| YouTube Channel

विमर्शनं (vimarzanaM)

 
शब्दकल्पद्रुमः
Sanskrit
विमर्शनं,
क्ली,
(वि + मृश + ल्युट् ।) परामर्शः ।वितर्कः यथा, --“वितर्कः स्यादुन्नयनं परामर्शो विमर्शनम् ।अध्याहारस्तर्क ऊहोऽसूयान्यगुणदूषणम्
”इति हेमचन्द्रः
(विमृश्यतेऽनेनेति करणे ल्युट् ज्ञानम् ।यथा, भागवते ११ ।“कर्म्मणा कर्म्मनिर्हारो ह्यात्यन्तिक इष्यते ।अविद्वदधिकारित्वात् प्रायश्चित्तं विमर्शनम्
”)