| YouTube Channel

विमाता (vimAtA)

 
Wordnet
Sanskrit
Synonyms:
विमाता, मातृसपत्नी
noun
मातुः सपत्नी।
"मातुः पितुः कनीयांसं नमेद् वयसाधिकः। नमस्कुर्यात् गुरोः पत्नीं भ्रातृजायां विमातरम्।"
शब्दकल्पद्रुमः
Sanskrit
विमाता, [ऋ]
स्त्री,
(विरुद्धा माता ।) मातृ-सपत्नी सत्मा इति भाषा सा कनीयस्यपिनमस्या यथा, स्मृतिः ।“मातुः पितुः कनीयांसं नमेद् वयसाधिकः ।नमस्कुर्य्यात् गुरोः पत्नीं भ्रातृजायां विमा-तरम
”स्मृत्यर्थसारे ।“स्त्रियो नमस्या वृद्धाश्च वयसा पत्युरेव ताः
”यतः पत्युर्व्वयसा तास्त्रियो वृद्धा अतः कनिष्ठाअपि नमस्याः इति मलमासतत्त्वत्
*
विमातृरजोनिवृत्तावपि पितामहधनविभाग-कर्त्तव्यत्वम् यथा बृहस्पतिः ।“पित्रोरभावे भ्रातॄणां विभागः संप्रदर्शितः ।मातुर्निवृत्ते रजसि जीवतोरपि शस्यते
”अत्र मातृपदं विमातृपरमपि पुत्त्रान्तरोत्पत्ति-सम्भावनातौल्यात् इति दायतत्त्वम्
*
अस्या अनंशित्वं यथा सोदरभ्रातृभिर्विभागेक्रियमाणे मात्रे पुत्त्रसमांशो दातव्यः समांश-हारिणी माता इति वचनात्मातृपदस्य जननी-परत्वात् सपत्नीमातृपरत्वमपि सकृच्छ्रुतस्यमुख्यगौणत्वानुपपत्तेः इति दायभागः