| YouTube Channel

विमर्द्दनं (vimarddanaM)

 
शब्दकल्पद्रुमः
Sanskrit
विमर्द्दनं,
क्ली,
(वि + मृद् + ल्युट् ।) कुङ्कुमादि-मर्द्दनम् तत्पर्य्यायः परिमलः इत्य-मरः
विमर्द्दः इति शब्दरत्नावली
विशेषेण मर्द्दनञ्च
(यथा, महाभारते ।३६ ।“धर्म्मस्य जानमानोऽहं गतिमग्यां सुदुर्व्विदाम् ।कथं बलात्करिष्यामि मेरोरिव विमर्द्दनम्
”त्रि, विशेषेण मृद्नातीति वि + मृद् + ल्युः ।मर्द्दनकारी पीडादायकः यथा, कथासरि-त्सागरे ११३ १९ ।“अभूच्च वारणस्तस्य परसेनाविमर्द्दनः ।महान् कुवलयापीड इति ख्यातो महीतले
”यथा साहित्यदर्पणे २६६ ।“अयं रसनोत्कर्षी पीनस्तनविमर्द्दनः ।नाभ्यूरुजघनस्पशीं नीवीविस्रंसनः करः
”)