३-१७) इति तङ्। ‘अङ्के निविशतीं भयात्’ इत्यादिषु तङभाव उपसर्गप्रतिरूपकेण ‘नि’ इत्यनेन साकं विशतेः समासेनेति बोध्यम्।]]
10 [[२। क्विपि, षकारे, षकारस्य ष्टुत्वेन टकारे च रूपमेवम्।]]
11 [[३। ‘क्तिच्क्तौ च संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।]]
12 (३४९)
13 [[४। क्विबन्तात् अजादिपाठाद्धलन्तादपि टापि च रूपमेवम्।]]
14 [[५। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ इड्विकल्पनात् रूपद्वयं बोद्ध्यम्।]]
15 [[६। णिनिप्रत्यये रूपमेवम्। वृद्ध्यभावो निपातनात्। विषयी इत्यत्र षत्वमपि केचित् आहुः।]]
16 [[७। ‘पदरुजविश--’ (३-३-१६) इति कर्तरि घञ्। विशतीति वेशः। वेश्याजनोप- भोगार्थे तु ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्।]]
17 [[८। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति वुच्प्रत्यये रूपम्। क्तिन्नादीनामप- वादः। प्रायोपवेशिका = मरणपर्यन्तम् अनशनम्।]]
18 [[आ। ‘अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्।।’ भ। का। ७-७६।]]
19 [[९। ‘अभिनिविशश्च’ (१-४-४७) इति अभिनिपूर्वस्य विशतेः कर्मसंज्ञा भवति। ‘परिक्रयणे संप्रदानमन्यतरस्याम्’ (१-४-४४) इत्यतो मण्डूकप्लुत्याऽन्यतरस्यामित्य- नुवृत्तेः, तस्य च व्यवस्थितविभाषात्वात् कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, ‘या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते’, इत्यादिषु कर्मत्वाभावः।]]
20 [[B। ‘कुतूहलाच्चारुशिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त।।’ भ। का। २। ११।]]
21 [[१०। ‘विशिपतिपदि--’ (३-४-५६) इति द्वितीयान्त उपपदे णमुल्प्रत्ययो भवति व्याप्यमाने आसेव्यमाने चार्थे गम्यमाने। तृतीयाप्रभृतित्वात् (२-२-२१) समासवि- कल्पः। असमासे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्। आसेव्यमानतायां तु क्रियावचनस्य ‘उपपदमतिङ्’ इति समासः। समासेन व्याप्त्यासेवयोरुक्तत्वात् ‘नित्यवीप्सयोः’ (८-१-४) इति द्विर्वचन न भवति।]]
22 [पृष्ठम्१२४१+ २९]
23 [[१। ‘जॄविशिभ्यां झच्’ (द। उ। ६-१७) इति झच्प्रत्यये, ‘झोऽन्तः’ (७-१-३) इत्यन्तादेशे च रूपमेवम्। वेशन्तः पल्वलः।]]
24 [[२। ‘विटपविष्टपविशिपोलवाः’ (द। उ। ७-१२) इति कपन्प्रत्यये निरूढः। शकारस्य टकारो निपातनात्। तेन विशन्त्यस्मिन् पक्षिण इति विटपम् = शाखावयवः। अस्यैव धातोः षकारेऽन्तादेशे तुडागमश्च निपात्यते। विशन्त्यस्मिन् पुण्यकृत इति विष्टपम् = पुण्यकृतां स्थानम्। त्रिविष्टपम् = स्वर्गः। अस्यैव धातोः प्रत्ययादेरित्वं निपात्यते। तेन विशिपम् = वेश्म, आसनं च इत्यर्थः। पद्मं चेत्येके।]]
25 [[४। औणादिके (द। उ। ८।-१२५) क्वन्प्रत्यये रूपम्। विशति तस्मिन् सर्वम् इति विश्वम्।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
