| YouTube Channel

विरूपः (virUpaH)

 
शब्दकल्पद्रुमः
Sanskrit
विरूपः, त्रि, (विकृतं रूपं यस्य ।) कुत्सितः ।कुरूपः यथा, --“विरूपोन्मत्तनिस्वानामकुत्सापूर्व्वकं हि यत् ।पूरणं दानमालाभ्यामनुग्रह उदाहृतः
”इति रामतर्कवागीशः
(यथा, बृहत्संहितायाम् ७० २३ ।“या तूत्तरोष्ठेन समुन्नतेनरूक्षाग्रकेशी कलहप्रिया सा ।प्रायो विरूपासु भवन्ति दोषायत्राकृतिस्तत्र गुणा वसन्ति
”परित्यक्तरूपः यथा, ऋग्वेदे १० ९५ १६ ।“यद्विरूपाचरं मर्त्तेष्ववसंरात्रीः शरदश्चतस्रः ।”“यद्यदा विरूपा परं मनुष्यस्य सम्पर्कात्विगतसहजभूतदेवरूपाः ।” इति तद्भाष्येसायणः
नानारूपः यथा, ऋग्वेदे ।५३ ।“इमे भोजा अङ्गिरसो विरूपादिवस्पुत्त्रासो असुरस्य वीराः
”“हे इन्द्र इमे यागं कुर्व्वाणा भोजाः सौदासाःक्षत्त्रियाः तेषां याजका विरूपाः विविधरूपामेधातिथिप्रभृतयः
इति तद्भाष्ये सायणः
विरुद्धः यथा, साहित्यदर्पणे १० परिच्छेदे ।“विरूपयोः संघटना या तद्विषमं मतम्
”उदाहरणं यथा, --“क्व वनं तरुवल्कभूषणंनृपलक्ष्मीः क्व महेन्द्रवन्दिता
”)स्वार्थे के विरूपकश्च
विरूपः,
पुं,
सुमनोराजपुत्त्रः यथा, --“जाताः सुमनसः पुत्त्रास्त्रयः शूरा महाबलाः ।सुमतिश्च विरूपश्च सत्यः शास्त्रार्थपारगाः
”इति कालिकापुराणे ९० अध्यायः