| YouTube Channel

विरक्तः (viraktaH)

 
शब्दकल्पद्रुमः
Sanskrit
विरक्तः, त्रि, (वि + रन्ज + क्तः ।) विरागयुक्तः ।अननुरक्तः यथा, --“ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः ।स्वलिङ्गानाश्रमांस्त्यक्त्वा चरेदविधिगोचरः
”इति श्रीभागवते ११ स्कन्धे १८ अध्यायः
(यथा ।“त्वयि प्रसन्ने मम किं गुणेनत्वय्यप्रसन्ने मम किं गुणेन ।रक्ते विरक्ते वरे बधूनांनिरर्थकः कुङ्कुमराग एषः
”इत्युद्भटः
)