| YouTube Channel

विलग्नं (vilagnaM)

 
शब्दकल्पद्रुमः
Sanskrit
विलग्नं,
क्ली,
(विशेषेण लग्नम् ।) मध्यः यथा, --“मध्योऽवलग्नं विलग्नं मध्यमोऽथ कटः कटिः
”इति हेमचन्द्रः
जन्मलग्नम् यथा, --“गोचरे वा विलग्ने वा ये ग्रहा रिष्टसूचकाः ।पूजयेत्तान् प्रयत्नेन पूजिताः स्युः शुभावहाः
गोचरे स्वराश्यपेक्षया यदा कदापि विलग्नेजन्मलग्ने इति संस्कारतत्त्वम्
मेषादिलग्न-मात्रम् यथा, --“शुभग्रहार्कवारे मृदुक्षिप्रध्रुवेषु ।शुभराशिविलग्ने शुभं शान्तिकपौष्टिकम्
”इति दीपिका
संलग्ने, त्रि यथा, --“विलग्नं स्त्रियां मन्ये त्रिषु स्याल्लग्नमात्रके
”इति मेदिनी