| YouTube Channel

विव्यथिषकः-षिका (vivyathiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“व्यथ भयसंचलनयोः”@} 2 घटादिः, षिच्च।
‘-- दुःखभयचलनयोः’ इति काशकृत्स्नः।
‘--दुःख- चलनयोः’ इति दुर्गः।
‘दुःखे चाले भये’ इति वोपदेवः इति पा।
धा।
समीक्षा।
व्याथकः-थिका, 3 व्यथकः-थिका, विव्यथिषकः-षिका, वाव्यथकः-थिका
व्यथिता-त्री, व्यथयिता-त्री, विव्यथिषिता-त्री, वाव्यथिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि भौवादिकक्लथतिवत् 4 ऊह्यानि।
5 अव्यथ्यः 6, 7 अव्याथी, 8 अव्यथी 9, 10 व्यथनः, 11 व्यथा, 12 व्याथं-व्याथम्-व्यथं-व्यथम्, 13 विथुरः, 14 विधुरः इत्यादीनि रूपाणि अस्य धातोः विशेषेण भवन्ति।
शानचि- 15 व्यथ्यमानः।
प्रासङ्गिक्यः
01
=>
(१६५३)
02
=>
(१-भ्वादिः-७६४। सक। सेट्। आत्म।)
03
=>
[[३। धातोरस्य घटादित्वात् ण्यन्ते, ‘घटादयो मितः’ (ग। सू। भ्वादिः) इति मित्त्वात् ‘मितां ह्रस्वः’ (६-४-९२) इति ह्रस्वे रूपमेवम्। ण्यन्ते सर्वत्र एवमेव प्रक्रिया ऊह्या।]]
04
=>
(२८०)
05
=>
[[४। ‘राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः’ (३-१-११४) इति कर्तरि क्य- प्प्रत्यये निपात्यते। व्यथते--अव्यथ्यः।]]
06
=>
[[आ। ‘समुत्तरन्तावव्यथ्यौ नदान् भिद्योद्ध्यसन्निभान्।’ भ। का। ६-६०।]]
07
=>
[[५। ‘… व्यथवदवसां प्रतिषिद्धानाम्’ (ग। सू। ३-१-१३४) इति ग्रह्यादिपाठात् णिनिप्रत्यये अव्याथी इति रूपं सिद्ध्यति इति क्षीरस्वामी। प्रकृतगणसूत्रे ‘व्यथ’ इत्यत्र ‘व्रज’ इत्येव दृश्यते।]]
08
=>
[[६। ‘जिदृक्षिविश्रीण्वमाव्यथ--’ (३-२-१५७) इति तच्छीलादिषु कर्तृषु इनिप्रत्यये रूपमेवम्।]]
09
=>
[[B। ‘न्याय्यं परिभवी ब्रूहि पापमव्यथिनं कपिम्।।’ भा। का। ७-२०।]]
10
=>
[[७। तच्छीलादिषु कर्तृषु युच्प्रत्यये रूपमेवम्।]]
11
=>
[[८। अस्य धातोः षित्त्वाद् ‘षिद्भिदादिभ्योऽङ् (३-३-१०४) इति स्त्रियामङ्प्रत्ययः।]]
12
=>
[[९। णमुलि, ‘चिण्णमुलोः--’ (६-४-९३) इति णौ परत उपधायाः दीर्घः विकल्पेन भवति। तेन रूपद्वयं बोध्यम्।]]
13
=>
[पृष्ठम्१२७०+ ३३]
14
=>
[[१। ‘व्यथेः संप्रसारणं धः किच्च’ (द। उ। ८-२२) इति उरच्प्रत्यये, संप्रसारणे, धातु- थकारस्य धकारादेशे रूपमेवम्। विधुरः = चोरः, अनग्निकः, राक्षसश्च। धातुवृत्तावपि एवमेव स्थितम्। “… व्यथधातौ त्वेतद् युक्तम्। ‘त्वमेषां विथुरा शावांसि’ (ऋ। ६-२५-३) ‘अतिविद्धा विथुरेणा चिदस्रा’ (ऋ। ८-९६-२) इत्यादिनन्त्रेषु थकारपाठस्य निर्विवादत्वात्। यदपि माधवेनोक्तम्-- ‘विदि- भिदि--’ (३-२-१६२) इत्यत्र ‘व्यथेः संप्रसारणं च’ इति वचनात् कुरचि थान्तं रूपमिति तदतिस्थवीयः। कुरज्विधायके सूत्रे व्यथेरुपसंख्यानस्याप्रसिद्धत्वात्। तस्मादिह ‘धः किच्च’ इति दशपादीपाठं पुरस्कुर्वन्तः प्रसादकारादयोऽप्यु- पेक्ष्याः। कथं तर्हि विधुर इति प्रयोगस्य निर्वाह इति चेत्--धुरो विगत इति प्रादिसमासेनेत्यवधेहि। ‘समासान्ताः’ (५-४-६९) इति सूत्रे वृत्तिपदमञ्जर्यो- स्तथैवोक्तत्वात्” इति प्रौढमनोरमाकारः। एवं तत्त्वबोधिनीकारोऽपि। (द। उ। ८-२२) टिप्पन्यपीहानुसन्धेया। काशिकायां तु (३-२-१६२) ‘व्यधेः सम्प्रसारणं कुरच्च वक्तव्यः’ इति दृश्यते।]]
15
=>
[[आ। ‘मन्मथायुथसंपातव्यथ्यमानमतिः पुनः।।’ भ। का। ४-३०।]]