| YouTube Channel

विलम्बी (vilambI)

 
शब्दकल्पद्रुमः
Sanskrit
विलम्बी, [न्] त्रि, विलम्बविशिष्टः इति विलम्ब-शब्दादिन्प्रत्ययेन निष्पन्नः
(यथा, गीत-गोविन्दे ।“भवति विलम्बिनि विगलितलज्जाविलपति रोदिति वासकसज्जा
”विशेषेण लम्बते इति वि + लम्ब + णिनिः ।लम्बमानः यथा, किराते ।“उदितपक्षमिवारतनिःस्वनैःपृथुनितम्बविलम्बिभिरम्बुदैः
”पुं, क्ली वत्सरविशेषः यथा, बृहत्संहिता-याम् ३९ ।“हेमलम्ब इति सप्तमे युगेस्याद्विलम्बि परतो विकारि ।शर्व्वरीति तदनु प्लवः स्मृतोवत्सरो गुरुवशेन पञ्चमः
”)