| YouTube Channel

विविष्कयिषिता-त्री (viviSkayiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विष्क हिंसायाम्”@} 2 आकुस्मीयः।
क्षीरतरङ्गिण्यां धातुरयं दृश्यते।
अपि तु तत्र ‘किष्क’ इति पठित्वा ‘हिष्क’ इति दुर्गः’ इति उक्तम्।
‘किष्क’ इति पठित्वा, हिष्क इत्येके’ इति धातुकाव्यव्याख्या 3।
‘धातुप्रदीपादौ-- ‘हिष्क’ इति पठ्यते’ इति मा।
धा।
वृत्तिः।
विष्ककः-ष्किका, विविष्कयिषकः-षिका, विष्कयिता-त्री, विविष्कयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाणि चौरादिकचित्रयतिवत् 4 बोध्यानि।
धातोरस्य आत्मनेपदित्वात् विष्कयमाणः, विविष्कयिषमाणः इति विशेषः।
‘किष्क’ इति पक्षे किष्किन्धा, किष्कुः, इति औणादिके।
‘किष्कुर्द्वयोर्वितस्तौ च--’ इति मेदिनी।
प्रासङ्गिक्यः
01
=>
(१६१३)
02
=>
(१०-चुरादिः-१६८६। सक। सेट्। आत्म।)
03
=>
(३-३४)
04
=>
(५२५)
1 {@“विष्क दर्शने”@} 2 अदन्तः।
क्षीरस्वामी धातुममुं पठति।
विष्ककः-ष्किका, विविष्कयिषकः-षिका, विष्कयिता-त्री, विविष्कयिषिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि चौरादिकचित्रयतिवत् 3 ज्ञेयानि।
प्रासङ्गिक्यः
01
=>
(१६१४)
02
=>
(१०-चुरादिः-१९४०। सक। सेट्। उभ।)
03
=>
(५२५)