| YouTube Channel

विरुद्धः (viruddhaH)

 
शब्दकल्पद्रुमः
Sanskrit
विरुद्धः, त्रि, (वि + रुध + क्तः ।) विरोधविशिष्टः ।यथा विरुद्धधर्म्मसमवाये भूयसां स्यात्सधर्म्मकत्वम् इति जैमिनीसूत्रम्
“विरुद्धं गुरुवाक्यस्य यदत्र भाषितं मया ।तत् क्षन्तव्यं बुधैरेव स्मृतितत्त्वबुभुत्सया
स्मृतितत्त्वे प्रमादाद्यद्विरुद्धं बहुभाषितम् ।गुणलेशानुरागेण तच्छोध्यं धर्म्मदर्शिभिः
”इति तिथ्यादितत्त्वम्
(दशममनोर्ब्रह्मसावर्णेः देवतान्यतमः यथा, भागवते १३ २२ ।“हविष्मान् सुकृतः सत्यो जयो मूर्त्तिस्तदाद्विजाः ।सुवासना विरुद्धाद्या देवाः शम्भुः सुरेश्वरः
”क्ली, विचाराङ्गीयदोषविशेषः यथा “विरुद्धंनाम यद्दृष्टान्तसिद्धान्तसमयैर्विरुद्धं तत्रदृष्टान्तसिद्धान्तावुक्तौ समयः पुनर्यथायुर्वेदिकसमयो याज्ञियसमयो मोक्षशास्त्रिकसमय इति ।तत्रायुर्व्वेदिकसमयः चतुष्पादसिद्धिः आलभ्यापशव इति याज्ञियसमयः सर्व्वभूतेष्वहिंसेतिमोक्षशास्त्रिकसमयस्तत्र स्वसमयविपरीतमुच्य-मानं विरुद्धमिति
इति चरके विमान-स्थानेऽष्टमेऽध्याये
)