| YouTube Channel

विवेकी (vivekI)

 
शब्दकल्पद्रुमः
Sanskrit
विवेकी, [न्]
पुं,
(विवेकोऽस्यास्तीति विवेक +इनिः ।) देवसेनराजपुत्त्रः यथा, --“देवसेनोऽपि केशिन्यां जनयामास पुत्त्रकान् ।सप्त शृणुत तान् यूयं नामतः कीर्त्तितांस्तथा
सुमना वसुदानश्च ऋतध्रग्यवनः कृती ।नीलो विवेकीत्येते वै सर्व्वशास्त्रविशारदाः
”इति कालिकापुराणे भैरववंशानुकीर्त्तने ९०अध्यायः
विचारकर्त्ता इति मेदिन्यां विवेक-शब्दार्थदर्शनात्
विवेकविशिष्टे, त्रि
(यथा, मार्कण्डेये ६६ ३४ ।“दृष्टादृष्टांस्तथा भोगान् वाञ्छमाना विवे-किनः ।दानानि प्रयच्छन्ति पूर्णधर्म्मांश्च कुर्व्वते
”)