| YouTube Channel

विभुजन्-न्ती-ती (vibhujan-ntI-tI)

 
कृदन्तरूपमाला
Sanskrit
1 {@“भुजो कौटिल्ये”@} 2 ‘भुजेद् भुनक्ति भुङ्क्ते स्युः कौटिल्ये पालनेऽदने।’ 3 इति देवः।
भोजकः-जिका, भोजकः-जिका, बुभुक्षकः-क्षिका, बोभुजकः-जिका
इत्यादीनि सर्वाण्यपि रूपाणि प्रातिस्विकरूपाणि विना रौधादिकभुजधातुवत् 4 ज्ञेयानि।
5 भुग्नः 6 -भुग्नवान्, 7 विभुजन्-न्ती-ती, 8 मूलविभुजः, 9 10 भुजः, 11 भोगः
इमानि रूपाण्यधिकान्यत्रेति विशेषः।
प्रासङ्गिक्यः
01
=>
(११६३)
02
=>
(६-तुदादिः-१४१७। अक। अनि। पर।)
03
=>
(श्लो। ६५)
04
=>
(११६२)
05
=>
[[५। धातोरस्य, ओदित्त्वेन, ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्।]]
06
=>
[[B। ‘महाभराभुग्नशिरः सहस्रसाहायकव्यग्रभुजं प्रसस्रे।।’ शि। व। ३। २५।]]
07
=>
[[६। शतरि, तुदादित्वाच्छप्रत्यये तस्य ङिद्वद्भावेनाङ्गस्य गुणो न। स्त्रियां नुम्विकल्प इति विशेषः।]]
08
=>
[[७। मूलानि विभुजतीति मूलविभुजः = रथः। ‘कप्रकरणे--मूलविभुजादिभ्य उपसंख्यानम्’ (वा। ३-२-५) इति कर्मण्यणोऽपवादः कप्रत्ययः।]]
09
=>
[पृष्ठम्०९६०+ २७]
10
=>
[[१। इगुपधलक्षणे कर्तरि कप्रत्यये रूपमेवम्।]]
11
=>
[[२। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञि ‘चजोः कु--’ (७-३-५२) इति कुत्वे रूपमेवम्। ‘भोगः = सर्पकायः।’ इति क्षीरस्वामी। “अथवा भोग- शब्दः शरीरवाच्यपि दृश्यते। तद्यथा-- ‘अहिरिव भोगैः पर्येति बाहुम्--’ (ऋ। वे। ६-७५-१४) अहिरिव शरीरैरिति गम्यते” इति भाष्य (५-१-९) वचनप्रामाण्यात् शरीरसामान्ये भोगशब्दस्य वृत्तिरिति गम्यते।]]