| YouTube Channel

विवासयिषकः-षिका (vivAsayiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वस स्नेहच्छेदापहरणेषु”@} 2 ‘वस्यति स्तम्भने वस्ते छादने वसयेत् वसेत्।।
निवासे वासयेत् स्नेह वासयत्युपसेवने।’ 3 इति देवः।
‘-- …उपहरणेषु इति वा पाठः’ इति धा।
का।
4।
‘-- …अवहरणेषु’ इति कातन्त्रशाकटायनहेमचन्द्रादयः।
‘-- …अवहननेषु इति पाठान्तरम्’ इति क्षीरतरङ्गिण्याम्।
वासकः-सिका, विवासयिषकः-षिका, वासयिता-त्री, विवासयिषिता-त्री
वासयन्-न्ती, विवासयिषन्-न्ती
वासयिष्यन्-न्ती-ती, विवासयिषिष्यन्-न्ती-ती
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिकचाटयतिवत् 5 ऊह्यानि।
भिदादि- 6 पाठात् अङि-वसा इति रूपमिति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५७८)
02
=>
(१०-चुरादिः-१७४५। सक। सेट्। उभ।)
03
=>
(श्लो। १८७-८)
04
=>
(३-४१)
05
=>
(४८८)
06
=>
(३-३-१०४)
1 {@“वास उपसेवायाम्”@} 2 अदन्तः।
‘-- गतिसुखसेवनयोः’ इति जैन-कातन्त्रौ।
‘अयं कथादावपि इति दैवपुरुषकारयोः’ इति माधवः।
वासकः-सिका, विवासयिषकः-षिका
वासयिता-त्री, विवासयिषिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि चौरादिककालयतिवत् 3 ऊह्यानि।
4 ‘बर्ह चर्ह--’ इत्यत्र दण्डके ‘वाहृ प्रयत्ने’ इति भ्वादौ पठित्वा, ‘वाहते वाहति, वाहकः, वाहमानः, वोढा।
वाट्, वाहः, वाहनम्, वाहनीयम्, वाहिनी पञ्चनद्याम् सेनायाम्” इति काशकृत्स्नधातुपाठे दृश्यते।
प्रासङ्गिक्यः
01
=>
(१५९३)
02
=>
(१०-चुरादिः-१८८५। सक। सेट्। उभ।)
03
=>
(१८५)
04
=>
(१५९३-आ)