| YouTube Channel

विवजिषिता-त्री (vivajiSitA-trI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“वज गतौ”@} 2 ‘-- गतौ वजति वाजयेत्।’ 3 इति देवः।
वाजकः-जिका, वाजकः-जिका, विवजिषकः-षिका, वावजकः-जिका
वजिता-त्री, वाजयिता-त्री, विवजिषिता-त्री, वावजिता-त्री
इत्यादीनि रूपाणि सर्वाण्यपि भौवादिकबन्धनार्थककचतिवत् 4 बोध्यानि।
5 वाज्यम्, शतरि-वजन् इति विशेषः।
प्रासङ्गिक्यः
01
=>
(१५३६)
02
=>
(१-भ्वादिः-२५२। सक। सेट्। पर।)
03
=>
(श्लो। ५८)
04
=>
(१४४)
05
=>
[[१। ण्यति प्रत्यये ‘अजिव्रज्योश्च’ (७-३-६०) इत्यत्र चकारात् अत्रापि कुत्वं नेति माधवः। वस्तुतस्तु ‘चजोः--’ (७-३-५२) इत्यत्र ‘निष्ठायामनिट इति वक्तव्यम्’ (वा। ७-३-५२) इति वार्तिकेन विषयविभागस्य कृतत्वेन यथोत्तरं मुनीनां प्रामाण्यात् अत्र प्रकृतस्थले कुत्वप्रसक्तिरेव नेति भाष्यादिसम्मतः पन्थाः।]]