विवाहः (vivAhaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishविवाहः [vivāhḥ], Marriage
(Hindu lawgivers enumerate eight forms of marriage
ब्राह्मो दैवस्तथैवार्षः प्राजापत्यस्तथा$$सुरः । गांधर्वो राक्षसश्चैव पैशाचश्चाष्टमो$धमः ॥ 3.21
see 1. 58-61 also
for explanation of these forms see s. v. ).Comp. -चतुष्टयम् marrying four wives. -दीक्षा the marriage ceremony or rite
विवाहदीक्षां निरवर्तयद् गुरुः 3.33. -नेपथ्यम्, -वेषः a marriage-dress.
Apte 1890
Englishविवाहः Marriage
(Hindu lawgivers enumerate eight forms of marriage
ब्राह्म दैवस्तथै वार्षः प्राजापत्यस्तथासुरः । गांधर्वे राक्षसश्चैव पैशाचश्च ष्टमोऽधमः Ms. 3. 21
see Y. 1. 58-61 also
for explanation of these forms see s. v.).
Comp.
चतुष्टयं marrying four wives.
दीक्षा the marriage ceremony or rite
R. 3. 33.
Apte Hindi
Hindiविवाहः
- वि + वह् + घञ्
शादी ब्याह
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit विवाहः, उपयमः, परिणयः, उद्वाहः, उपयामः, पाणिपीडनम्, दारकर्मः, करग्रहः, पाणिग्रहणम्, निवेशः, पाणिकरणम्, संबन्धः, पाणिग्रहः, दारसम्बन्धः, उद्वहः, दारोपसंग्रहः, पाणिग्राहः, परिग्रहः, प्रोद्वाहः, संग्रहः, समुद्वाहः, परिणीतम्, अधिगमनम्, उद्वहनम्, उद्वाहनम्, करार्पणम्, दाराधिगमनम्, निवेशनम्, पतित्वम्, पतित्वनम्, परिग्रहत्वम्, परिणयनम्, बान्धुक्यम्, मैथुनम्
सः धार्मिकः सामाजिकः वा संस्कारः येन स्त्रीपुरुषौ परस्परं पतिपत्नीरूपेण स्वीकुरुतः।
"सोहनस्य विवाहः राधया सह जातः।"
अमरकोशः
SanskritWord: विवाहः
Root: विवाह
Gender: पुं
Number: all
Meaning(s):
⇒ vehicle
⇒ wedding
⇒ marriage
⇒ leading away
⇒ marriage with
⇒ taking a wife
⇒ particular wind
Shloka(s):
2|7|56|1 ► परिवित्तिस्तु तज्ज्यायान्विवाहोपयमौ समौ। (ब्रह्मवर्गः)
2|7|56|2 ► तथा परिणयोद्वाहोपयामाः पाणिपीडनम्॥ (ब्रह्मवर्गः)
Synonym(s):
➠ 2|7|56|1 ⇢ विवाहः (विवाह) (पुं) ⇒ vehicle, wedding, marriage, leading away, marriage with, taking a wife, particular wind
➠ 2|7|56|1 ⇢ उपयमः (उपयम) (पुं) ⇒ stay, support, marriage, marrying, appropriation, kindling a fire, taking possession of
➠ 2|7|56|2 ⇢ परिणयः (परिणय) (पुं) ⇒ marriage, leading round, leading the bride round the fire
➠ 2|7|56|2 ⇢ उद्वाहः (उद्वाह) (पुं)
➠ 2|7|56|2 ⇢ उपयामः (उपयाम) (पुं) ⇒ ladle, marriage, marrying, particular vessel for ladling out
➠ 2|7|56|2 ⇢ पाणिपीडनम् (पाणिपीडन) (नपुं)
Related word(s):
जातिः ➡ क्रिया
शब्दकल्पद्रुमः
Sanskritविवाहः, (विशिष्टं वहनम् । वि + वह +घञ् ।) उद्वाहः । दारपरिग्रहः । तत्पर्य्यायः ।उपयमः २ परिणयः ३ उद्बाहः ४ उपयामः ५पाणिपीडनम् ६ । इत्यमरः ॥
दारकर्म्म ७करग्रहः ८ । इति शब्दरत्नावली ॥
पाणि-ग्रहणम् ९ निवेशः १० पाणिकरणम् ११ ।इति जटाधरः ॥
स चाष्टविधः । यथा, --“ब्राह्म्यो विवाह आहूय दीयते शक्त्यलङ्कृता ।तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥
यज्ञस्थायर्त्विजे दैवमादायार्षन्तु गोयुगम् ।चतुर्द्दशप्रथमजः पुनात्युत्तरजश्च षट् ॥
इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने ।सकायः पावयेत्तज्जः षड्वंश्यांश्च सहात्मना ॥
आसुरो द्रषिणादानात् गान्धर्व्वः समयान्मिथः ।राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥
”इति याज्ञवल्क्यः ॥
* ॥
अपि च ।“गृहीतविद्यो गुवरे दत्त्वा च गुरुदक्षिणाम् ।गार्हस्थ्यमिच्छन् भूपाल कुर्य्याद्दारपरिग्रहम् ॥
वर्षैरेकगुणां भार्य्यामुद्वहेत्त्रिगुणः स्वयम् ।नातिकेशामकेशां वा नातिकृच्छ्रां न पिङ्गलाम् ॥
निसर्गतोऽधिकाङ्गीं वा न्यूनाङ्गीमपि नोद्वहेत् ।अविशुद्धां सरोगां वाकुलजां वातिरोगिणीम् ॥
न दुष्टां दुष्टवाचाटां वाङ्गिनीं पितृमातृतः ।न श्मश्रुव्यञ्जनवतीं न चैव पुरुषाकृतिम् ॥
न घर्घरस्वरां क्षामवाक्यां काकस्वरां न च ।नानिबद्धेक्षणां तद्वद्वृत्ताक्षीं नोद्ब हेद्बुधः ॥
यस्याश्च रोमशे जङ्घे गुल्फौ चैव तथोन्नतौ ।कूपौ यस्या हसन्त्याश्च गण्डयोस्ताञ्च नोद्बहेत् ॥
नातिरूक्षच्छविं पाण्डुकरजामरुणेक्षणाम् ।आपीनहस्तपादाञ्च न कन्यामुद्वहेद्बुधः ॥
न वामनां नातिदीर्घां नोद्वहेत् संहतभ्रुवम् ।न चातिच्छिद्रदशनां न करालमुखीं नरः ॥
पञ्चमीं मातृपक्षाच्च पितृपक्षाच्च सप्तमीम् ।गृहस्थश्चोद्वहेत् कन्यां न्यायेन विधिना नृप ॥
ब्राह्म्यो दैवस्तथैवार्षः प्राजापत्यस्तथासुरः ।गान्धर्व्वराक्षसौ वान्यौ पैशाचश्चाष्टमोऽधमः ॥
एतेषां यस्य यो धर्म्मो वर्णस्योक्तो मनीषिभिः ।कुर्व्वीत दाराहरणं तेनान्यं परिवर्ज्जयेत् ॥
स धर्म्मचारिणीं प्राप्य गार्हस्थ्यं सहितस्तया ।समुद्बहेद्ददात्येतत् सम्यगूढं महाफलम् ॥
”इति विष्णुपुराणे ३ अंशे १० अध्यायः ॥
* ॥
अन्यच्च ।याज्ञवल्क्य उवाच ।“शृण्वन्तु मुनयो धर्म्मान् गृहस्थस्य यतव्रताः ।गुरवे च धनं दत्त्वा स्नात्वा च तदनुज्ञया ॥
अविप्लुतब्रह्मचर्य्यो लक्षण्यां स्त्रियमुद्बहेत् ।अनन्यपूर्व्विकां कान्तामसपिण्डां यवीयसीम् ॥
अरोगिणीं भ्रातृमतीमसमानार्षगोत्रजाम् ।पञ्चमात् सप्तमादूर्द्द्वं मातृतः पितृतस्तथा ॥
द्विपञ्चनवविख्यातात् श्रोत्रियाणां महाकुलात् ।सवर्णः श्रोत्रियो विद्वान् वरदोषान्वितो न च ॥
यदुच्यते द्विजातीनां शूद्रादारोपसंग्रहः ।न तन्मम मतं यस्मात्तत्रायं जायते स्वयम् ॥
तिस्रो वर्णानुपूर्व्वेण द्बे तथैका यथाक्रमम् ।ब्राह्मणक्षत्त्रियविशां भार्य्यां वा शूद्रजन्मनः ॥
ब्राह्मो विवाह आहूय दीयते शक्त्यलङ्कृता ।तज्जः पुनात्युभयतः पुरुषानेकविंशतिम् ॥
यज्ञस्थायर्त्विजे दैवमादायार्षस्तु गोयुगम् ।चतुर्द्दश प्रथमजः पुनात्युत्तरतश्च षट् ॥
इत्युक्त्वा चरतां धर्म्मं सह या दीयतेऽर्थिने ।सकायः पावयेत्तज्जः षड्वंश्यानात्मना सह ॥
आसुरो द्रविणादानात् गान्धर्व्वः समयान्मिथः ।राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥
चत्वारो ब्राह्मणस्याद्यास्तथा गान्धर्व्वराक्षसौ ।राज्ञस्तथासुरो वैश्ये शूद्रे चान्त्यस्तु गर्हितः ॥
पाणिर्ग्राह्यः सवर्णासु गृह्णीत क्षत्त्रिया शरम् ।वैश्या प्रतोदमादद्याद्वेदने चाग्रजन्मनः ॥
पिता पितामहो भ्राता सकुल्यो जननी तथा ।कन्याप्रदः पूर्व्वनाशे प्रकृतिस्थः परः परः ॥
अप्रयच्छन् समाप्नोति भ्रूणहत्यामृतावृतौ ।एषामभावे दातॄणां कन्या कुर्य्यात् स्वयंवरम् ॥
सकृत् प्रदीयते कन्या हरंस्तां चौरदण्डभाक् ।अदुष्टां हि त्यजन् दण्ड्यः सुदुष्टां हि परि-त्यजेत् ।”इति गारुडे ९५ अध्यायः ॥
* ॥
अपरञ्च ।यम उवाच ।“कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वल-ङ्कृताम् ।ब्रह्मदेयां द्विजश्रष्ठ ब्रह्मलोकं व्रजन्ति ते ॥
कन्यादानन्तु सर्व्वेषां दानानामुत्तमं स्मृतम् ॥
महान्त्यपि समृद्धानि गोऽजाविकधनान्यतः ।स्त्रीसम्बन्धे दशेमानि कुलानि परिवर्ज्जयेत् ॥
हीनज्ञातिषु पाषण्ड मुने उद्वेगकारिणाम् ।छद्मामयसदावाच्यचित्रिकुष्टिकुलानि च ॥
यस्यास्तु न भवेद्भ्राता न च विज्ञायते पिता ।नोपयच्छेत तां प्राज्ञः पुत्त्रिकाधर्म्मशङ्कया ॥
चतुर्णामपि वर्णानां प्रेत्य चेह हिताय च ।अष्टाविमान् समासेन स्त्रीविवाहान्निबोधत ॥
ब्राह्म्यो दैवस्तथा चार्षः प्राजापत्यस्तथासुरः ।गान्धर्व्वो राक्षसश्चैव पैशाचश्चाष्टमोऽधमः ॥
प्रसाद्य चार्च्चयित्वा च श्रुतशीलवते स्वयम् ।दद्यात् कन्यां यथान्यायं ब्राह्म्यो धर्म्मः प्रकी-र्त्तितः ॥
१ ॥
यज्ञे तु वितते सम्यगृत्विजे कर्म्म कुर्व्वते ।अलङ्कृत्य तथा दानं दैवो धर्म्मः प्रशस्यते ॥
२ ॥
एकं गोमिथुनं द्वे वा वरादादाय धर्म्मतः ।कन्यादानन्तु विधिवदार्षो धर्म्मः स उच्यते ॥
३ ॥
सहोभौ चरतां धर्म्ममिति चैवानुभाष्य तु ।कन्याप्रदानमभ्यर्च्च्य प्राजापत्यो विधिः स्मृतः ॥
४ ॥
ज्ञातिभ्यो द्रविणं दत्त्वा कन्यायै चैव शक्तितः ।कन्याप्रदानं स्वाच्छन्द्यादासुरो धर्म्म उच्यते ॥
५ ॥
इच्छयान्योन्यसंयोगात् कन्यायाश्च वरस्य च ।गान्धर्व्वः स तु विज्ञेयो मिथुन्यः कामसञ्चरः ॥
६ ॥
हत्वा जित्वा च भित्त्वा च प्रसह्य रुदतीं गृहात् ।हरणं क्रियते यत्र राक्षसो विधिरुच्यते ॥
७ ॥
सुप्ता मत्ता रहः कन्या छद्मना नीयते तु या ।स पापिष्ठो विवाहानां पैशाचः प्रथितो-ऽष्टमः ॥
८ ॥
पञ्चानाञ्च त्रयो धर्म्मा द्वावधर्म्मौ द्बिजोत्तम ।पैशाचश्चासुरश्चैव न कर्त्तव्यौ कदाचन ॥
चतुर्णामपि वर्णानामेष धर्म्मः सनातनः ।पृथग्वा यदि वा मिश्रा कर्त्तव्या नात्र संशयः ॥
कन्यां ये तु प्रयच्छन्ति यथाशक्त्या स्वलङ्कृताम् ।विवाहकाले संप्राप्ते यथोक्ते सदृशे वरे ।क्रमात् क्रमं क्रतुशतमनुपूर्व्वं लभन्ति ते ॥
श्रुत्वा कन्धाप्रदानन्तु पितरः प्रपितामहाः ।विमुक्ताः सर्व्वपापेभ्यो ब्रह्मलोकं व्रजन्ति ते ॥
ब्राह्येण तु विवाहेन यस्तु कन्यां प्रयच्छति ।ब्रह्मलोकं व्रजेच्छीघ्रं ब्रह्माद्यैः पूजितः सुरैः ॥
दिव्येन तु विवाहेन यस्तु कन्यां प्रयच्छति ।भित्त्वा द्वारन्तु सूर्य्यस्य स्वर्गलोकञ्च गच्छति ॥
गान्धर्व्वेन विवाहेन यस्तु कन्यां प्रयच्छति ।गन्धर्व्वलोकमासाद्य क्रीडते देववच्चिरम् ॥
शुल्कन दत्त्वा यो कन्यां तां पश्चात् सम्यगर्च्चयेत् ।स किन्नरैश्च गन्धर्व्वैः क्रीडते कालमक्षयम् ॥
न मन्युं कारयेत् तासां पूज्याश्च सततं गृहे ।ब्रह्मदेया विशेषेण ब्राह्मभोज्या सदा भवेत् ॥
कन्यायां ब्रह्मदेयायामभुञ्जन् सुखमश्नुते ।अथ भुञ्जति यो मोहात् भुक्त्वा स नरकं व्रजेत् ॥
*अप्रजायाञ्च कन्यायां न भुञ्जीयात् कदाचन ।दौहित्रस्य मुखं दृष्ट्वा किमर्थमनुशोचसि ॥
महासत्त्वसमाकीर्णान्नास्ति ते नरकाद्भयम् ।तीर्णस्त्वं सर्व्वदुःखेभ्यः परं स्वर्गमवाप्स्यसि ॥
”इत्याद्ये वह्निपुराणे तडागवृक्षप्रशंसानामा-ध्यायः ॥
* ॥
विवाहकाले मिथ्यावचने दोषा-भावो यथा, --शर्म्मिष्ठोवाच ।“न नर्म्मयुक्तं वचनं हिनस्तिन स्त्रीषु राजन् न विवाहकाले ।प्राणात्यये सर्व्वधनापहारेपञ्चानृतान्याहुरपातकानि ॥
”इति मात्स्ये ३१ अध्यायः ॥
* ॥
विवाहे वर्णनीयानि यथा, --“विवाहे स्नानशुभ्राङ्गभूषोलूलुत्रयोरवाः ।देवी संगीततारेक्षा लाजमङ्गलवर्त्तनम् ॥
”इति कविकल्पलतायाम् १ स्तवके ३ कुसुमम् ॥
* ॥
अथ विवाहोक्तदिनानि । तत्राब्दादिशुद्धि-र्यथा, --“प्रसूत्याधानतः शुद्धिर्विषमेऽब्दे समे क्रमात् ।विवाहे योषितां चन्द्रार्केज्यशुद्धिर्नृयोषितोः ॥
सभर्त्तृकक्रियारम्भे भर्त्तुर्गोचरशुद्धितः ।यात्रोद्वाहे गर्भकृत्ये स्वशुद्ध्याप्नोति तत् फलम् ॥
प्रारभ्य जन्मसमयात् युवतेर्विवाह-मोजाब्दकेषु मुनयः शुभमादिशन्ति ।आधानतः प्रभृतितः समवत्सरेषुप्रोक्तस्तयोर्न शुभदस्तु विलोमवर्षे ॥
* ॥
अयुग्मे दुर्भगा नारी युग्मे च विधवा भवेत् ।तस्माद्गर्भान्विते युग्मे विवाहे सा पतिब्रता ॥
मासत्रयादूर्द्ध्वमयुग्मवर्षेयुम्मे च मासत्रयमेव यावत् ।विवाहशुद्धिं प्रवदन्ति सर्व्वेवात्स्यादयो ज्योतिषि जन्ममासात् ॥
युग्माब्दकेषु युवतेरपि जन्ममासात्मासत्रयं विवहने परमब्दशुद्धिम् ।प्राहुः समस्तमुनयो विषमे तु वर्षेमासत्रयादुपरितः खलु जन्ममासात् ॥
” * ॥
राजमार्त्तण्डे ।“माङ्गल्येषु विवाहेषु कन्यासंवरणेषु च ।दश मासाः प्रशस्यन्ते चैत्रपौषविवर्ज्जिताः ॥
”कन्यासंवरणे हस्तोदकविधौ ।“दम्पत्योर्द्विनवाष्टराशिरहिते दारानुकूले रवौचन्द्रे चार्ककुजार्किशुक्रवियुते मध्येऽथवापापयोः ।त्यक्त्वा च व्यतिपातवैधृतिदिनं विष्टिञ्च रिक्तांतिथिंक्रूराहायनचैत्रपौषरहिते लग्नांशके मानुषे ॥
” *योगविशेषे दोषविशेषानाह रत्नमालायाम् ।“कुलोच्छेदो व्यतीपाते परिधे स्वामिघातिनी ।वैधृतौ विधवा नारी विषदाहोऽतिगण्डके ॥
व्याघाते व्याधिसं घातः शोकार्त्ता हर्षणे तथा ।शूले च व्रणशूलं स्यात् गण्डे रोगभयं तथा ॥
विष्कम्भेऽप्यहिदंशः स्यात् वज्रके मरणं भवेत् ।एते वै दारुणाः सर्व्वे दश योगाः प्रकीर्त्तिताः ॥
”आश्वलायनः । उदगयने आपूर्य्यमाणे पक्षेकल्याणे नक्षत्रे चौडकर्म्मोपनयनगोदान-विवाहाः । विवाहः सार्व्वकालिक इत्येक इति ।“आषाढे धनधान्यभोगरहिता नष्टप्रजा श्रावणेवेश्या भाद्रपदे इषे च मरणं रोगान्विताकार्त्तिके ।पौषे प्रेतवती वियोगबहुला चैत्रे मदोन्मादिनीअन्येष्वेव विवाहिता पतिरता नारी समृद्धाभवेत् ॥
हरौ च सुप्ते न च दक्षिणायनेतिथौ च रिक्ते शशिनि क्षयं गते ॥
राजग्रस्ते तथा युद्धे पितॄणां प्राणसंशये ।अतिप्रौढा च या कन्या नानुकूलं प्रतीक्षते ॥
अतिप्रौढा च या कन्या कुले धर्म्मविरोधिनी ।अविशुद्धापि सा देया चन्द्रलग्नबलेन तु ॥
अयनस्योत्तरस्यादौ मकरं याति भास्करः ।राशिं कर्कटकं प्राप्य कुरुते दक्षिणायनम् ॥
”इति विष्णुपुराणोक्तस्य चूडादावयनस्य परिग्रहःदिनमानादिबोधे तु सिद्धान्तादयनपरिग्रहः ॥
* ॥
सार्व्वकालिक इत्यस्य विषयमाह भुजवलभीमे ।“ग्रहशुद्धिमब्दशुद्धिं शुद्धिं मासायनर्त्तुदिव-सानाम् ।अर्व्वाक् दशवर्षेभ्यो भुनयः कथयन्ति कन्य-कानाम् ॥
एतत्परन्तु विज्ञेयमङ्गिरोवचनं यथा ।कालात्यये च कन्यायाः कालदोषो न विद्यते ॥
मलमासादिकालानां विवाहाद्ये प्रयत्नतः ।पुंसः प्रति सदा दोषात् सर्व्वदैव हि वर्ज्ज्यता ॥
”कृत्यचिन्तामणौ ।“वापीकूपतडागयागगमनक्षौरप्रतिष्ठाव्रतंविद्यामन्दिरकर्णवेधनमहादानं वनं सेवनम् ।तीर्थस्नानविवाहदेवभवनं मन्त्रादिदेवेक्षणंदूरेणैव जिजीविषुः परिहरेदस्तं गते भार्गवे ॥
”बृहद्राजमार्त्तण्डे ।“सर्व्वाणि शुभकर्म्माणि कुर्य्यादस्तं गते सिते ।विवाहं मेखलाबन्धं यात्राञ्च परिवर्ज्जयेत् ॥
”यात्राञ्चेति चकारो वचनान्तरोक्तप्रातिष्विक-निषिद्धकर्म्मान्तरं समुच्चिनोति ।“बाले शुक्रे वृद्धे शुक्रे नष्टे शुक्रे जीवे नष्टे ।बाले जीवे वृद्धे जीवे सिंहादित्ये गुर्व्वादित्ये ॥
तथा मलिम्लुचे मासि सुराचार्य्येऽतिचारगे ।वापीकूपतडागादिक्रियाः प्रागुदितास्त्यजेत् ॥
अतीचारं गते जीवे वक्रे चैव बृहस्पतौ ।कामिनी विधवा प्रोक्ता तस्मात्तौ परिवर्ज्जयेत् ॥
अतीचारं गतो जीवः पूर्व्वभं नैव गच्छति ।समचारेऽपि कर्म्माणि नैव तत्रैव संस्थिते ॥
” * ॥
देवलः ।“बाले वृद्धे तथैवास्ते कुरुते दैत्यमन्त्रिणि ।उद्वाहितायां कन्यायां दम्पत्योरेव नाशनम् ॥
प्रागुद्गतः शिशुरहस्त्रितयं सितः स्यात्पश्चाद्दशाहमिति पञ्चदिनानि वृद्धः ।प्राक् पक्षमेव कथितोऽत्र वशिष्ठगर्गै-र्जीवस्तु पक्षमपि वृद्धशिशुर्व्विवर्ज्यः ॥
”अत्यन्ताशक्तौ राजमार्त्तण्डः ।“बाले वृद्धे च सन्ध्यांशे चतुःपञ्चत्रिवासरान् ।जीवे च भार्गवे चैव विवाहादिषु वर्ज्जयेत् ॥
वक्रे चैवातिचारे त्रिदशपतिगुरौ देवपूज्ये चसुप्तेगुर्व्वादित्येऽधिमासे दिवसकररिपौ वाक्पतौचैत्रपौषे ।विष्ट्यां केतूद्गमे वा शरदि सुरगुरौ सिंहसंस्थेमनोज्ञेवर्षादाप्नोति चोढा सुनियतमरणं देवकन्यापिभर्त्तुः ॥
” * ॥
शुक्रमधिकृत्य राजमार्त्तण्डे ।“बाले च दुर्भगा नारी वृद्धे नष्टप्रजा भवेत् ।नष्टे च मृत्युमाप्नोति सर्व्वमेतद्गुरावपि ॥
सिंहे गुरौ परिणीता पतिमात्मानमात्मजान्हन्ति ।क्रमशस्त्रिषु पित्रादिषु वशिष्ठगर्गादयः प्राहुः ॥
गुरौ हरिस्थे न विवाहमाहु-र्हारीतगर्गप्रमुखा मुनीन्द्राः ।यदा न माघी मघसंयुता स्यात्तदा तु कन्योद्वहनं वदन्ति ॥
”अत्रैव माण्डव्यः ।“मधाऋक्षं परित्यज्य यदा सिंहे गुरुर्भवेत् ।तत्राब्दे कन्यका चोढा सुभगा सुप्रिया भवेत् ॥
”हारीतः ।“अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः ।यज्ञोद्बाहादिकं कुर्य्यात् तत्र कालो न लुप्यते ॥
”कृत्यचिन्तामणौ ।“अतीचारं गते जीवे वृषे वृश्चिककुम्भयोः ।तत्र चोद्वाहिता कन्या संपृणीयात् कुलद्वयम् ॥
”सङ्केतकौमुद्यां भीमपराक्रमे ।“यदातिचारं सुरराजमन्त्रीकरोति गोमन्मथमीनसंस्थः ।न याति चेद्यद्यपि पूर्व्वराशिंशुभाय पाणिग्रहणं वशिष्ठः ॥
अतीचारं गते जीवे स्थिरराशौ च संस्थिते ।तत्र न लुप्यते कालो वदत्येवं पराशरः ॥
वापीकूपतडागादि निषिद्धं सिंहगे गुरौ ।मकरस्थे च तत् कार्य्यं न दोषः काललोपजः ॥
”यत्तु ।“कन्यावृश्चिकमेषेषु मन्मथे च झषे वृषे ।अतिचारेऽपि कर्त्तव्यं विवाहादि बुधैः सदा ॥
”इत्येतदमूलं द्बैतनिर्णयेऽप्युक्तम् ॥
* ॥
दीपि-कायाम् ।“त्रिकोणजाया धनलाभराशौवक्रातिचारेण गुरुः प्रयातः ।यदा तदा प्राह शुभे विलग्नेहिताय पाणिग्रहणं वशिष्ठः ॥
”देवीपुराणम् ।“मकरस्थो यदा जीवो वर्ज्जयेत् पञ्चमांशकम् ।शेषेष्वपि च भागेषु विवाहः शोभनो मतः ॥
”भोजराजः ।“यो जन्ममासे क्षुरकर्म्म यात्रांकर्णस्य वेधं कुरुते च मोहात् ।नूनं स रोगं धनपुत्त्रनाशंप्राप्नोति मूढो वधबन्धनानि ॥
जातं दिनं दूषयते वशिष्ठ-श्चाष्टौ च गर्गो जवनो दशाहम् ।जन्माख्यमासं किल भागुरिश्चचौडे विवाहे क्षुरकर्णवेधे ॥
”श्रीपतिसमुच्चये ।“स्नानं दानं तपो होमः सर्व्वमङ्गल्यवर्द्धनम् ।उद्वाहश्च कुमारीणां जन्ममासे प्रशस्यते ॥
”कृत्यचिन्तामणौ ।“जन्ममासे च पुत्त्राढ्या धनाढ्या च धनोदये ।जन्मभे जन्मराशौ च कन्या हि ध्रुवसन्ततिः ॥
”गर्गः ।“ज्यैष्ठे मासि तथा मार्गे क्षौरं परिणयं व्रतम् ।ज्येष्ठपुत्त्रदुहित्रोश्च यत्नतः परिवर्ज्जयेत् ॥
”अत्र ज्येष्ठत्वमादिगर्भजातत्वम् । तथा च ।“जन्ममासि न च जन्मभे तथानैव जन्मदिवसेऽपि कारयेत् ।आद्यगर्भभवपुत्त्रकन्ययो-र्ज्यैष्ठमासि न च जातु मङ्गलम् ॥
”अत्र जन्ममासादौ पुत्त्रमात्रस्य निषेधः ज्यैष्ठ-मासे तु ज्येष्ठपुत्त्रस्येति विशेषः ।“कृत्तिकास्थं रविं त्यक्त्वा ज्यैष्ठे ज्येष्ठस्य कार-येत् ।उत्सवेषु च सर्व्वेषु दिनानि दश वर्ज्जयेत् ॥
* ॥
रेवत्युत्तररोहिणीमृगशिरोमूलानुराधामघा-हस्तास्वातिषु तौलिषष्ठमिथुनेषूद्यत्सु पाणिग्रहः ।सप्ताष्टान्त्यवहिःशुभैरुडुपतावेकादशद्बित्रिगेक्रूरैस्त्र्यायषडष्टगैर्न तु भृगौ षष्ठे कुजेचाष्टमे ॥
”ज्योतिर्व्विहितनक्षत्रात् अधिकं चित्राश्रवणा-धनिष्ठाश्विनीनक्षत्रं पारस्करोक्तं यथा, --“कुमार्य्याः पाणिं गृह्णीयात् त्रिषु त्रिषूत्तरा-दिषु ॥
”उत्तरफल्गुन्यादित्रयोत्तराषाढादित्रयोत्तरभा-द्रपदादित्रयेषु नवसु नक्षत्रेष्वित्यर्थः ॥
* ॥
भीम-पराक्रमे ।“पूर्व्वात्रये विशाखायां शिवाद्ये भचतुष्टये ।ऊढा चाशु भवेत् कन्या विधवातो विवर्जयेत् ॥
विष्णुभाद्ये त्रिके चित्रे ज्येष्ठायां ज्वलने यमे ।एभिर्व्विवाहिता कन्या भवत्येव सुदुःखिता ॥
”एवञ्च पारस्करोक्तं यजुर्व्वेदिविषयमापद्विषयंवा बोध्यम् ॥
* ॥
“आद्ये मघाचतुर्भागे नैरृतस्याद्य एव च ।रेवत्यन्तचतुर्भागे विवाहः प्राणनाशकः ॥
कर्णवेधे विवाहे च व्रते पुंसवने तथा ।प्राशने चाद्यचूडायां विद्धमृक्षं विवर्ज्जयेत् ॥
”विद्धर्क्षन्तु ।“तिथ्य १५ ङ्ग ६ वेदै १४ क १ दशो १० नविंश १९भै २७ कादशा ११ ष्टादश १८ विंश २० संख्याः ।इष्टोडुना सूर्य्ययुतोडुना चयोगादमूश्चेद्दशयोगभङ्गः ॥
”कर्म्मकालीननक्षत्रसूर्य्यभुज्यमाननक्षत्रयोर्मेलनेयदि पञ्चदशाद्यन्यतमसंख्या भवति तदा नकर्म्मयोग्यमित्यर्थः । सप्तविंशाधिकत्वे सप्त-विंशतिमपहाय शेषात् फलं अन्यथैकसंख्यानु-पपत्तेः ॥
* ॥
अपवादस्तु ।“आद्यपादे स्थिते सूर्य्ये तुरीयांशं प्रदुष्यति ।द्वितीयस्थे तृतीयन्तु विपरीतमतोऽन्यथा ॥
”व्यक्तमाह स्वरोदये ।“आद्यांशेन चतुर्थांशं चतुर्थांशेन चादिमम् ।द्वितीयेन तृतीयन्तु तृतीयेन द्बितीयकम् ॥
”अत्रैव खर्ज्जूरवेधः । तथा च रत्नमाला ।“एकामूर्द्ध्वगतां त्रयोदश तथा तिर्य्यग्गताःस्थापयेत्रेखाश्चक्रमिदं बुधैरभिहितं खार्ज्जूरिकं तत्र तु ।व्याघातादि तु मूर्ध्नि भन्तु कथितं तत्रैकरेखा-स्थयोःसूर्य्याचन्द्रमसोर्म्मिथो निगदिता दृक्पातएकार्गलः ॥
”व्याघातादीतिव्याघातयोगसंख्याङ्कस्त्रयोदशा-ङ्कम् । तथा च हस्तादीनि नक्षत्राणि देया-नीत्यर्थः ॥
* ॥
अथ सप्तशलाकावेधः । दीपि-कायाम् ।“कृत्तिकादिचतुःसप्तरेखाराशौ परिभ्रमन् ।ग्रहश्चेदेकरेखास्थो वेधः सप्तशलाकजः ॥
सप्त सप्त विलिखेत् प्ररेखिका-स्तिर्य्यगूर्द्ध्वमथ कृत्तिकादिकम् ।लेखयेदभिजिता समन्वितंचैकरेखगखगेन विध्यते ॥
वैश्यस्य चतुर्थेऽंशे श्रवणादौ लिप्तिकाचतुष्केच ।अभिजित्तस्थे खेचरे विज्ञेया रोहिणीविद्धा ॥
”लिप्तिकादण्डः ॥
* ॥
“यस्याः शशी सप्तशलाकभिन्नःपापैरपापैरथवा विवाहे ।रक्तांशुकेनैव तु रोदमानाश्मशानभूमिं प्रमदा प्रयाति ॥
”अस्यापवादो यथा, राजमार्त्तण्डे ।“विषप्रदिग्धेन हतस्य पत्रिणामृगस्य मांसं शुभदं क्षतादृते ।यथा तथात्राप्युडुपाद एवप्रदूषितोऽन्योडुपदं शुभावहम् ॥
”अथ पञ्चशलाकचक्रम् ।“ऊर्द्ध्वं रेखास्थिताः पञ्च तिर्य्यक् पञ्च तथैव च ।द्वे द्वे च कोणयो रेखे साभिजित् कृत्तिका-दिकम् ॥
शम्भुकोणे द्वितीये तु लेखयेत् सर्व्वकर्म्मणि ।क्रूरैर्भिन्नमथो सौम्यैर्नैक्षत्रं परिवर्ज्जयेत् ॥
नत्वापाते च ये दोषा ये च सप्तशलाकके ।ते सर्व्वे प्रभवन्त्यत्र नाम्ना पञ्चशलाकके ॥
अथ चक्रान्वये कश्चित् पादवेध इहेष्यते ॥
”तदुक्तं रत्नमालायाम् । कैश्चित्तत्रापीष्यते पाद-वेध इति । इति पञ्चशलाकाचक्रम् ॥
* ॥
रत्नमालायाम् ।“ऋक्षं द्वादशमुष्णरश्मिरवनीसूनुस्तृतीयं गुरुःषष्ठं चाष्टममर्कजस्तु पुरतो हन्ति स्फुटं नत्वया ।पश्चात् सप्तममिन्दुजस्तु नवमं राहुः सितःपञ्चमम् ।द्वाविंशं परिपूर्णमूर्त्तिरुडुपः सन्ताडयेन्नेतरत् ॥
”नत्वापातोऽयम् ॥
* ॥
“पापात् सप्तमगः शशी यदि भवेत् पापेनयुक्तोऽथवायत्नात् तं परिवर्ज्जयेत् मुनिमतो दोषो ह्ययंकथ्यते ।यात्रायां विपदो गृहे सुतवधः क्षौरेषु रोगोद्-भवो-ऽप्युद्वाहे विधवा व्रते च मरणं शूलञ्च पुंस्क-र्म्मणि ॥
” * ॥
“रविमन्दकुजाक्रान्तं मृगाङ्कात् सप्तमंत्यजेत् ।विवाहयात्राचूडासु गृहकर्म्मप्रवेशने ॥
”यामित्रवेधः ॥
* ॥
“मूलत्रिकोणनिजमन्दिरगोऽथ पूर्णोमित्रर्क्षसौम्यगृहगोऽथ तदीक्षितो वा ।यामित्रवेधविहितानपहृत्य दोषान्दोषाकरः शुभमनेकविधं विधत्ते ॥
” * ॥
भोजराजः ।“त्रिषड् दशैकादशगो दिनेशःसुतार्थसौभाग्यशुभप्रदः स्यात् ।वैधव्यदाताष्टमराशिसंस्थःशेषेषु रुग्दुःखशुचः करोति ॥
”रविशुद्धिः ॥
* ॥
“कन्यानक्षत्रशुद्धौ स्याद्ब वाहः शुभकृन्नृणाम् ।पश्चाद्भर्त्तुर्व्विशुद्ध्या तु यात्रापुष्पोत्सवादयः ॥
”विद्याधरीविलासे ।“पुंसामर्कः स्मृतो योनिर्योषिताममृतद्युतिः ।अतः पुंयोषितोः शस्तं वलमर्कशशाङ्कजम् ॥
गोचरथद्बाविन्दुं कन्याया यत्नतः शुभं वीक्ष्य ।तिग्मकिरणञ्च पुंसः शेषैरबलैरपि विवाहः ॥
द्वितीयपुत्त्राङ्कगतः प्रभाकरःत्रयोदशाहात् परतः शुभप्रदः ।न जन्मसप्तव्ययरन्ध्रगस्तथाकरोति पुंसामपि तादृशं फलम् ॥
”तथा त्रयोदशाहात् परतः ॥
* ॥
“त्रयोदशदिनान्यर्को दश षड्धरणीसुतः ।सार्द्धं दिनञ्च शीतांशुर्मासमेकादशं तमः ॥
सौरिः पादाधिकं वर्षं मासानष्टौ बृहस्पतिः ।भवनार्द्धं भृगुः सौम्यो यावद्राश्यशुभाः फलम् ॥
कष्टं व्रतादिके दद्युर्न तथा शेषभागगाः ॥
* ॥
लग्ने तत्पञ्चमे तूर्य्ये नवमे दशमे तथा ।गुरुर्भृगुर्व्वा दोषघ्नो विवाहे वर्द्धते शुभम् ॥
”अयमेव सुतहिवुकयोगः ॥
* ॥
“गोधूलिं त्रिविधां वदन्ति मुनयो नारीविवा-हादिकेहेमन्ते शिशिरे प्रयाति मृदुतां पिण्डीकृतेभास्करे ।ग्रीष्मेऽर्द्धास्तमिते वसन्तसमये भानौ गतेदृश्यतांसूर्य्ये चास्तमुपागते च नियतं प्रावृट्शरत्-कालयोः ॥
* ॥
लग्नं यदा नास्ति विशुद्धमन्यद्-गोधूलिकां तत्र शुभां वदन्ति ।लग्ने विशुद्धे सति वीर्य्ययुक्तेगोधूलिका नैव फलं विधत्ते ॥
* ॥
नास्मिन् ग्रहा न तिथयो न च विष्टिवाराऋक्षाणि नैव जनयन्ति कदापि विघ्नम् ।अव्याहतः सततमेव विवाहकालेयात्रासु चायमुदितो भृगुजेन योगः ॥
* ॥
मार्गे गोधूलियोगे प्रभवति विधवा माघमासेतथैवपुत्त्रायुर्धनयौवनेन सहिता कुम्भे स्थितेभास्करे ।वैशाखे सुखदा प्रजाधनवती ज्यैष्ठे पतेर्म्मानदाआषाढे धनधान्यपुत्त्रबहुला पाणिग्रहेकन्यका ॥
” * ॥
विवाहपटले ।“व्यूढा धनुषि च कुलटा तत्पूर्व्वार्द्धे सतीत्यपरेजगुः ॥
” * ॥
ज्योतिःसारस ग्रहे ।“विवाहे तु दिवाभागे कन्या स्यात् पुत्त्र-वर्ज्जिता ।विरहानलदग्धा सा नियतं स्वामिघातिनी ॥
* ॥
महाभारते ।“रात्रौ दानं न शंसन्ति विना चाभकदक्षि-णाम् ।विद्यां कन्यां द्विजश्रेष्ठा दीपमन्नं प्रतिश्रयम् ॥
” *व्यासः ।“रिक्तासु विधवा कन्या दर्शेऽपि स्याद्बिवा-हिता ।शनैश्चरदिने चैव यदा रिक्ता तिथिर्भवेत् ।तस्मिन् विवाहिता कन्या पतिसन्तानवर्द्धिता ॥
”स्मृतिः ।“धर्म्मार्थकाममोक्षाणां दाराः संप्राप्तिहेतवः ।परीक्ष्यन्ते प्रयत्नेन पूर्व्वमेव करग्रहात् ॥
” * ॥
मनुः ।“अव्यङ्गाङ्गीं सौम्यनाम्नीं हंसवारणगामिनीम् ।तनुलोमकेशदशनां मृद्वङ्गीमुद्वहेत् स्त्रियम् ॥
” *शातातपः ।“हंसस्वनां मेघवर्णां मधुपिङ्गललोचनाम् ।तादृशीं वरयेत् कन्यां गृहस्थः सुखमेधते ॥
” * ॥
भविष्ये ।“प्रतिष्ठिततलाः सम्यक् रक्ताम्भोजसमत्विषः ।तादृशाश्चरणा धन्या योषितां भोगवर्द्धनाः ॥
”प्रतिष्ठितो भूमौ लग्नः समस्तलोऽधोभागो येषांते तथा ॥
* ॥
मनुः ।“नोद्वहेत् कपिलां कन्यां नाधिकाङ्गीं नरोगिणीम् ।नालोभिकां नातिलोम्नीं न वाचाटां न पिङ्ग-लाम् ॥
नर्क्षवृक्षनदीनाम्नीं नान्त्यपर्व्वतनामिकाम् ।न पक्ष्यहिप्रैष्यनाम्नीं न च भीषणनामिकाम् ॥
”प्रतिप्रसवमाह मत्स्यसूक्ते ।“गङ्गा च यमुना चैव गोमती च सरस्वती ।नदीष्वासां नाम वृक्षे मालती तुलसी अपि ।रेवती चाश्विनी भेषु रोहिणी शुभदा भवेत् ॥
”कृत्यचिन्तामणौ ।“नेत्रे यस्याः केकरे पिङ्गले वास्याद्दुःशीला श्यावलोलेक्षणा च ।कूपो यस्या गण्डयोः सस्मितायानिःसन्दिग्धां बन्धकीं तां वदन्ति ॥
” * ॥
नन्दिकेश्वरपुराणे ।“श्यामा सुकेशी तनुलोमराजीसुभ्रूः सुशीला सुगतिः सुदन्ता ।वेदीविमध्या यदि पङ्कजाक्षीकुलेन हीनापि विवाहनीया ॥
धृष्टा कुदन्ता यदि पिङ्गलाक्षीलोम्ना समाकीर्णसमाङ्गयष्टिः ।मध्ये च पुष्टा यदि राजकन्याकुलेऽपि योग्या न विवाहनीया ॥
” * ॥
हारीतः ।“तस्मात् कुलनक्षत्रविज्ञानोपपन्नां वरयेत् ।”नक्षत्रोपपन्नां नाडीनक्षत्रहीनाम् ॥
* ॥
नाडीनक्षत्रमाह स्वरोदये ।“अश्विन्यादि लिखेच्चक्रं सर्पाकारं त्रिनाडिकम् ।तत्र वेधवशाज्ज्ञेयं विवाहादि शुभाशुभम् ॥
त्रिनाडीवेधनक्षत्रमश्विन्यार्द्रायुगोत्तरा ।हस्तेन्द्रमूलवारुण्यः पूर्व्वभाद्रपदास्तथा ॥
याम्यः सौम्यो गुरुर्योनिश्चित्रा मित्रजलाह्वयम् ।धनिष्ठा चोत्तराभद्रा मध्यनाडीव्यवस्थिताः ॥
* ॥
कृत्तिका रोहिणी सर्पो मघा स्वातीविशा-खके ।उत्तरा श्रवणा पौष्णं पृष्ठनाडीव्यवस्थिताः ॥
* ॥
अश्व्यादिनाडीवेधर्क्षे षष्ठं द्वितीयकं क्रमात् ।याम्यादितूर्य्यतूर्य्यञ्च कृत्तिकादिद्बिषट्ककम् ॥
एवं निरीक्षयेद्वेधं कन्यामन्त्रे सुरे गुरौ ।पण्यश्रीस्वामिमित्रेषु देशे ग्रामे पुरे गृहे ॥
एकनाडीस्थधिष्टानि यदि स्युर्व्वरकन्ययोः ।तदा वेधं विजानीयात् गुर्व्वादिषु तथैव च ॥
प्रकटं यस्य जन्मर्क्षं तस्य जन्मर्क्षतो व्यधः ।प्रनष्टं जन्मभं यस्य तस्य नामर्क्षतो वदेत् ॥
द्वयोर्जन्मभयोर्वेधो द्बयोर्नामभयोस्तथा ।नामजन्मर्क्षयोर्वेधो न कर्त्तव्यं कदाचन ॥
एकनाडीस्थिता चेत् स्यात् भर्त्तर्नाशायचाङ्गना ।तस्मान्नाडीव्यधो वीक्ष्यो विवाहे शुभमिच्छता ॥
प्राङनाड्या वेधतो भर्त्ता मध्यनाड्योभयंतथा ।पृष्ठनाडीव्यधे कन्या म्रियते नात्र संशयः ॥
एकनाडीस्थिता यत्र गुरुर्म्मन्त्रश्च देवताः ।तत्र द्वेषं रुजं मृत्युं क्रमेण फलमादिशेत् ॥
प्रभुः पण्याङ्गनामित्रं देशो ग्रामः पुरं गृहम् ।एकनाडीगता भव्या अभव्या वेधवर्ज्जिताः ॥
”प्रतिप्रसवमाह ज्योतिषे ।“एकराश्यादियोगे तु नाडीदोषो न विद्यते ॥
”स यथा ।“एकराशौ च दम्पत्योः शुभं स्यात् समसप्तके ।चतुर्थे दशमे चैव तृतीयैकादशे तथा ॥
”समग्रहणाद्विषमसप्तके दोषः । तथा च ।“योटके सप्तके मेषतुले युग्महयौ तथा ।सिंहघटौ सदा वर्ज्यौ मृतिं तत्राब्रवीच्छिवः ॥
”श्रीपतिव्यवहारनिर्णये ।“सुहृदेकाधिपयोगे ताराबले वश्यराशौ वा ।अपि नाड्यादिवेधे भवति विवाहो हितार्थाय ॥
”राजमार्त्तण्डे ।“न राजयोगे ग्रहवैरिता चन तारशुद्धिर्न गणत्रयं स्यात् ।न नाडिदोषो न च वर्णदुष्टि-र्गर्गादयस्ते मुनयो वदन्ति ॥
” * ॥
राजयोगस्तु एकराश्यादियोग एव तत्रैवनाड्यादिप्रतिप्रसवात् ॥
श्रीपतिरत्नमालायाम् ।“अश्वे भाजफणिद्बयञ्च वृषभुङ्मेषोन्दुरुर्मूषिक-श्चाखुर्गौः क्रमशस्ततोऽपि महिषी व्याघ्रः पुनःसौरभी ।व्याघ्रेणौ मृगकुक्कुरौ कपिरथोरभ्रद्वयं वानरःसिंहोऽश्वो मृगराट् पशुश्च करटी योनिश्चभानामियम् ॥
गोव्याघ्रं गजसिंहमश्वमहिषं श्वैणञ्च वभ्रूरगंवैरं वानरमेषकञ्च सुमहत्तद्वद्विडालोन्दुरुम् ।लोकानां व्यवहारतोऽन्यदपि च ज्ञात्वा प्रय-त्नादिदंदम्पत्योर्नृपभृत्ययोरपि सदा वर्ज्यः शुभस्या-र्थिभिः ॥
मकरसमेतं मिथुनं कन्याकलसौ मृगेन्द्रमीनौ च ।वृषभतुलेऽलिमेषौ कर्कटधनुषी च मित्रविधौ ॥
”षडष्टकावितिशेषः ॥
* ॥
अरिषडष्टकमाह ।“मकरः करिकुलरिपुणाकन्या मेषेण सह झषस्तुलया ।कर्किघटौ वृषधनुषीवृश्चिकमिथुने चारिविधौ ॥
* ॥
यदि कन्याष्टमे भर्त्ता भर्त्तुः षष्ठे च कन्यका ।षडष्टकं विजानीयाद्वर्ज्जितं त्रिदशैरपि ॥
* ॥
पुंसो गृहात् सुतगृहे सुतहा च कन्याधर्म्मे स्थिता सुतवती पतिवल्लभा च ।द्विद्वादशे धनगृहे धनहा च कन्याऋप्फे स्थिता धनवती पतिवल्लभा च ॥
”षडष्टकादौ तारानियममाह भीमपराक्रमः ।“सौहृद्ये ह्युभयोर्द्वयोरपि तयोरैकाधिपत्येऽपिवातारा षष्ठसुमित्रमित्रदहनक्षेमार्थसम्पद्यदि ।षट्काष्टे नवपञ्चमे व्ययधने योगे च पुंयोषितोःप्रीत्यायुःसुखवृद्धिपुष्टिजनकः कार्य्यो विवाह-स्तदा ॥
” * ॥
गर्गः ।“मरणं ताराविरोधे ग्रहरिपुभावे चिरेण ।रोगादि नरनार्य्योः षट्काष्टके वैरमवश्यं भवे-दाशु ॥
” * ॥
व्यासः ।“मैत्रादियोगेऽपि षडष्टकादौतारा विपत्प्रत्यरिनैधनाख्याः ।वर्ज्या विवाहे पुरुषोडुतो हिप्रीतिः परा जन्मसु तारकासु ॥
नक्षत्रमेकं यदि भिन्नराशि-र्न दम्पती तत्र सुखं लभेताम् ।विभिन्नमृक्षं यदि चैकराशि-स्तदा विवाहः सुतसौख्यदायी ॥
”एकर्क्षा च यदा कन्या राश्येका च यदाभवेत् ।धनपुत्त्रवती नारी साध्वी भर्त्तृप्रिया सदा ॥
षडष्टके गोमिथुनं प्रदेयंकांस्यं सरूप्यं नवपञ्चके तु ।द्विद्वादशाख्ये कनकान्नताम्रंविप्रार्च्चनं हेम च नाडीदोषे ॥
मरणं नाडीदोषे कलहः षट्काष्टके विप-त्तिर्वा ।अनपत्यता त्रिकोणे द्विद्वादशे च दारिद्य्रम् ॥
” * ॥
कृत्यचिन्तामणौ ।“हस्तास्वातिश्रुतिमृगशिरःपुष्यमैत्राश्विभानिपौष्णादित्ये जमुरिह बुधा देवसंज्ञानि भानि ।पूर्व्वास्तिस्रः शिवभभरणीरोहिणी चोत्तराश्चप्राहुर्मर्त्याह्वयमुडुगणं नूनमेतं मुनीन्द्राः ॥
चित्राश्लेषानिरृतिपितृभे वासवं वासवर्क्षंशक्राग्न्योर्भे वरुणदहनर्क्षे च रक्षोगणोऽयम् ॥
”फलमाह श्रीपतिः ।“स्वकुले चोत्तमा प्रीतिर्मध्यमा देवमानुषे ।देवासुरे कनिष्ठा च मृत्युर्मानुषराक्षसे ॥
राक्षसी च यदा कन्या मानुषश्च वरो भवेत् ।तदा मृत्युर्न दूरस्थो निर्घनत्वमथापि वा ॥
”राजमार्त्तण्डे ।“यदि स्याद्राक्षसो भर्त्ता कन्यका मानुषी भवेत् ।विवाहे सुखमाप्नोति वैपरीत्यं विवर्ज्जयेत् ॥
”युद्धजयार्णवे ।“देवा जयन्ति युद्धेन सर्व्वथा नात्र संशयः ।रक्षसां मानुषाणाञ्च संग्रामे निश्चया मृतिः ॥
कर्किमीनालयो विप्राः क्षत्त्राः सिंहतुलाहयाः ।वैश्या युग्माजकुम्भाख्याः शूद्रा वृषमृगाङ्गनाः ॥
सर्व्वाः परिणयेद्विप्रः क्षत्त्रियो नवभाग्भवेत् ।षडाश्रयो भवेद्वैश्यस्तिस्रः शूद्रे प्रकीर्त्तिताः ॥
वर्णश्रेष्ठा च या नारी हीनवर्णश्च यः पुमान् ।महत्यपि कुले जाता नासौ भर्त्तरि रज्यते ॥
”इति ज्योतिस्तत्त्वम् ॥
* ॥
अन्यत् उद्वाहशब्दे द्रष्टव्यम् ॥
* ॥
* ॥
तत्प्रयोगयथा । अथ कृतवृद्धिश्राद्धः संप्रदाता लग्नसमयेसंप्रदानशालायां गत्वा उत्तरतः स्त्रीगवीं बद्ध्वाविष्टरादिकं सज्जीकृत्य पश्चिमाभिमुखोऽनुप-विष्टस्तिष्ठेत् । ततोऽग्रत उपस्थिते वरे संप्रदाताकृताञ्जलिर्वरणं कुर्य्यात् । ओँ साधु भवानास्ता-मिति पृच्छेत् । जामाता ओँ साध्वहमासेइति वदेत् संप्रदाता ओँ अर्च्चयिष्यामो भवन्तंइति पृच्छेत् । जामाता ओँ अर्च्चय इति वदेत् ।ततः संप्रदाता पाद्यार्घ्याचमनीयगन्धमाल्य-यथाशक्त्यङ्गुरीयसपट्टकयज्ञोपवीतसपर्णपूगा-दिकं प्रदाय जामातरमर्च्चयेत् । ततः संप्रदातादक्षिणं जानु धृत्वा ओँ अद्येत्यादि अमुक-गोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः प्रपौत्त्रंअमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणःपौत्त्रंअमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः पुत्त्रंअमुकगोत्रं अमुकप्रवरं अमुकदेवशर्म्माणंअमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणः प्र-पौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-शर्म्मणः पौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्यअमुकदेवशर्म्मणः पुत्त्रीं अमुकगोत्रां अमुक-प्रवरां श्रीअमुकीदेवीं एनां कन्यां शुभविवाहेनदातुं एभिः पाद्यादिभिः अभ्यर्च्य भवन्तमहंवृणे । जामाता ओँ वृतोऽस्मि इति वदेत् ।संप्रदाता यथाविहितं विवाहकर्म्म कुरु ।जामाता ओँ यथाज्ञानतः करवाणीति वदेत् ।ततः स्त्र्याचारादिकं कारयित्वा मुखचन्द्रिकांकारयेत् । ततोऽग्रे उपस्थिते वरे संप्रदाताअमुं मन्त्रं जपति । प्रजापतिरृषिरनुष्टुप्छन्दोऽर्हणीया गौर्देवता गवोपस्थापने विनि-योगः । ओँ अर्हणा पुत्त्रवाससा धेनुरभवद्यमे सा नः पयस्वती दुहा मुत्तरा मुत्तरांसमाम् । ततो जामाता प्रजापतिरृषिर्गायत्त्रीच्छन्दो विराड्देवता उपविशदर्हणीयजपेविनियोगः । ओँ इदमहमिमां पद्यां विराज-मन्नाद्यायाधितिष्ठामि । इमं मन्त्रं जपन्नासनेप्राङ्मुख उपविशति । ततः संप्रदातापि पश्चि-माभिमुख उपविशेत् । ततो दाता साग्रपञ्च-विंशतिकुशपत्रैः द्विर्वामाधोमुखग्रन्थिं रचितंविष्टरं उत्तराग्रं उत्तानहस्ताभ्यां गृहीत्वाओँ विष्टरो विष्टरो विष्ठरः प्रतिगृह्यतामित्याद-धानो विष्टरमर्पयति । जामाता च ओँ विष्टरंप्रतिगृह्णामि इति विष्टरं गृहीत्वा प्रजापति-रृषिरनुष्टुप्छन्द ओषध्यो देवता विष्टरस्यासन-दाने विनियोगः ।“ओँ या ओषधीः सोमराज्ञीर्ब्बह्वीः शतविचक्षणाः ।ता मह्यमस्मिन्नासने अच्छिद्राः शर्म्म यच्छत ॥
”इत्यासने विष्टरमुत्तराग्रं दत्त्वा उपविशति ।ततः सम्प्रदाता पुनस्तादृशमेव विष्टरं गृहीत्वाओँ विष्टरो विष्टरो विष्टरः प्रतिगृह्यतामितितथैव पुनरर्पयति । जामाता च ओँ विष्टरंप्रतिगृह्णामीति तथैव गृहीत्वा प्रजापतिरृषि-रनुष्टुप् छन्द ओषध्यो देवता विष्टरस्य पादयो-रधस्ताद्दाने विनियोगः ।“ओँ या ओषधीः सोमराज्ञीर्व्विष्ठिताःपृथिवीमनु ।ता मह्यमस्मिन् पादयोरच्छिद्राः शर्म्म यच्छत ॥
”इति पादयोरधस्तादुत्तराग्रं विष्टरं स्थापयेत् ॥
ततः सम्प्रदाता पानीयपात्रं गृहीत्वा ओँ पाद्याःपाद्याः पाद्याः प्रतिगृह्यन्तामिति पानीयपात्र-मर्पयति । जामाता ओँ पाद्यं प्रतिगृह्णामीतिगृहीत्वा प्रजापतिरृषिर्व्विराड्गायत्त्री च्छन्दआपो देवता पादप्रक्षालनार्थोदकवीक्षणेविनियोगः । ओँ यतो देवीः प्रतिपस्याम्याप-स्ततो मा ऋद्धिरागच्छतु । अनेनोदकं वीक्षेत् ।ततो जामाता तस्मात् पात्रादुदकं गृहीत्वाप्रजापतिरृषिर्व्विराड्गायत्त्री च्छन्दः श्रीर्द्देवतासव्यपादप्रक्षालने विनियोगः ओँ सव्यं पादमवने-निजे अस्मिन्राष्ट्रे श्रियं दधे । अनेन वामपादेउदकाञ्जलिं दद्यात् । ततोऽपरमञ्जलिं गृहीत्वप्रजापतिरृषिर्ब्बिराड्गायत्त्री च्छन्दः श्रीर्द्देवतादक्षिणपादप्रक्षालने विनियोगः । ओँ दक्षिणंपादमवनेनिजे अस्मिन्राष्ट्रे श्रियमाबेशयामि ।अनेन दक्षिणपादे उदकाञ्जलिं दद्यात् । ततःपुनरुदकाञ्जलिं गृहीत्वा प्रजापतिरृषिर्विराड्-गायत्त्री च्छन्दः श्रीर्द्देवता उभयपादप्रक्षालनेविनियोगः । ओँ पूर्व्वमन्यमपरमन्यमुभौ पादाव-घनेनिजे राष्ट्रस्यर्द्ध्या अभयस्यावरुद्ध्यै । अनेनपादद्वये उदकाञ्जलिं दद्यात् । ततः सम्प्रदातासाक्षतदूर्व्वापल्लवान् शङ्खादिपात्रे निधाय ।ओँ अर्घ्यमर्घ्यमर्घ्यं प्रतिगृह्यताम् । इत्यभि-धायार्घ्यमर्पयति । जामाता च ओँ अर्घ्यं प्रति-गृह्णामीति गृहीत्वा प्रजापतिरृषिरर्घ्यं देवताअर्घ्यप्रतिग्रहणे विनियोगः । ओँ अन्नस्य राष्ट्रि-रसि राष्ट्रिस्ते भूयासम् । अनेनार्घ्यं शिरसिदद्यात् । ततः सम्प्रदाता उदकपात्रं गृहीत्वा ।ओँ आचमनीयमाचमनीयमाचमनीयं प्रति-गृह्यतां इत्युदकपात्रमर्पयति । जामाता चओँ आचमनीयं प्रतिगृह्णामीति गृहीत्वा प्रजा-पतिरृषिराचमनीयं देवता आचमनीयाचमनेविनियोगः । ओँ यशोऽसि यशो मयि धेहि ।अनेनोत्तराभिमुखीभूयाचामेत् । ततः सम्प्र-दाता घृतदधिमधुयुक्तं कांस्यपात्रं कांस्यपात्रा-न्तरेणापिधाय गृहीत्वा ओँ मधुपर्क्को मधुपर्क्कोमधुपर्क्कः प्रति गृह्यतामिति मधुपर्क्कं समर्पयति ।जामाता च ओँ मधुपर्क्कं प्रतिगृह्णामीति गृहीत्वाप्रजापतिरृषिर्म्मधुपर्क्को देवता अर्हणीयमधु-पर्क्कग्रहणे विनियोगः । ओँ यशसो यशोऽसि ।अनेन मधुपर्क्कं गृहीत्वा भूमौ निधाय प्रजा-पतिरृषिर्म्मधुपर्क्को देवता अर्हणीयमधुपर्क्क-प्राशने विनियोगः । ओँ यशसो भक्ष्योऽसिमहसो भक्ष्योऽसि श्रीर्भक्ष्योऽसि श्रियं मयि धेहि ।अनेन मन्त्रेण वारत्रयं भक्षयित्वा सकृत् तूष्णींभक्षयेत् । ततो जामाता आचान्तो मङ्गलौ-षधिलिप्तेन दक्षिणहस्तेन तादृशमेव कन्यायादक्षिणहस्तं स्वहस्तोपरि निदध्यात् । ततःसौभाग्यपतिपुत्त्रवती नारी मङ्गलपूर्व्वकं कुशेनहस्तद्वयं वध्नाति । ततः सम्प्रदाता तिलकुश-सहितमुदकपात्रं गृहीत्वा वामहस्तेनार्च्चितांकन्यां धृत्वा ओमद्यामुके मासि अमुकराशिस्थेभास्करे अमुके पक्षे अमुकतिथौ अमुकगोत्रःश्रीअमुकदेवशर्म्मा अमुककामः अमुकगोत्रस्या-मुकप्रवरस्य अमुकदेवशर्म्मणः प्रपौत्त्राय अमुक-गोत्रस्य अमुकप्रवरस्य अमुकदेवशर्म्मणःपौत्त्राय अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-शर्म्मणः पुत्त्राय अमुकगोत्राय अमुकप्रवरायश्रीअमुकदेवशर्म्मणे ब्राह्मणाय वराय अर्च्चि-ताय अमुकगोत्रस्यामुकप्रवरस्यामुकदेवशर्म्मणःप्रपौत्त्रीं अमुकगोत्रस्यामुकप्रवरस्यामुकदेव-शर्म्मणः पौत्त्रीं अमुकगोत्रस्य अमुकप्रवरस्यअमुकदेवशर्म्मणः पुत्त्रीं अमुकगोत्रां अमुक-प्रवरां श्रीअमुकीदेवीं इति त्रिरुच्चार्य्य एनांकन्यां सवस्त्रालङ्कृतां प्रजापतिदेवताकां तुभ्य-महं सम्पददे । इति हस्तद्वयोपरि सतिल-जलकुशानर्पयति । जामाता ओँ स्वस्तीत्यभि-धाय कन्येयं प्रजापतिदेवताका इति वदेत् ।गायत्त्रीं कामस्तुतिञ्च पठेत् । ओँ क इदं कस्माअदात् कामः कामायादात् कामो दाता कामःप्रतिग्रहीता कामः समुद्रमाविशत् कामेन त्वाप्रतिगृह्णामि कामैतत्ते । * । ततः ओँ अद्येत्यादिकृतैतत्कन्यादानकर्म्मणः साङ्गतार्थं दक्षिणामेतत्सुवर्णं अमुकगोत्रायामुकदेवशर्म्मणे ब्राह्मणायवराय तुभ्यमहं सम्प्रददे । ततो जामाता ओँस्वस्तीति वदेत् । ततः पतिपुत्त्रवती नारीदाम्पत्योर्वस्त्रेण ग्रन्थिं वध्नाति । ततः कुशग्रन्थिंमुक्त्वा वस्त्रेणाच्छाद्यान्योन्यावलोकनं कारयेत् ।ततो भर्त्तुर्द्दक्षिणपार्श्वे बधूमुपवेशयेत् । ततोनापितेन गौर्गौरित्युक्ते जामाता पठति । प्रजा-पतिरृषिर्ब्बृहती च्छन्दो गौर्देवता पूर्व्वबद्धगवी-मोक्षणे विनियोगः । ओँ मुञ्च गां वरुणपाशा-द्द्विषन्तं मेऽभिधेहि त्वं जह्यमुष्य चोभयोरुत्सृजगामत्तु तृणानि पिबतूदकम् । इति पठेत् । ततोनापितेन मुक्तायां गवि जामाता पठति । प्रजा-पतिरृषिस्तृष्टुप् छन्दो गौर्देवता गवानुमन्त्रणेविनियोगः । ओँ माता रुद्राणां दुहिता वसूनांस्वसादित्यानां अमृतस्य नाभिः प्रनुवोचं चिकि-तुषे जनाय मा गा मना गा मदितीं वधिष्ट ।अनेन गां विसर्ज्जयेत् । ततो मङ्गलं कुर्य्यात् ।ततो भर्त्तुर्व्वामपार्श्वे बधूमुपवेशयेत् । इतिसम्प्रदानं समाप्तम् ॥
* ॥
इति भवदेवभट्टः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
