| YouTube Channel

विरुदावली (virudAvalI)

 
Aufrecht Catalogus Catalogorum
English
विरुदावली by Raghudeva, son of Viśveśvaramiśra. Oxf.
133^a.
शब्दकल्पद्रुमः
Sanskrit
विरुदावली,
स्त्री,
(विरुदानामावली ।) विरुद-श्रेणी स्तवमाला तल्लक्षणादि यथा, --“अधीत्य विरुदावल्या लक्षणं ग्रन्थकृत्कृतम् ।एताञ्चेत् पठति प्राज्ञस्तदा बोधोऽस्य पुष्कलः
सामान्यविरुदावल्या गोविन्दविरुदावलौ ।योऽभ्यधायि विशेषस्तैः तावदिह लिख्यते
कलिका लोकविरुदैर्युता विविधलक्षणैः ।कीर्त्तिप्रतापशौटीर्य्यसौन्दर्य्योन्मेषशालिनी
कलिकाद्यन्तसंसर्गिपद्या दोषविवर्ज्जिता ।शब्दाडम्बरसंवद्धा कर्त्तव्या विरुदावली
”इति श्रीरूपगोस्वामिकृते श्रीगोविन्दविरुदावली-भाष्ये श्रीबलदेवविद्याभूषणः
*
कलिका-लक्षणं कलिकाशब्दे लिखितम् विरुदलक्षणंतच्छब्दे द्रष्टव्यम्