| YouTube Channel

विल्व (vilva)

 
शब्दसागरः
English
विल्व
m.
(-ल्वः) A fruit tree, commonly named Bel, (Ægle marmelos.)
n.
(-ल्वं)
1. The fruit of the Bel.
2. A measure, the same as the
Pala.
E.
विल् to divide, Unādi
aff.
वन्
Capeller Eng
English
विल्व v. बिल्व.
Yates
English
विल्व (ल्वः) 1.
m.
A fruit tree,
Bel.
n.
Its fruit
the measure
Pala.
Wilson
English
विल्व
m.
(-ल्वः) A fruit tree, commonly named Bel, (Ægle
marmelos.)
n.
(-ल्वं)
1 The fruit of the Bel.
2 A measure, the same as the Pala.
E.
विल to divide, Uṇādi
aff.
वन्.
Apte
English
विल्व [vilva], See बिल्व.
Apte 1890
English
विल्व See बिल्व.
Monier Williams 1872
English
विल्व विल्व, अस्, m. (fr. rt. विल्, also written
बिल्व, q. v.), the tree Ægle Marmelos (commonly
called Bel)
(अम्), n. the fruit of the Bel
a particu-
lar weight, (see बिल्व।) For the compounds of विल्व
see बिल्व।
Benfey
English
विल्व विल्व,
I.
m.
A fruit tree,
Aegle marmelos, Bhartṛ. 2, 68.
II.
n.
1. Its fruit.
2. A measure, the same
as the Pala.
--
Comp.
चिर-,
m.
a
tree, Pongamia glabra Vent., Rām. 3,
79, 34.
L R Vaidya
English
vilva {% m. %} The same as बिल्व q.v.
Bopp
Latin
विल्व m. nomen arboris (Wils.: Aegle marmelos).
N. 12. 5.
Edgerton Buddhist Hybrid
English
vilva, nt., pool: Mvy 〔4172〕 = Tib. lteṅ ka
placed between taḍāga and utsa.
अभिधानरत्नमाला
Sanskrit
मालूर
मालूर, श्रीफल, विल्व
करवीरो हयमारो मालूरः श्रीफलो भवेद्विल्वः
verse 2.1.1.194
page 0024
शब्दकल्पद्रुमः
Sanskrit
वि(बि)ल्वं,
क्ली,
विल्ववृक्षस्य फलम् इति मेदिनी
(यथा, --“खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।आत्मनो बिल्वमात्राणि पश्यन्नपि पश्यति
”इत्युद्भटः
)पलपरिमाणम् इति शब्दमाला
(यथा, सुश्रुते १८ ।“अत ऊर्द्ध्वं प्रवक्ष्यामि पुटपाकप्रसाधनम् ।द्वौ विल्वमात्रौ श्लक्ष्णस्य पिण्डौ मांसस्यपेषितौ ।द्रव्याणां विल्वमात्रन्तु द्रवाणां कुडवो मतः
”)
वि(बि)ल्वः,
पुं,
(विल भेदने + उल्वादयश्चेति साधुः ।)फलवृक्षविशेषः वेल्गाछ इति भाषा
तत्पर्य्यायः शाण्डिल्यः शैलूषः मालूरः ४श्रीफलः इत्यमरः
महाकपित्थः गोह-रीतकी पूतिवातः अतिमङ्गल्यः ९महाफलः १० इति रत्नमाला
शल्यः ११हृद्यगन्धः १२ शालाटुः १३ कर्क्कटाह्वः १४शैलपत्रः १५ शिवेष्टः १६ पत्रश्रेष्ठः १७त्रिपत्रः १८ गन्धपत्रः १९ लक्ष्मीफलः २० गन्ध-फलः २१ दुरारुहः २२ त्रिशाखपत्रः २३त्रिशिखः २४ शिवद्रुमः २५ सदाफलः २६सत्यफलः २७ सुभूतिकः २८ समीरसारः २९ ।अस्य फलगुणाः मधुरत्वम् हृद्यत्वम् ।कषायत्वम् गुरुत्वम् पित्तकफज्वरातिसार-नाशित्वम् रुचिकारित्वम् दीपनत्वञ्च ।अस्य मूलगुणाः त्रिदोषघ्नत्वम् मधुरत्वम् ।लघुत्वम् वान्तिनाशित्वञ्च
अस्य कोमलफल-गुणाः स्निग्धत्वम् गुरुत्वम् संग्राहित्वम् ।दीपनत्वञ्च
अस्य पक्वफलगुणाः मधुरत्वम् ।गुरुत्वम् कटुत्वम् तिक्तत्वम् कषायत्वम् ।उष्णत्वम् संग्राहित्वम् त्रिदोषनाशित्वञ्च ।इति राजनिर्घण्टः
*
अपि ।“श्रीफलस्तुवरस्तिक्तो ग्राही रूक्षोऽग्निपित्तकृत् ।बालः श्लेष्महरो बल्यो लघुरुष्णश्च पाचनः
”इति भावप्रकाशः
*
किञ्च ।“विल्वं बालं कषायोष्णं पाचनं वह्निदीपनम् ।संग्राहि तिक्तकटुकं तीक्ष्णं वातकफापहम् ।पक्वं सुगन्धि मधुरं दुर्ज्जरं ग्राहि दोषलम्
फलेषु परिपक्वेषु यो गुणः समुदाहृतः ।विल्वादन्यत्र ज्ञेयो विल्वमामं गुणोत्तरम्
कफवातामपित्तघ्नी ग्राहिणी विल्वपेषिका
”इति राजवल्लभः
अन्यच्च ।“काञ्जिके संस्थितं विल्वमग्निसन्दीपनं परम्
”इति वैद्यकम्
*
विल्वोत्पत्त्यादिर्यथा, --“विल्वादिपालनं कुर्य्यात् शुभं भयदमन्यथा ।श्रीवृक्षान् रोपयेत् पञ्च यदि स्वर्गान्न हीयते
भृगो लक्ष्मीश्च या धेनुर्गोरूपा सा गतामहीम् ।तद्गोमयभवो विल्वः श्रीश्च तस्मादजायत
निराकृतिं पतिं दृष्ट्वा क्रोधेन महता ततः ।शप्ता सा उमया देवी सर्व्वभोग्या भवाधमे
ततः संप्रणता भाना मामैवं भवतु प्रिये ।प्रियत्वं सर्व्वलोकेशि सुरासुरनमस्कृता
माता त्वं सर्व्वलोकानामबलानां विशेषतः ।एवमात्मवशां कृत्वा शापमोक्षमयाचत
वरं ददौ सा कामं शापमोक्षप्रदं नृप ।क्षीराब्धौ त्वं भृगाङ्केन सह गोभिर्धनेन
वसस्व मथने यावत् ततो विष्णुमवाप्स्यसि ।पतिं त्वं सर्व्वलोकानां पूज्यं श्रेष्ठं महाबलम्
तस्य वक्षःस्थिता भद्रे दुष्टा त्वं विचरिष्यसि ।लोकभोग्या भूतित्वादन्त्यजेषु नृपेषु
जातिरूपशौर्य्यादि वेश्म शुभा मतिः ।भविष्यति यदा चेह चञ्चला जलबिन्दुवत्
विल्ववृक्षः प्रियः शम्भोस्तव योनिर्भविष्यति ।सर्व्वपुष्पोत्तमश्रेष्ठो देवाहारो मनोरमः
*
अच्छेद्यः सर्व्वलोकानां छेदान्नाशः सदा नृणाम् ।ये पापा दुराचाराः श्रीतरोश्छेदकारिणः ।ते त्ववीच्यादिनरके पात्यन्ते ब्रह्मणो दिनम्
सुदुःखिता भविष्यन्ति नरा दुष्कुलिनः सदा ।तत्र देशे भयं नित्यं चिरं राजा जीवति ।न द्रव्यपतिः कश्चिद्विल्ववृक्षस्य छेदकः
क्रियते यत्र विच्छेदः सपुष्पफलिनस्तरोः ।अनावृष्टिभयं घोरं तस्मिन् देशे प्रजायते
”इति वह्निपुराणे वामनप्रादुर्भावनामाध्यायः
*मतान्तरे तस्योत्पत्तिर्यथा, --शिव उवाच ।“मातः समुद्रतनये मा मा च्छिन्धि स्तनं परम् ।यस्ते च्छिन्नस्तनो वामो जायतां पुनरेव सः ।ज्ञाता ते परमा भक्तिः पूर्णस्तेन मनोरथः
यश्च च्छिन्नस्तनो दत्तो मल्लिङ्गोपरि ते शुभे ।सोऽस्तु वृक्षः क्षितौ पुण्यो नाम्ना श्रीफलइत्युत
मूर्त्तिमांस्तव वै भक्तिर्वृक्षः श्रीफलनामकः ।त्वत्कीर्त्तये क्षितावास्तां यावच्चन्द्रदिवाकरौ
तरुर्म्मम वै लक्ष्मि परमः सुप्रियो भवेत् ।तत्पत्रेणैव मे पूजा भविष्यति चान्यथा
स्वर्णमुक्ताप्रबालादि पुष्पाण्यन्यानि ध्रुवम् ।श्रीफल च्छदलेशस्य कलां नार्हन्ति कोटिकाम्
यथा मे श्रीफलतरुर्यथा गङ्गाजलं मम ।तथा प्रियतमं लक्ष्मि त्रिपत्रः श्रीफलच्छदः
इत्युक्तः तथेत्युक्त्वा महेशोऽन्तर्द्दधे सखि ।कपालमोचनक्षेत्रे वृक्षः श्रीफलकोर्ज्जितः
”इति बृहद्धर्म्मपुराणे १० अध्यायः
*
तस्य गोमयोद्भवत्वं यथा, --“यज्ञानां चेह संभूत्यै यथा हरिहरस्य ।गोमयो रोचना क्षीरं मूत्रं दधि घृतं गवाम्
षडङ्गानि पवित्राणि तथा सिद्धिकराणि ।उत्थितो विल्ववृक्षस्तु गोमयान्मुनिसत्तम ।तत्रासौ वसते लक्ष्मीः श्रीवृक्षस्तेन चोच्यते
”इति वह्निपुराणे वैष्णवधर्म्मे शुद्धिव्रतनामा-ध्यायः
*
देव्युवाच ।“वैशाखशुक्लपक्षस्य तृतीयायां सखि त्वयम् ।जातो वै श्रीफलतरुर्म्माहात्म्यं तस्य कथ्यते
जाते तु श्रीफलतरौ देवाः सर्व्वे सवासवाः ।ब्रह्मा नारायणश्चापि देवपत्न्यः समागताः
ददृशुः स्निग्धविटपं त्रिपत्रैर्मृदुलैर्युतम् ।दीप्यमानं तेजसैव शिवरूपं शिवप्रदम्
प्रणेमुः सिषिचुस्तत्र वासञ्चक्रुः सुखान्विताः ।तद्रक्षणाय भगवानुवाच विष्णुरव्ययः
विष्णुरुवाच ।अयं नाम्ना विल्व इति मालूरः श्रीफलस्तथा ।शाण्डिल्यश्चाथ शैलूषः शिवः पुण्यः शिवप्रियः
देवावासस्तीर्थपदः पापघ्नः कोमलच्छदः ।जयो विजयनामा विष्णुस्त्रिनयनो वरः
धूम्राक्षः शुक्लवर्णश्च संयमी श्राद्धदेवकः ।इत्येकविंशतिं नाम्नां दधात्वेष तरूत्तमः
*
धनुःशतञ्चास्य मूलात् खञ्चाग्रात्तीर्थमुव्यते ।अधो भूमेस्तथा तीर्थमतस्तीर्थत्रयं सखि
ऊर्द्ध्वपत्रं हरो ज्ञेयः पत्रं वामं विधिः स्वयम् ।अहं दक्षिणपत्रञ्च त्रिपत्रदलमित्युत
अस्य च्छायाञ्च पत्रञ्च लङ्घयेन्न पदा स्पृशेत् ।हरते लङ्घनादायुः पदा स्पर्शात् श्रियं हरेत्
पद्मपुष्पसहस्रस्य फलपत्रसमापि ।दर्शने प्रणतौ स्पर्शे स्थानसम्मार्ज्जने तथा ।पूजने चयने दाने क्रमान्मन्त्रानुदीरयेत्
विल्ववृक्ष महाभाग महेशस्य सदा प्रियः ।शिवदर्शनकज्योतिः प्रसीदाब्धिसुतास्तन
नर एतेन मत्रेण प्रफुल्लाक्षः प्रगे शुभम् ।प्रपश्येत् शिवं पश्येत् प्रणमेत्तदनन्तरम्
ओँ नमो विल्वतरवे सदा शङ्कररूपिणे ।सफलानि ममाङ्गानि कुरुष्व शिवहर्षद
मन्त्रेणानेन मालूरमष्टाङ्गैः प्रणमेत् कृती ।स वैष्णवो मतो भक्तः मे प्रियतरः परः
शिवपूजक मालूर प्रियस्पर्श महातरो ।स्पुशामि त्वां महापापसञ्चयान् मे प्रणाशय
देववृक्षवरश्रेष्ठ स्थानन्ते सुमनोहरम् ।क्रीडन्त्यागत्य विबुधा मार्ज्जये तत् प्रसीद मे
मन्त्रेणानेन विल्वस्य दशहस्तस्थलं मृजेत् ।सगोमयजलैः प्रातःसमये तु वैष्णवः
ओँ द्रुमाय श्रीफलाय नमो दशभिरक्षरैः ।मन्त्रेण पूजयेद्विल्वं जपेच्छक्तिक्रमात्तथा
पुण्यवृक्ष महाभाग मालूर श्रीफल प्रभो ।महेशपूजनार्थाय तत्पत्राणि चिनोम्यहम्
मन्त्रेणानेन चिनुयाद्विल्वपत्राणि भक्तितः ।पक्षान्तद्वादशीसायं मध्याह्नभिन्नकालतः
शाखाभङ्गो कर्त्तव्यो नैवारोहेत्तथा तरुम् ।वरमारुह्य चिनुयान्न शाखाभञ्जनं क्वचित्
खण्डितैश्च शिवः पूज्यः पत्रैरन्यैश्च खण्डितैः ।षण्मासानन्तरं विल्वपत्रं पर्य्युषितं भवेत
पूज्या एतेन वै देवाः सूर्य्यलम्बोदरौ विना ।विल्ववृक्षवनं यत्र सा तु वाराणसी पुरी
पञ्च विल्वद्रुमा यत्र तत्र तिष्ठेत् स्वयं हरिः ।सप्त विल्वद्रुमा यत्र तत्र दुर्गायुतो हरः
एको विल्वतरुर्यत्र तत्र शम्भुर्म्मया सह ।विल्ववृक्षा यत्र दश तत्र शम्भुर्गणैः सह
एतान्युक्तानि तीर्थानि देवाः सर्व्वे मरुद्गणैःयत्र वाट्यां गृहस्थस्य कोण ईशाननामके ।जायते श्रीफलतरुर्न तत्र विपदः क्वचित्
पूर्व्वस्यां सुखदः स्याद्दक्षिणे यमभीतिहा ।पश्चिमे प्रजादायी वृक्षो विल्व उदाहृतः ।श्मशाने नदीतीरे प्रान्तरे वा वनान्तरे ।विल्ववृक्षतलं प्रोक्तं सिद्धपीठस्थलं सुधीः
मध्यप्राङ्गणे वृक्षं स्थापयेत् श्रीफलाख्यकम् ।दैवाद्यदि प्रजायेत तदा शिववदर्च्चयेत्
चैत्रादिचतुरो मासान् शम्भवे परमात्मने ।दत्तं स्याद्विल्वपत्रैकं लक्षधेनुसमं सुराः
मध्याह्नकाले ये मर्त्या विल्वं कुर्य्युः प्रदक्षिणम् ।तैः सुमेरुर्गिरिवरः कृत एव प्रदक्षिणम्
च्छिन्द्यात् श्रीफलतरु दहेत् काष्ठमेव ।विना ब्राह्मणयज्ञार्थं पतितो विल्वविक्रयी
पक्वविल्वसमुद्घृष्टं यो धते मूर्द्ध्नि मानवः ।यमाधिकारो नात्र स्यात् हृतः पापोपपातकैः
विल्वपत्रं फलं बीजं भूमौ पतितमीश्वरः ।स्वयं गृह्णाति शिरसा वैयर्थ्यभयशङ्कितः
चैत्रादिचतुरो मासान् सिञ्चेद्विल्वतरु कृती ।यथा स्निग्धो भवेद्वृक्षस्तथा तत्पितरोऽपि ।चैत्रादिचतुरो मासान् सदा भ्रमति शङ्करः ।नवीनविल्वपत्रार्थी भुक्तिमुक्तिप्रदायकः
हरिद्रानगरे यत्र वैद्यनाथो महेश्वरः ।तत्राक्षयो विल्ववृक्षः स्वर्णवृक्ष उदाहृतः
कामरूपे कामतरुः काश्यामुक्तस्तथादिमः ।काञ्चीपुरे पुरः प्रोक्तः श्रीफलोऽक्षयपुण्यदः ।तेऽपि तीर्थविशेषाः स्युस्तीर्थेष्वपि सदातुलाः
देव्युवाच ।एतस्मिन्नेव काले तु शम्भुरागत्य वै सखि ।ब्रह्मणा विष्णुना पत्रैः पूजितः श्रीफलैरभूत्
ततः सर्व्वे यथास्थानं जग्मुर्नारायणादयः ।कथितोऽयं मया सख्यौ विल्ववृक्षस्तरूत्तमः
अयं वां संप्रोक्तः शिवतरुकथापुण्यनिचयःपवित्रः श्रोतव्यः श्रवणरमणीयः खलु सताम् ।शिवे विष्णौ भेदापहरण उदारः सुमनसांसुसेव्यः संपाव्यः प्रभवति शिवस्यापि निकटः
”इति बृहद्धर्म्मपुराणे विल्ववृक्षमाहात्म्यम्११ अध्यायः
*
तन्त्रमते तस्योत्पत्तिर्यथा, --देव्युवाच ।“कथं सा विष्णुवनिता विल्ववृक्षो बभूव ।ज्योतीरूपं मदंशं प्रार्थिता ब्रह्मादिभिः सदा
तत्र मेऽनुग्रहाद्वाणी सर्व्वेषां प्रियतां गता ।विष्णोरतिप्रिया नित्यं साभूत् सरस्वती सदा
तादृक् प्रीतिर्न लक्ष्म्याञ्च जायते केशवस्य ।इतिचिन्तापरा लक्ष्मीर्ययौ श्रीशैलमन्दिरम्
प्राप्य मल्लिङ्गमेकान्तं तपस्तेपेऽतिदारुणम् ।तथापि यदि नैवाभूत् कृपा मे परमेश्वरि
तदा सा वृक्षरूपेण स्थिता लिङ्गप्रिया सती ।पत्रैः पुष्पैः फलैः स्वीयैः पूजयामास सन्ततम्
कोटिवर्षं महादेवि ततो मेऽनुग्रहोऽभवत् ।तेनैवानुग्रहेणैव विष्णोर्वक्षःस्थिताभवत्
सदैव परमेशानि विप्रवश्या सदैव हि ।अतस्तु कारणाद्देवि तद्रूपेण हरिप्रिया
सदैव पूजयेन्मां सा मद्भक्ता सातुला शिवे ।अतस्तं वृक्षमाश्रित्य तिष्ठामि दिवानिशम्
सर्व्वतीर्थमयो देवि सर्व्वदेवमयः सदा ।श्रीवृक्षः परमेशानि अतएव संशयः
*
तत्फलैस्तत्प्रसूनैर्व्वा तत्पत्रैर्यः प्रपूजयेत् ।तत्काष्ठचन्दनैर्व्वापि मे भक्तः मे प्रियः
तत्काष्ठचन्दनं भाले यो धारयति सम्भ्रमात् ।तत्तनुं शिवबुद्ध्या सा नमेद्देवी मुदान्विता
अतस्तच्चन्दनं देवि धारयति कश्चन ।तत्पत्रं तत्प्रसूनं वा कदापि धारयेन्नहि
विल्वमूले महेशानि प्राणांस्त्यजति यो नरः ।रुद्रदेहो भवेत् सत्यं पापकोटियुतोऽपि सन्
”इति योगिनीतन्त्रे पूर्व्वखण्डे पटलः
*
अपि ।“विल्ववृक्षं तथा देवि भगवान् शङ्करः स्वयम् ।विल्ववृक्षतले स्थित्वा यदि प्राणांस्तजेत् सुधीः
तत्क्षणान्मोक्षमाप्नोति किन्तस्य तीर्थकोटिभिः ।यत्र ब्रह्मादयो देवास्तिष्ठन्ति शक्तिहेतवे
विल्ववृक्षतले स्थानं यदि विष्ठादिपूरितम् ।तदेव शाङ्करं क्षेत्रं सर्व्वतीर्थमयं सदा
सर्व्वपीठमयं तत्तु सर्व्वदेवमयं सदा ।न त्यजेत् शाङ्करं क्षेत्रं गङ्गां त्यजेत्प्रिये
समीपे चार्व्वङ्गि विल्ववृक्षो यदि प्रिये ।काशीपुरसमं तत्तु तत्र प्राणान् त्यजेद्यदि ।किन्तस्य कोटितीर्थेन काशीवासेन किं प्रिये
”इति पुरश्चरणरसोल्लासे १० पटलः
*
तद्दानविधिर्यथा, --“पत्रं वा यदि वा पुष्पं फलं नेष्टमधोमुखम् ।यथोत्पन्नं तथा देयं विल्वपत्राण्यधोमुखम्
”इति मातृकातन्त्रे ५५ पटलः
श्रीशिव उवाच ।“शृणु देवि प्रवक्ष्यामि रहस्यं त्रिजटात्मकम् ।पत्रं ब्रह्ममयं देवि अद्भुतं वरवर्णिनि
श्रीशैलशिखरे जातः श्रीफलः श्रीनिकेतनः ।विष्णुप्रीतिकरश्चैव मम प्रीतिकरः सदा
ब्रह्मविष्णुशिवाः पत्रे वृन्तञ्च शक्तिरूपिणी ।वृन्तमूले तु वज्रं स्यात् पत्रे ब्रह्मपदं प्रिये
त्रिजटापत्रकैकेन हरं वा हरिमर्च्चयेत् ।कैवल्यं तस्य तेनैव शक्तिपूजा विशेषतः
पत्रं पुष्पं फलं तोयं नैवेद्यं धूपदीपकम् ।दत्त्वा यद्यत् फलं प्राप्तं तस्मात् कोटिगुणंभवेत्
सर्व्वैरर्च्चनतो देवि त्रिजटामेकमर्पणम् ।कैवल्यदो हरिश्चैव दास्येऽहं त्वां स्वरूपताम्
त्वयि कैवल्यदं ज्ञानं धर्म्मकामार्थदं प्रिये ।वज्रहीनमिदं देवि प्राप्नुयाद्वाञ्छितं फलम्
सवज्रे म्रियते नूनं वज्राघातेन पार्व्वति ।तस्माच्च साधकेन्द्रेण वज्रहीनं प्रदापयेत्
*
विल्वपत्रघ्राणग्रहणानन्तरगमनफलम् यथा, “ध्राणं गृहीत्वा यो गच्छेत् सर्व्वसिद्धिमवा-प्नुयात् ।ऊर्द्ध्वं सुदर्शनं रक्षेदधः पाशुपतस्तथा ।पुरो माहेश्वरी रक्षेत् पृष्ठे शूलधारिणी ।दक्षपार्श्वे श्रीनाथो वामपार्श्वे प्रजापतिः ।चन्द्रसूर्य्यौ धृतौ छत्रमहं पादौ करौ सदा
”इति ज्ञानभैरवतन्त्रे शिवपार्व्वतीसंवादे ६पटलः
(अस्य गुणाः यथा, --“बालं विल्वफलं ग्राहि दीपनम्पाचनङ्कटु ।कषायोष्णं लघु स्निग्धं तिक्तं वातकफापहम्
पक्वं गुरु त्रिदोषं स्याद्दुर्ज्जरं पूतिमारुतम् ।विदाहि विष्टम्भकरं मधुरं वह्निमान्द्यकृत्
फलेषु परिपक्वं यद्गुणवत्तदुदाहृतम् ।विल्वादन्यत्र विज्ञेयमामन्तद्धि गुणाधिकम् ।द्राक्षाविल्वशिवादीनां फलं शुष्कं गुणाधि-कम्
”इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे
)
Capeller
German
विल्व s. बिल्व.
Burnouf
French
विल्व विल्व
m.
ægle marmelos, bot. -- N. le fruit de vilva.
Mesure d'un पल।