| YouTube Channel

विभूतिद्वादशी (vibhUtidvAdazI)

 
Monier Williams Cologne
English
वि-भूति—द्वादशी
f.
a Vrata or religious observance on a partic. twelfth day (in honour of Viṣṇu), ib.
शब्दकल्पद्रुमः
Sanskrit
विभूतिद्वादशी,
स्त्री,
(विभूतिवर्द्धिका द्वादशी ।)व्रतविशेषः यथा, --नन्दिकेश्वर उवाच ।“शृणु नारद ! वक्ष्यामि विष्णोर्व्रतमनुत्तमम् ।विभूतिद्वादशीनाम सर्व्वपापनिसूदनम्
कार्त्तिके चैव वैशाखे मार्गशीर्षेऽथ फाल्गुने ।आषाढे वा दशम्यान्तु शुक्लायां लघुभुङ्नरः ।कृत्वा सायन्तनीं सन्ध्यां गृह्णीयान्नियमं बुधः
एकादश्यां निराहारः समभ्यर्च्च्य जनार्द्दनम् ।द्वादश्यां विधिसंयुक्तः करिष्ये भोजनं विभो ।तदविघ्नेन मे यातु साफल्यं मधुसूदन
ततः प्रभाते चोत्थाय कृतस्नानजपः शुचिः ।पूजयेत् पुण्डरीकाक्षं शुक्लमाल्यानुलेपनैः
विभूतिदाय नमः पादावशोकाय जानुनी ।नमः शिवायेत्यूरू विश्वमूर्त्तये नमः कटिम्
कन्दर्पाय नमो मेढ्रमादित्याय नमः करौ
दामोदरायेत्युदरं वासुदेवाय स्तनौ ।माधवायेति हृदयं कण्ठमुत्कण्ठिते नमः
श्रीधराय मुखं केशान् केशवायेति नारद ।पृष्ठं शार्ङ्गधरायेति श्रवणौ स्वयम्भुवे
स्वनाम्ना शङ्खचक्रासिगदापरशुपाणयः ।सर्व्वात्मने शिरो ब्रह्मन् नम इत्यभिपूजयेत्
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।उदकुम्भसमायुक्तमग्रतः स्थापयेद्विभोः
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।रात्रौ जागरणं कुर्य्यादितिहासकथादिना
प्रभातायाञ्च शर्व्वर्य्यां ब्राह्मणाय कुटुम्बिने ।सकाञ्चनोत्पलं देवं सोदकुम्भं निवेदयेत्
यथा मुच्यसे विष्णोः सदा सर्व्वविभूतिभिः ।तथा मामुद्धराशेषदुःखसंसारसागरात्
दशावताररूपाणि प्रतिमासं क्रमान्मुने ।दत्तात्रेयं ततो व्यासमुत्पलेन समन्वितम् ।दद्यादेवं समा यावत् पाषण्डानभिवर्ज्जयेत्
समाप्यैवं यथाशक्त्या द्वादशद्वादशीं नरः ।संवत्सरान्ते लवणपर्व्वतेन समन्विताम् ।शय्यां दद्यान्मुनिश्रेष्ठ गुरवेऽमरसंयुताम्
ग्रामञ्च शक्तिमान् दद्यात् क्षेत्रमाभरणान्वितम् ।गुरुं संपूज्य विधिवत् वस्त्रालङ्कारभूषणैः
अन्यानपि यथाशक्त्या भोजयित्वा द्विजोत्तमान् ।तर्पयेद्वस्त्रगोदानैरन्यत्र धनसञ्चयात्
अल्पवित्तो यथाशक्त्या स्तोकं स्तोकं समाचरेत् ।यश्चातिनिस्वः पुरुषो भक्तिमान् माधवं प्रति ।पुष्पार्च्चनविधानेन कुर्य्याद्बत्सरद्वयम्
अनेन विधिना यस्तु विभूतिद्बादशीव्रतम् ।कुर्य्यात् पापनिर्म्मुक्तः पितॄणान्तारयेच्छतम्
जन्मनां शतसाहसं शोकफलभाग्भवेत् ।न व्याधिर्भवेत्तस्य दारिद्र्यं बन्धनम्
वैष्णवो वाथ शैवो वा भवेज्जन्मनि जन्मनि ।यावद्युगसहस्राणां शतमष्टोत्तरं भवेत् ।तावत् स्वर्गे वसेद्ब्रह्मन् भूपतिश्च पुनर्भवेत्
”इति मात्स्ये ८२ अध्यायः