| YouTube Channel

विवेदयिषकः-षिका (vivedayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विद चेतनाख्याननिवासेषु”@} 2 आकुस्मीयः।
‘-- विवादेषु’ इति क्षीरस्वामी।
‘-- वेदने’ इत्येके।
‘विद वेदना- ख्यानपरिवादनेषु’ इति न्यासे पाठः।
“निपातनेषु इति धनपालशा- कटायनौ” इति पुरुषकारः 3।
‘विन्दते विन्दतीत्येवं लाभे, वेदयते णिचि।।’ 4 इति देवः।
वेदकः-दिका, विवेदयिषकः-षिका, वेदयिता-त्री, विवेदयिषिता-त्री
इत्यादिकानि सर्वाण्यपि प्रातिस्विकरूपाणि विना--चौरादिककेतयतिवत् 5 ज्ञेयानि।
‘अनुपसर्गाद्--’ 6 इति शप्रत्यये वेदयः इति।
‘घट्टिवन्दि- विदिभ्यश्च’ 7 इति ण्यन्तात् स्त्रियां युच्प्रत्यये वेदना इति रूपम्।
प्रासङ्गिक्यः
01
=>
(१६०५)
02
=>
(१०-चुरादिः-१७०९। सक। सेट्। आत्म।)
03
=>
(श्लो। १११)
04
=>
(श्लो। १११)
05
=>
(२६०)
06
=>
(३-१-१३८)
07
=>
(वा। ३-३-१०७)