| YouTube Channel

विमलदानं (vimaladAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
विमलदानं,
क्ली,
(विमलं विशुद्धं दानम् ।) नित्य-नैमित्तिककाम्यदानम् ईश्वरप्रीणनार्थदानञ्च ।यथा, --“नित्यं नैमित्तिकं काम्यं विमलं दानमीरितम् ।अहन्यहनि यत्किञ्चिद्दीयतेऽनुपकारिणे ।अनुद्दिश्य फलं तत् स्यात् ब्राह्मणाय तु नित्य-कम्
यत्तु पापापशान्त्यै दीयते विदुषां करे ।नैमित्तिकं तदुद्दिष्टं दानं सद्भिरनुष्ठितम्
अपत्यविजयैश्वर्य्यस्वर्गार्थं यत् प्रदीयते ।दानं तत् काम्यमाख्यातमृषिभिर्द्धर्म्मचिन्तकः
चेतसा सत्त्वयुक्तेन दानं तद्बिमलं स्मृतम्
”इति गारुडे ५१ अध्यायः