| YouTube Channel

विवर्हिषकः-षिका (vivarhiSakaH-SikA)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वर्ह परिभाषणहिंसाच्छादनेषु”@} 2 ‘-- परिभाषणहिंसादानेषु’ इति क्षीरस्वामिमैत्रेयद्रुमसायणा- दयः।
‘-- प्राधान्यपरिभाषण… दानेषु’ इति कातन्त्रे।
चन्द्रकाश- कृत्स्नौ पठतः।
“अत्र धनपालमैत्रेयौ परिभाषणादावोष्ठ्यादित्वम्, वृद्धौ दन्त्योष्ठ्यादित्वं चाहतुः।
‘छादयत्यनेनेति वर्हः घञ्’ इति वदन् शाकटाय- नोऽप्यत्रैवानुकूलः।
यथा वयं तथा स्वामी।” इति मा।
धा।
वृत्तिः।
‘परिभाषणमत्र वञ्चनवादः’ इति धा।
का।
व्याख्या 3।
4 वर्हकः-र्हिका, वर्हकः-र्हिका, विवर्हिषकः-षिका, वावर्हकः-र्हिका
वर्हिता-त्री, वर्हयिता-त्री, विवर्हिषिता-त्री, वावर्हिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकगर्हतिवत् 5 बोध्यानि।
युचि- 6 वर्हणः, 7 वर्हा इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५६७)
02
=>
(१-भ्वादिः-६४०। सक। सेट्। आत्म।)
03
=>
(१-८१)
04
=>
[पृष्ठम्१२०६+ २६]
05
=>
(३८५)
06
=>
[[१। ‘अनुदात्तेतश्च हलादेः’ (३-२-१४९) इति युचि रूपमेवम्।]]
07
=>
[[२। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः। क्तिनोऽपवादः।]]