| YouTube Channel

विलम्बितं (vilambitaM)

 
शब्दकल्पद्रुमः
Sanskrit
विलम्बितं, त्रि, (वि + लम्ब + क्तः ।) अशीघ्रम् ।इत्यमरे शीघ्रपर्य्यायेऽविलम्बितशब्ददर्शनात्
(यथा, रघुवंशे ३३ ।“विलम्बितफलैः कालं निनाय मनोरथैः
”)मन्दत्वे, क्ली यथा, --“विलम्बितं द्रुतं मध्यं तत्त्वमोघो घनं क्रमात्
”इत्यमरः
मन्दत्वशीघ्रत्व उभयेतरत्वयुतेषु नृत्यविषयक-गमनविशेषेषु क्रमात्तत्त्वादिनामत्रयं विलम्बिता-दीनां त्रयाणां लयाणां तत्त्वादिकाः संज्ञाः ।इति मधुः
साञ्झे ।“द्रतामध्ययने वृत्तिं प्रयोगार्थे तु मध्यमाम् ।शिष्याणामुपरोधार्थे विलम्बितां समाचरेत्
”इति वेदव्यवस्था
नृत्यगीतादौ प्रत्येकमवसरबोधार्थं कण्ठ-स्वरादि विलम्बनात् विलम्बन्ते करचरणादयःप्रत्येकं गतिविशेषप्रदर्शनायात्रेति विलम्बितम् ।लवि स्रंसने ध्रौव्यगत्यदनार्थादिति आधारेक्तः भावे क्तः इति मुकुटः इति भरतः
विलम्बगमनशीलपशुः तद्यथा द्विरद-खड्गोष्ट्रमहिषगोगवयचमरवराहाः इतिराजनिर्घण्टः