| YouTube Channel

विविक्षितः (vivikSitaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“विश प्रवेशने”@} 2 अयं धातुरात्मनेपदेऽपि दृश्यते इति प्रयोगात् ज्ञायते।
तथा हि-- ‘एतै- रुपायैर्यतते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम।।’ 3।
प्रवेशनम्-अन्तर्गमनम्।
वेशकः-शिका, वेशकः-शिका, 4 विविक्षकः-क्षिका, वेविशकः-शिका
5 वेष्टा-ष्ट्री, वेशयिता-त्री, विविक्षिता-त्री, वेविशिता-त्री
प्रविशन्-ती-न्ती, वेशयन्-न्ती, विविक्षन् 6 -न्ती
-- 7 प्रवेक्ष्यन्-न्ती-ती, वेशयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती
-- 8 9 निविशमानः-व्यतिविशमानः, वेशयमानः, विविक्षमाणः, वेविशमानः
व्यतिवेक्ष्यमाणः, वेशयिष्यमाणः, विविक्षिष्यमाणः, वेविश्यमानः, 10 विट्-विड्- विशौ-विशः
11 विष्टम्-ष्टः-ष्टवान्, वेशितम्-तः, विविक्षितः, वेविशितः-तवान्
इत्यादिकानि रूपाणि सर्वाण्यपि दैवादिकखिद्यतिवत् 12 ज्ञेयानि।
विशः- 13 देवविशा, विविशिवान् 14 -विविश्वान्, 15 विशयी-विषयी, 16 वेशः, 17 प्रायोपवेशिका, 18 19 ग्राममभिनिविशमानः, कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, गेहानुप्रवेशमास्ते, चारुशिलोपवेशम्, 20 21 गेहं गेहमनुप्रवेशमास्ते गेहमनुप्रवेशमनुप्रवेशमास्ते, 22 वेशन्तः, 23 वेश्म, 24 विटपः-विष्टपम्-त्रिविष्टपम्, विशिपम्, विशालम्, 25 विश्वम्।
प्रासङ्गिक्यः
01
=>
(१६१०)
02
=>
(६-तुदादिः-१४२४। सक। अनि। पर।)
03
=>
(मुण्डकोपनिषत् ३-२-४)
04
=>
[[२। सन्नन्तात् ण्वुलि ‘हलन्ताच्च’ (१-१-१०) इति सनः कित्त्वे ‘व्रश्च--’ (८-२-३६) इत्यादिन षत्वे ककारे रूपमेवम्। एवं सन्नन्ते सर्वत्र बोध्यम्।]]
05
=>
[[३। तृचि, ‘व्रश्च--’ (८-२-३६) इत्यादिना शकारस्य षकारे, ‘ष्टुना ष्टुः’ (८-४-४१) इति टकारे रूपमेवम्। एवं तव्यदादिष्वपि ज्ञेयम्।]]
06
=>
[[B। ‘फणावतस्त्रासयितुं रसायास्तलं विवक्षन्निव पन्नगारिः।।’ शि। व। ३-२३।]]
07
=>
[[C। ‘स प्रोषिवानेत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं जनौघजन्यम्।’ भ। का। ३-२७।]]
08
=>
[पृष्ठम्१२४०+ २८]
09
=>
[[१। ‘नेर्विशः’ (१-३-१७) इति तङ्। ‘अङ्के निविशतीं भयात्’ इत्यादिषु तङभाव उपसर्गप्रतिरूपकेण ‘नि’ इत्यनेन साकं विशतेः समासेनेति बोध्यम्।]]
10
=>
[[२। क्विपि, षकारे, षकारस्य ष्टुत्वेन टकारे रूपमेवम्।]]
11
=>
[[३। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तप्रत्ययः।]]
12
=>
(३४९)
13
=>
[[४। क्विबन्तात् अजादिपाठाद्धलन्तादपि टापि रूपमेवम्।]]
14
=>
[[५। ‘विभाषा गमहनविदविशाम्’ (७-२-६८) इति क्वसौ इड्विकल्पनात् रूपद्वयं बोद्ध्यम्।]]
15
=>
[[६। णिनिप्रत्यये रूपमेवम्। वृद्ध्यभावो निपातनात्। विषयी इत्यत्र षत्वमपि केचित् आहुः।]]
16
=>
[[७। ‘पदरुजविश--’ (३-३-१६) इति कर्तरि घञ्। विशतीति वेशः। वेश्याजनोप- भोगार्थे तु ‘हलश्च’ (३-३-१२१) इति अधिकरणे घञ्।]]
17
=>
[[८। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति वुच्प्रत्यये रूपम्। क्तिन्नादीनामप- वादः। प्रायोपवेशिका = मरणपर्यन्तम् अनशनम्।]]
18
=>
[[आ। ‘अहं पर्यायसंप्राप्तां कुर्वे प्रायोपवेशिकाम्।।’ भ। का। ७-७६।]]
19
=>
[[९। ‘अभिनिविशश्च’ (१-४-४७) इति अभिनिपूर्वस्य विशतेः कर्मसंज्ञा भवति। ‘परिक्रयणे संप्रदानमन्यतरस्याम्’ (१-४-४४) इत्यतो मण्डूकप्लुत्याऽन्यतरस्यामित्य- नुवृत्तेः, तस्य व्यवस्थितविभाषात्वात् कल्याणेऽभिनिवेशः, पापेऽभिनिवेशः, ‘या या संज्ञा यस्मिन् यस्मिन् संज्ञिन्यभिनिविशते’, इत्यादिषु कर्मत्वाभावः।]]
20
=>
[[B। ‘कुतूहलाच्चारुशिलोपवेशं काकुत्स्थ ईषत्स्मयमान आस्त।।’ भ। का। २। ११।]]
21
=>
[[१०। ‘विशिपतिपदि--’ (३-४-५६) इति द्वितीयान्त उपपदे णमुल्प्रत्ययो भवति व्याप्यमाने आसेव्यमाने चार्थे गम्यमाने। तृतीयाप्रभृतित्वात् (२-२-२१) समासवि- कल्पः। असमासे तु व्याप्यमानतायां द्रव्यवचनस्य द्विर्वचनम्। आसेव्यमानतायां तु क्रियावचनस्य ‘उपपदमतिङ्’ इति समासः। समासेन व्याप्त्यासेवयोरुक्तत्वात् ‘नित्यवीप्सयोः’ (८-१-४) इति द्विर्वचन भवति।]]
22
=>
[पृष्ठम्१२४१+ २९]
23
=>
[[१। ‘जॄविशिभ्यां झच्’ (द। उ। ६-१७) इति झच्प्रत्यये, ‘झोऽन्तः’ (७-१-३) इत्यन्तादेशे रूपमेवम्। वेशन्तः पल्वलः।]]
24
=>
[[२। ‘विटपविष्टपविशिपोलवाः’ (द। उ। ७-१२) इति कपन्प्रत्यये निरूढः। शकारस्य टकारो निपातनात्। तेन विशन्त्यस्मिन् पक्षिण इति विटपम् = शाखावयवः। अस्यैव धातोः षकारेऽन्तादेशे तुडागमश्च निपात्यते। विशन्त्यस्मिन् पुण्यकृत इति विष्टपम् = पुण्यकृतां स्थानम्। त्रिविष्टपम् = स्वर्गः। अस्यैव धातोः प्रत्ययादेरित्वं निपात्यते। तेन विशिपम् = वेश्म, आसनं इत्यर्थः। पद्मं चेत्येके।]]
25
=>
[[४। औणादिके (द। उ। ८।-१२५) क्वन्प्रत्यये रूपम्। विशति तस्मिन् सर्वम् इति विश्वम्।]]
1 {@“विषॢ व्याप्तौ”@} 2 ‘व्याप्तौ वेवेष्टि वेविष्टे…।।’ 3 इति देवः।
‘विषृ--’ इति काशकृत्स्नः।
तत्र ‘विषॢ इति कातन्त्रे पाठः’ इति तत्रोक्तम्।
“उदिदित्येके।
इरिदिति द्रुमे” इति धा।
का।
व्याख्या 4।
वेष्टा, विष्टवान्, विष्टः, वेषन्, वेषकः इत्येते व्यापकेऽर्थे।
वेषः, विष्टम्, वेषणीयम्, वेष्यम्, वैष्यम्, वेष्टव्यम्, वेषणं, विष्टिः इत्यष्टौ आवरणार्थे।
5 वेषकः-षिका, वेषकः-षिका, 6 विविक्षकः-क्षिका, वेविषकः-षिका
वेष्टा-ष्ट्री, वेषयिता-त्री, विविक्षिता-त्री, वेविषिता-त्री
7 वेविषत्-ती, वेषयन्-न्ती, विविक्षन्-न्ती
-- वेक्ष्यन्-न्ती-ती, वेषयिष्यन्-न्ती-ती, विविक्षिष्यन्-न्ती-ती
-- वेविषाणः, वेषयमाणः, विविक्षमाणः, वेविषमाणः
वेक्ष्यमाणः, वेषयिष्यमाणः, विविक्षिष्यमाणः, वेविषिष्यमाणः
विट्-विषौ-विषः, वेट्-वेषौ-वेषः
-- -- विष्टम्-विष्टः-विष्टवान्, 8 आविष्टलिङ्गम्, वेषितम्-तः, विविक्षितः, वेविषितः-तवान्
इत्यादिकानि रूपाणि सर्वाण्यपि जौहोत्यादिकणिजिर्धातुवत् 9 ऊह्यानि।
10 विष्टिः, 11 विष्णुः, 12 वेष्पम्, 13 वैष्ट्रः, 14 विषम्।
इमानि औणादिकनिष्पन्न- रूपाणीति ज्ञेयानि।
15 विषयम् = आवरणम्।
विषयो = देशः।
16
प्रासङ्गिक्यः
01
=>
(१६१५)
02
=>
(३-जुहोत्यादिः-१०९५। अक। अनि। उभ।)
03
=>
(श्लो। १७४)
04
=>
(२-५५)
05
=>
[पृष्ठम्१२४३+ २८]
06
=>
[[१। सन्नन्तात् ण्वुलि, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वे ‘षढोः कः सि’ (८-२-४१) इति षकारस्य ककारे ‘इण्कोः’ (८-३-५७) इति सकारस्य षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
07
=>
[[२। ‘जुहोत्यादिभ्यः--’ (२-४-७५) इति श्लौ, ‘श्लौ’ (६-१-१०) इति द्वित्वे, ‘निजां त्रयाणां गुणः श्लौ’ (७-४-७५) इति अभ्यासस्य गुणे, ‘नाभ्यस्ताच्छतुः’ (७-१-८०) इति नुम्निषेधे रूपमेवम्। एवं वेविषाणः इत्यत्रापि गुणो ज्ञेयः। अनिट्कारिकायां विषिग्रहणेन जौहोत्यादिकोऽयं गृह्यते इति न्यासे।]]
08
=>
[[३। ‘आविष्टलिङ्गा जातिर्यल्लिङ्गमुपादाय प्रवर्तते उत्पत्तिप्रभृति आविनाशान्न तं लिङ्गं जहाति’ इति महाभाष्यवचनं (१-२-५२) अत्र द्रष्टव्यम्।]]
09
=>
(६७३)
10
=>
[[४। ‘क्तिच्क्तौ संज्ञायाम्’ (३-३-१७४) इति संज्ञायां क्तिच्।]]
11
=>
[[५। ‘विषेः किच्च’ (द। उ। १-१४९) इति णुप्रत्ययः किच्च भवति। वेवेष्टि कृत्स्नमिति विष्णुः = सर्वव्यापी भगवान्।]]
12
=>
[[६। ‘पानीविषिभ्यः पः’ (द। उ। ७-२) इति पप्रत्यये रूपम्। वेष्पम् = परमात्मा।]]
13
=>
[[७। औणादिके (द। उ। ८-८०) ष्ट्रन्प्रत्यये रूपमेवम्। वैष्ट्रः = विष्णुः वायुश्च इति।]]
14
=>
[[८। व्याप्तिकर्मणि गम्यमाने औणादिकः (द। उ। ९। २०) कन्प्रत्ययो भवति। विषम् = प्राणहरद्रव्यम् इत्यर्थः। जलार्थको विषशब्दो वेदे प्रयुज्यते। द्रष्टव्या निघण्टुः (१-१२)।]]
15
=>
[[९। बाहुलकात् औणादिके (द। उ। १-१२) कयन्प्रत्यये रूपमेवम्।]]
16
=>
[पृष्ठम्१२४४+ ३१]