| YouTube Channel

विविजिषकः-षिका (vivijiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“ओ विजी भयचलनयोः”@} 2 ‘वेवेक्तीति पृथग्भावे विवेक्ते भये पुनः।
विनक्ति विजते…।’ 3 इति देवः।
वेजकः-जिका, वेजकः-जिका, विविजिषकः-षिका, वेविजकः-जिका
विजिता-त्री, वेजयिता-त्री, विविजिषिता-त्री, वेविजिता-त्री
इत्यादिकानि रूपाणि सर्वाण्यपि अव्यवहितपूर्वलिखिततौदादिकधातुवत् 4 ज्ञेयानि।
शतरि, अस्य धातोः रुधादित्वात् श्नमि ‘श्नसोरल्लोपः’ 5 इत्यकारलोपे श्चुत्वे च--उद्विञ्जन्-ती इति।
ण्यन्तात् तृचि- 6 उद्वेजयिता-त्री, क्त्वायाम्- 7 विजित्वा इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५९९)
02
=>
(७-रुधादिः-१४६०। सक। सेट्। पर।)
03
=>
(श्लो। ६१-६२)
04
=>
(१५९८)
05
=>
(६-४-१११)
06
=>
[[B। ‘अत्यर्थमुद्वेजयिता परेषां नाम्नापि तस्यैव नन्दकोऽभूत्।।’ शि। व। ३-१९।]]
07
=>
[[२। क्त्वाप्रत्यये, ‘न क्त्वा सेट्’ (१-२-१८) इत्यकित्त्वेऽपि ‘विज इट्’ (१-२-२) इति ङित्त्वान्न गुणः।]]