| YouTube Channel

विभिन्नः (vibhinnaH)

 
शब्दकल्पद्रुमः
Sanskrit
विभिन्नः, त्रि, (वि + भिद् + क्तः ।) विभक्तः ।विदीर्णः यथा, --“गदापरशुखड्गैश्च चक्रतोमरशायकैः ।विभिन्ने वेदना या हि क्षुधया सापि निर्ज्जिताः
”इति इतिहाससमुच्चयः
(विघट्टितः यथा, शिशुपालवधे ५५ ।“विभिन्नशङ्खः कलुषीभवन्मुहु-र्म्मदेन दन्तीव मनुष्यधर्म्मणः
”)