| YouTube Channel

विभाज्यं (vibhAjyaM)

 
शब्दकल्पद्रुमः
Sanskrit
विभाज्यं, त्रि, विभजनीयम् विभागार्हम् यथा, “कुले विनीतविद्यानां भ्रातॄणां पितृतोऽपिवा ।शौर्य्यप्राप्तन्तु यद्वित्तं विभाज्यं तद्बृहस्पतिः
शिल्पेष्वपि हि धर्म्मोऽयं मूल्याद्यच्चाधिकंभवेत् ।परं निरस्य यल्लब्धं विद्यया द्यूतपूर्व्वकम् ।विद्याधनन्तु तद्विद्यान्न विभाज्यं बृहस्पतिः
”तथा ।“शौर्य्यभार्य्याधने चोभे यच्च विद्याधनं भवेत् ।त्रीण्येतान्यविभाज्यानि प्रसादो यच्च पैतृकः
”इति दायतत्त्वम्