| YouTube Channel

विवभ्रिषिता-विवब्भ्रिषिता-त्री (vivabhriSitA-vivabbhriSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वभ्र गत्यर्थः”@} 2 ‘-- गतौ--चलने’ इति काशकृत्स्नः।
वभ्रकः-भ्रिका, वभ्रकः-भ्रिका, विवभ्रिषकः- 3 विवब्भ्रिषकः-षिका, वावभ्रकः-भ्रिका
वभ्रिता-त्री, वभ्रयिता-त्री, विवभ्रिषिता-विवब्भ्रिषिता-त्री, वावभ्रिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिककर्बतिवत् 4 ऊह्यानि।
शतरि वभ्रन्-न्ती इति।
वभ्रः = विवादः।
प्रासङ्गिक्यः
01
=>
(१५५७)
02
=>
(१-भ्वादिः-५५७। सक। सेट्। पर।)
03
=>
[[३। सनि ‘अनचि च’ (८-४-४७) इति भकारस्य पक्षे द्विर्वचने ‘झलां जश् झशि’ (८-४-५३) इति पूर्वस्य जश्त्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र रूपद्वयं बोध्यम्।]]
04
=>
(१७३)